अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 433, कुल 1258 में से
संदर्भ में पढ़ें४१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
रभिनिवर्त्तमान एव निर्वायादेवं¹ प्रथमः। तद्यथाऽयस्पाटिका उत्पतन्त्येव
निर्वायादेवं द्वितीयः। तद्यथाऽयःप्रपाटिका उत्प्लुत्य पृथिव्यामपतित्वैव² निर्वाया-
देवं तृतीयः। न चैवमन्तरा नाम देवास्त्रिप्रकाराः काल-देश-प्रकर्षभिन्नाः सन्तीति
कल्पनेवेयं केवला।
एव निर्वायात्, एवमेव तस्य तावन्मानावशेषप्रहीणं भवत्यपरिज्ञातम्। तस्य
तावन्मानावशेषस्याप्रहाणादपरिज्ञानात् पञ्चानामवरभागीयानां संयोजनानां
प्रहाणादन्तरापरिनिर्वायी भवति। इयं प्रथमा सत्पुरुषगतिराख्याता।
“पुनरपरं भिक्षुरेवं प्रतिपन्नो भवति—नो च स्यामिति पूर्ववत् यावत् स्युः
प्रहार इति। तद् यथाऽयोगुडानां वा अयस्फालानां वा प्रदीप्ताग्निसंप्रतप्तानाम-
योगधेनेन हन्यमानानामयस्प्रपाटिका उत्पतन्त्येव निर्वायात्। एवमेव तस्य पूर्ववत्
यावत् पञ्चानामवरभागीयानां संयोजनानां प्रहाणादन्तरापरिनिर्वायी
भवति। इयं द्वितीया सत्पुरुषगतिः।
“पुनरपरं भिक्षुरेवं प्रतिपन्नो भवति—पूर्ववद् यावदयस्प्रपाटिका उत्प्लुत्या-
पतित्वैव पृथिव्यां निर्वायात्। एवमेव तस्य पूर्ववद् यावदन्तरापरिनिर्वायी
भवति। इयं तृतीया सत्पुरुषगतिः।
“पुनरपरं भिक्षुरेवं प्रतिपन्नो भवतीति पूर्ववद् यावद् अयस्प्रपाटिका
उत्प्लुत्य पतितमात्रैव पृथिव्यां निर्वायात्। एवमेव तस्य पूर्ववद् यावत्
पञ्चानामवरभागीयानां संयोजनानां प्रहाणादुपपद्यपरिनिर्वायी भवति। इयं
चतुर्थी सत्पुरुषगतिः।
“पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद् यावदयस्प्रपाटिका उत्प्लुत्य
परीत्ते तृणकाष्ठे निपतेत्, सा तत्र धूममपि कुर्यादर्चिरपि सञ्जनयेत्। सा तत्र
धूममपि कृत्वाऽर्चिरपि सञ्जनय्य तदेवं परीत्तं तृणकाष्ठं दग्ध्वा पर्यादाय निरूपा-
दाना निर्वायात्। एवमेव तस्य पूर्ववद् यावत् पञ्चानामवरभागीयानां संयोज-
नानां प्रहाणादनभिसंस्कारपरिनिर्वायी भवति। इयं पञ्चमी सत्पुरुषगतिः।
“पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद् यावदयस्प्रपाटिका उत्प्लुत्य महति
विपुले तृणकाष्ठे निपतेत्, सा तत्र धूममपि कुर्यादर्चिरपि सञ्जनयेत्। सा तत्र
धूममपि कृत्वाऽर्चिरपि सञ्जनय्य तदेव महद् विपुलं तृणकाष्ठं दग्ध्वा पर्यादाय
निरूपादाना परिनिर्वायात्। एवमेव तस्य पूर्ववद् यावत् पञ्चानामवरभागी-
यानां संयोजनानां प्रहाणात् साभिसंस्कारपरिनिर्वायी भवति। इयं षष्ठी
सत्पुरुषगतिः।
१. परिनिर्वाया०—का०। २. मपतितैव—का०।