सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 405, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 405

तस्याः केन बलवत्त्वम् ? समापत्तिविशेषजत्वात् । सा हि समापत्ति-
र्विभूतरूपसंज्ञा ।
तत एव तर्हि बलवत्त्वात् प्रवर्त्तिष्यते, किं पुनर्निश्रयेण ? इदं चापि
वक्तव्यम्— यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागः,
जीवितेन्द्रियं च; एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते ? तदेतद् १ द्वय-
मन्योऽन्यम् । रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् ? दुर्बलत्वात्
तयोः । तत्रेदानीं केन बलवत्त्वम् ? समापत्तिविशेषजत्वात् । तदेतच्चित्तसन्ततौ
समानं चित्तचैत्तेषु वा । तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यं निश्रय
इति सौत्रान्तिकाः ।
अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णः, रूपे तस्याः सह रूपेण
रूपिणां सत्त्वानां दुर्बला चित्तसन्ततिर्विभूतरूपसंज्ञत्वाद् विना रूपेण न वर्त्तते,
ततो रूपं निश्रित्य वर्त्तते ।
तस्याः केन बलवत्त्वमिति। तस्या आरूप्यावचर्याः केन कारणेन बलवत्त्वम् ?
अत आह—समापत्तिविशेषजत्वादिति विस्तरः । विभूतरूपसंज्ञेति । विगतरूप-
संज्ञेत्यर्थः । अतस्तज्जा आरूप्या चित्तसन्ततिरपि रूपनिरपेक्षा प्रवर्त्तते । तत
एव तर्हि बलवत्वात् समापत्तिविशेषजनितात् प्रवर्त्तयिष्यते । किञ्चिदनिश्रित्ये-
त्यभिप्रायः ।
यथा रूपिणामिति विस्तरः । यथा रूपिणां रूपनिश्रिते निकायसभाग-
जीवितेन्द्रिये, एवमरूपिणां किंनिश्रिते इति वाक्यार्थः ।
तदेतदेतद् द्वयमन्योन्यमिति । निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्त्तते,
जीवितेन्द्रियं च निकायसभागमिति । किमर्थं न तदेव द्वयमन्योन्यमिति । किं
रूपनिश्रयेणेत्यभिप्रायः । तत्रेदानीमिति । तत्रारूप्यधातौ केन बलवत्त्वं तयो-
र्निकायसभागजीवितेन्द्रिययोः । तदेतत् चित्तसन्ततौ समानमिति । असावपि
चित्तसन्ततिः समापत्तिविशेषाज्जाता भवतीति न द्वयं निश्रित्य प्रवर्त्तयिष्यते ।
अनाश्रिते प्रवर्त्तयिष्यत इति चित्तचैत्तेषु वा समानमिति प्रकृतम् । किं पुनः
समानमन्योन्यनिश्रयत्वम् ? यथा निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्त्तते,
जीवितेन्द्रियं च निकायसभागं निश्रित्य प्रवर्त्तते; तथा चित्तं निश्रित्य चैत्ताः
प्रवर्त्तयिष्यन्ते, चैत्तांश्च निश्रित्य चित्तं प्रवर्त्तयिष्यत इति । तदन्योन्याश्रयकल्पना
निष्प्रयोजनेति । यस्याश्चित्तसन्ततेरिति । विस्तरः—चित्तसन्ततेराक्षेपाय हेतुरा-

१. तदेव--का० ।