सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 431, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 431

४१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
एवं तावद्युक्तितो नेष्यते । न मरणभवाद्दिच्छिन्न उपपत्तिभवप्रादुर्भावः ।
तस्मादस्त्येवान्तराभवः ।
कण्ठोक्तेश्चास्ति,
सूत्र उक्तम्—"सप्त भवाः । नरकभवः, तिर्यग्भवः, प्रेतभवः, देवभवः,
मनुष्यभवः, कर्मभवः, अन्तराभवः" इति ।
नैतत् सूत्रं तैराम्नायते !
इतस्तर्हि—
गन्धर्वात्,
"त्रयाणां स्थानानां सम्मुखीभावात् मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति ।
माता कल्याऽपि भवति, ऋतुमती च । मातापितरौ रक्तौ१ सन्निपतितौ च ।
गन्धर्वश्च प्रत्युपस्थितो भवति" ( ) इति । अन्तराभवं हित्वा
कोऽन्यो गन्धर्वः !
एतदपि नैव तैराम्नायते । कथं तर्हि "स्कन्धभेदश्च प्रत्युपस्थितो
भवति" ( ) इति ?
यद्येवम् ? आश्वलायनसूत्रं कथं नीयते—"जानन्ति भवन्तो योऽसौ
कथमिति ? यतोऽपेति यत्र चोत्पद्यते तदन्तरालसन्तानवर्त्तिरूपपूर्वकमुपपत्ति-
भवरूपम्; अद्वयोत्पन्नस्वोपादानरूपसन्तानरूपस्वभावत्वात्, व्रीहिसन्तानपश्चा-
त्तरूपवदिति । तदेवं सति नास्य साधनस्यानेकान्तिकता शक्यमुद्ग्राहयितुम्,
नापि प्रतिसाधनं कर्तुमित्युक्तं भवति ।
आगमेनान्तराभवस्यास्तित्वं साधयन्नाह—"कण्ठोक्तेश्चास्ति" इति । स्व-
शब्दाभिधानादित्यर्थः । नैतत् सूत्रं तैराम्नायत इति । तैर्निकायन्तरीयैः ।
कस्मान्नाम्नायते ? तदागमेष्वभावात् । निकायन्तरागमप्रसिद्धं किमिति न
प्रमाणं क्रियते ? मूलसंगीतिभ्रंशेन समारोपितसूत्राशङ्कितत्वात् ।
त्रयाणां स्थानानामिति । त्रयाणां हेतूनां माता कल्या माता नीरोगा,
ऋतुमर्ती रजस्वला, तदेतदुभयं प्रथमं स्थानं भवति । रक्तौ सन्निपतिताविति ।
मैथुनधर्मं कुर्वन्तौ, इदं द्वितीयं स्थानम् । गन्धर्वश्च प्रत्युपस्थित इति तृतीयम् ।
स्कन्धभेदश्च प्रत्युपस्थित इति मरणभवः ।
१. रक्तौ भवतः—का०।