अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 427, कुल 1258 में से
संदर्भ में पढ़ें४०३ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
सन्तानवर्त्तिनां हि धर्मानामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टः, तद्यथा
व्रीहिसन्तानस्य। तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादु-
र्भावो भविष्णुः।
विच्छिन्नोऽपि दृष्टः प्रादुर्भावः, तद्यथा—आदर्शादिषु बिम्बात् प्रति-
बिम्बम् १। एवं मरणभवादुपपत्तिभवस्य स्यात्।
प्रतिबिम्बमसिद्धत्वादसाम्याच्चानिदर्शनम् ॥ ११ ॥
प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्मान्तरमित्यसिद्धमेतत्।
सन्तानो व्रीहिसन्तानः। तेन साधर्म्यादविच्छिन्नस्य भवस्योद्भवो भवति।
यतोऽपैति, यत्र चोत्पद्यते, तदन्तरालसन्तानवर्त्तिरूपपूर्वकमुपपत्तिभवरूपम्;
स्वोपादानरूपसन्तानरूपस्वभावत्वात्, व्रीहिसन्तानपश्चात्तररूपवत्।
सन्तानवर्त्तिनां हि धर्मानामविच्छेदेन देशान्तरोत्पत्या देशान्तरेषु प्रादुर्भावो
दृष्टः। तद्यथा—व्रीहिसन्तानस्य। व्रीहिसन्तानपश्चात्तररूपं हि यतो देशान्तरा-
दपैति, यत्र च देशान्तर उत्पद्यते, तदन्तरालसन्तानवर्त्तिरूपपूर्वकमुत्पद्यते।
क्षणिकवादिनां ह्ययमस्माकं सिद्धान्तः—यदा ग्रामाद्ग्रामान्तरं नीयते व्रीहिः,
न स व्रीहिः पूर्वत्र ग्रामे निरुध्य तद्ग्राामान्तरालेऽनुत्पद्यमानोऽनेकयोजनान्तरि-
तेऽपि ग्रामान्तर उत्पद्यते। किं तर्हि? निरन्तराकाशदेशोत्पादनिरोधक्रमेणो-
त्पद्यते ग्रामान्तरे। तच्च स्वोपादानरूपसन्तानरूपस्वभावम्; तथोपपत्तिभव-
रूपमप्युत्पद्यत इति। अत्राचार्यगणमतिः सह शिष्येणाचार्यवसुमित्रेण स्वनि-
कायानुरागभावितमतिर्व्याख्यानव्यापारमपास्य प्रत्यवस्थानपर एव वर्त्तते।
वयमिह शास्त्रार्थविवरणं प्रत्याद्रियामहे, न तद्दूषणम्; निःसारत्वात्, बहु-
वक्तव्यभयाच्च। भविष्णुर्भवनशीलः।
विच्छिन्नोऽपीति विस्तरः। आदर्शादिषु बिम्बात् प्रतिबिम्बमिति। आदर्शी-
दकादिषु बिम्बात् मुखात् प्रतिबिम्बं मुखच्छायारूपं विच्छिन्नमुत्पद्यमानं दृष्ट-
मित्यनेनानैकान्तिकतामुद्ग्राहयति। प्रतिसाधनं वा करोति—'यतोऽपैति, यत्र
चोत्पद्यते, न तदन्तरालसन्तानवर्त्तिरूपपूर्वकमुपपत्तिभवरूपम्; स्वोपादान-
रूपसन्तानरूपस्वभावत्वात्, प्रतिबिम्बरूपवत्' इति।
प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्मान्तरमित्यसिद्धमेतदिति। बिम्बसामर्थ्या-
देव तत्रादर्शादिषु प्रतिबिम्बाकारं भ्रान्तं विज्ञानमुत्पद्यत इत्याचार्यस्याभि-
प्रायः। न तत्र प्रतिबिम्बं नाम किञ्चिदस्ति इत्यनेन धर्म्यसिद्धिनम दृष्टान्तदोषं
१. प्रतिबिम्बस्य—का०।