सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 402, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 402

निर्देशः ] तृतीयं कोशस्थानम् ३८१
कालसूत्रः, सङ्घातः, रौरवः, महारौरवः, तपनः, प्रतापनः, अवीचिश्चेति; चत्वारो
द्वीपाः—जम्बूद्वीपः, पूर्वविदेहः, अवरगोदानीयः, उत्तरकुरुश्च; षट् चानन्तरोक्ता
देवनिकायाः; तिर्यञ्चः प्रेताश्च—इत्येतानि विंशतिः स्थानानि कामधातुः
परिनिर्मितवशवर्त्तिभ्यो यावदवीचिः, सभाजनग्रहणेन तु यावद् वायु-
मण्डलम् ॥ १ ॥
एतस्माच्च कामधातोः—
ऊर्ध्वं सप्तदशस्थानो रूपधातुः,
कथमिति ? आह—
पृथक् पृथक् ।
ध्यानं त्रिभूमिकं तत्र, चतुर्थं त्वष्टभूमिकम् ॥ २ ॥
प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि ।
तत्र प्रथमध्यानम्—ब्रह्मकायिकाः, ब्रह्मपुरोहिताः, महाब्रह्माणः; द्वितीयम्—
परीत्ताभाः, अप्रमाणाभाः, आभास्वराः; तृतीयम्—परीत्तशुभाः, अप्रमाणशुभाः,
वायवो जीवयन्ति । कालसूत्रः, यत्र कालसूत्राणि पातयित्वा सत्त्वास्तक्ष्यन्ते ।
सङ्घातः, यत्र मेषाकृतयः पर्वतादय उभयत आपतन्तः सत्त्वान् पीडयन्ति ।
रौरवः, यत्र सत्त्वाः पात्यमानाः परमविकृतं रुदन्ति । यत्र तु विशेषेण स महा-
रौरवः । तपनः, यत्राग्न्यादिभिस्तप्यन्ते सत्त्वाः । यत्र तु विशेषेण स प्रतापनः ।
अवीचिः, यत्रातिमात्राग्निज्वालालिङ्गितानां सत्त्वानां सुखवीचिरन्तरं नास्ति ।
जम्बुद्वीपः जम्बुचिह्नद्वीपो द्वीपः । पूर्वविदेहः सुमेरोः पूर्वेण । अवरगोदानीयः
पश्चिमेन । उत्तरकुरुरुत्तरेण । एवं नामान एते द्वीपा लोकप्रतीताः । षट्
चानन्तरोक्ता देवनिकायाः । इत्येतानि विंशतिः स्थानानीति । अष्टौ नरकाः,
चत्वारो द्वीपाः, षट् चानन्तरोक्ताश्चातुर्महाराजिकादयः, प्रेतास्तिर्यञ्चश्चाभिन्ना
इति विंशतिस्थानः कामधातुः । यावद् वायुमण्डलमिति । अधस्ताद् यत्राब्मण्डलं
भवति ॥ १ ॥
“रूपधातुः” इति । रूपप्रभावितो धातुः ।
“पृथक् पृथक् ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम्” इति । तत्र
रूपधातौ सर्वेषामपि ध्यानानां मृदुमध्याधिमात्रभेदेन प्रत्येकं त्रिभूमिकम् ।
ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्मण इति प्रथमम् । परीत्ताभा अप्रमाणाभा
आभास्वरा इति द्वितीयम् । परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना इति तृतीयम् ।