अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 404, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ३८३
आरूप्यधातुरस्थानः
न ह्यरूपिणां धर्माणां स्थानमस्ति । अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा
अदेशस्था इति नियमः । स तु—
उपपत्त्या चतुर्विधः ।
उपपत्तिभेदेन चतुर्विध आरूप्यधातुः । यदुत आकाशानन्त्यायतनम् ,
विज्ञानानन्त्यायतनम् , आकिञ्चन्यायतनम् , नैवसंज्ञानासंज्ञायतनमिति । न त्वेषां
देशकृतमौत्तराधर्यं विद्यते । यत्रैव हि देशे तत्सभापत्तिलाभिनश्च्यवन्ते तत्रै-
वोपपद्यन्ते इति । पुनश्च तस्माच्च्यवमानानां तत्रैवान्तरभवोऽभिनिर्वर्त्तते ॥
यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसन्ततिः, एवमारूप्येषु किं
निश्रित्य प्रवर्त्तते ?
निकायं जीवितं चात्र निःश्रिता चित्तसन्ततिः ॥ ३ ॥
(निकायसभागं जीवितेन्द्रियं च निश्रित्येत्यभिधार्मिकाः ।
रूपिणामपि तर्हि सत्त्वानां किमर्थं न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्त-
सन्ततिः ? दुर्बलत्वात् ।
अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा अदेशस्था इति । अतीतानागता-
रूपिणोऽप्यदेशस्थाः । अविज्ञप्तिः रूपिणी वर्त्तमानाप्यदेशस्था । अरूपिणो
वेदनादयस्तथैव वर्त्तमाना अप्यदेशस्थाः, किमङ्गातीतानागताः !
“उपपत्त्या चतुर्विधः” इति । कर्मनिवृत्ता जन्मान्तरे स्कन्धप्रवृत्तिः = उप-
पत्तिः, तया । आरूप्यधातुश्चतुर्विधः । चतुःप्रकारः । यदु[त आ]काशानन्त्यायतनमिति ।
विस्तरः—अनन्तमाकाशमिति समापत्तिप्रयोगकालाकारादाकाशानन्त्यम्, तस्य
तदेव चायतनम् । एवमनन्तं विज्ञानं नास्ति किञ्चिदिति तदाकाराद् विज्ञाना-
नन्त्यायतनम्, आकिञ्चन्यायतनं चोच्यते । संज्ञागण्डः = संज्ञाशल्यम्, आसंज्ञिकं
संमोह इति संज्ञामान्द्योत्पत्तेर्नैवसंज्ञानासंज्ञायतनमित्युच्यते । न त्वेषां देशकृत-
मौत्तराधर्यमिति । अदेशस्थत्वात् ।
यथा रूपिणामिति विस्तरः । कि कृतेयमाशङ्का ? इह नैरात्म्ये सति चित्त-
चैत्तानां कामरूपधात्वो रूपनिश्रयाप्रवृत्तिः कल्प्येत, आरूप्येषु तु रूपं
नास्तीति तत्र चित्तचैत्तप्रवृत्त्या न भवितव्यमित्याशङ्कानिवृत्त्यर्थमिदमुच्यते—
“निकायं जीवितं चात्र निःश्रिता चित्तसन्ततिः” इति । च-शब्देन पृथग्जन-
त्वासमन्वागमप्राप्तिजात्यादयः संगृह्यन्ते । दुर्बलत्वादिति ! कस्यचित् सन्ततेः ।