सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 38, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 38

निर्देशः ] प्रथमं कोशस्थानम् १९
कतमत् त्रिविधमसंस्कृतम् ?
आकाशं द्वौ निरोधौ च;
कतमौ द्वौ ? प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधश्चेति । एतदाकाशादि
त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः ।
किं कारणम् ? न हि तेष्वास्रवा अनुशेरत इति ।
यदेतत् त्रिविधमसस्कृतमुद्दिष्टम्,
तत्राकाशमनावृतिः ॥ ५ ॥
अनावरणस्वभावमाकाशम्, यत्र रूपस्य गतिः ॥ ५ ॥

ननु च समासनिर्देशादेव “सास्रवानास्रवा धर्माः” ( अभि० को० १. ४ )
इति तृतीयराश्यप्रसङ्गः ? न; तत्रैकशेषनिर्देशसम्भवात् । सास्रवाश्चानास्रवाश्च
सास्रवानास्रवाश्चेति सास्रवानास्रवा इत्येकशेषः । असरूपाणामप्येकशेष इष्यते,
“गुणो यङ्लुकोः” ( पा० सू० ७. ४. ८३ ) इति यथा ।
अपरे पुनराहुः—अर्थापत्त्या सिद्धमेवैतत्, स्पष्टीकरणार्थं तु प्रपञ्च उच्यते ।
तद्यथा—“विशेषणं विशेषेण बहुलम्” ( पा० सू० २. १. ५७ ) इत्यनेनेव सर्वं
सिद्धम् “पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन” ( पा० सू०
२.