अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 406, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ३८५
सम्भवाद् रूपं निश्रित्य प्रवृत्तिः; यस्यास्तु हेतुर्वीततृष्णः, रूपे तस्या अनपेक्ष्य
रूपं प्रवृत्तिः; हेतोस्तद्विमुखत्वादिति ।
अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते ? स्वलक्षणधारणाद् धातुः ।
कामप्रतिसंयुक्तो धातुः कामधातुः, रूपप्रतिसंयुक्तो धातू रूपधातुः; मध्यमपदलोपाद्
वज्रवालकवत्, मरिचपानकवच्च । नात्र रूपमस्तीत्यरूपः, अरूपस्य भाव
आरूप्यम्; रूपणीयो वा रूप्यः, न रूप्योऽरूप्यः, तद्भाव आरूप्यम्, तत्प्रति-
संयुक्तो धातुरारूप्यधातुः ।
कामानां वा¹ धातुः कामधातुः, कामान् यो दधाति । एवं रूपारूप्यधातू
वेदितव्यौ ॥
कोऽयं कामो नाम ?
समासतः कवडीकाराहारमैथुनोपसंहितो रागः ।
क्षेपहेतुः कर्मक्लेशलक्षणः । विगता तृष्णा अस्येति वीततृष्णः, न वीततृष्णोऽ-
वीततृष्णः । क्व ? रूपे । तस्याः चित्तसन्ततेः सह रूपेण सम्भवाद् रूपं निश्रित्य
प्रवृत्तिः । हेतोस्तद्विमुखत्वादिति । आक्षेपहेतो रूपविमुखत्वादित्यर्थः ।
वज्रवालकवदिति । वज्रेण प्रतिसंयुक्तो वालकोऽङ्गुलीयकः कटको वा
वज्रवालकः; मरिचपानकवच्च । यथा मरिचैः प्रतिसंयुक्तं पानकं मरिचपानकम्
मध्यमपदलोपात्, तद्वत् कामप्रतिसंयुक्तो धातुः कामधातुरित्यादिः । रूपणीयो
वेति । बाधनीय इत्यर्थः । रूपयोगाच्च स शक्यते बाधितुम् । तद्भाव आरूप्यमिति ।
यद्वा धातूत्तरपदमेतद्भवति तदारूप्यधातुरिति युज्यते । यदा तु निरुत्तरपद
आरूप्यशब्दप्रयोगः, तद्यथा—अतिक्रम्य रूपाण्यारूप्या इति, तदा आरूपा
एवारूप्या इति स्वार्थे तद्धितात् परिग्रहः कार्यः । आरूप्ये वा साधव आरूप्या
इति पश्यामः ।
कामानां वा धातुरिति । षष्ठीसमासेनेव साध्यते विनापि प्रतिसंयुक्तशब्द-
लोपेन । कश्चासौ कामानां धातुः ? इत्याह—कामान् यो दधातीति । एवं रूपा-
रूप्यधातू वेदितव्याविति । रूपाणां धातु रूपधातुरिति, रूपाणि यो दधातीति ।
आरूप्यस्य धातुरारूप्यधातुः, आरूप्यं यो दधातीति ।
कवडीकाराहारमैथुनोपसंहितो राग इति । कवडीक्रियत इति कवडीकारः,
स एवाहारः कवडीकाराहारः । मिथुने भवः मैथुनम्=द्वन्द्वालिङ्गनादि । कवडी-
काराहारमैथुनाभ्यामुपसंहितः सम्बद्धो जनित इति वा कवडीकाराहारमैथु-
नोपसंहितो रागः । कामः, काम्यतेऽनेनेति काम इति कृत्वा ।
१. का० पुस्तके नास्ति ।