सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 37, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 37

१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
अनास्रवाः कतमे ?
अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् ।
क्लेशानाम्, ऊर्ध्वा च भूमिरधराणाम्, अतोऽपि न तेषु प्रतिष्ठां लभन्ते; तप्त
इवोपले तलानि पादानामिति ॥ ४ ॥
“अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम्” इति। अर्थापत्तिसिद्धत्वान्न
सूत्रयितव्यमेतद् ?—इत्येवं चोद्ये –“वक्तव्यमेवेदम्,
किं कारणम् ? द्विविधो हि मार्गः—लौकिकः, लोकोत्तरश्च। अतो विशेषार्थं
पुनरभिधीयते। अत एव चात्र मार्गसत्यग्रहणम्। प्रसिद्धं चार्थापत्त्या गम्यते,
नाप्रसिद्धम्। अप्रसिद्धं चासंस्कृतमिति।
उच्यते। यथा हि तिस्रो वेदना भवन्ति—सुखा, दुःखा, अदुःखासुखा चेति;
एवं धर्मा अपि सम्भाव्येरन्—सास्रवाः, अनास्रवाः, सास्रवानास्रवाश्चेति। अथ
वा–नैव सास्रवा नानास्रवाश्चेति। तेन येऽर्थापत्त्या निरस्ताः किं तेऽनास्रवा एव ?
उताहो सास्रवानास्रवा एव ? आहोस्विन्नोभयथा ? इति सन्दिह्येत। अस्ति हि
सास्रवानास्रवत्वविकल्पावकाशः। कथमिति ? वैभाषिकप्रक्रियया तावत् “द्विधा
सानुशयं क्लिष्टमक्लिष्टमनुशायिकैः।” (अभि० को० ५.३२) इति वचनाद् ये
चक्षुरादयो बाह्या वा रूपादयोऽक्लिष्टास्तेऽनुशयानैरेवास्रवैः सास्रवाः, नाननु-
शयानैः। प्रहीणैस्तैरननुशयानैरनैवं सास्रवाः। अप्रहीणैस्त्वन्ततः परसन्तान-
गतैरपि सास्रवा एवेति दार्ष्टान्तिकप्रक्रिययापि च चक्षुरादयोऽर्हत्सन्तानगता
बाह्याश्च रूपादयोऽनास्रवाः, आस्रवाणामनाश्रयत्वात्; सास्रवाश्च ते, आस्रवा-
णामप्रतिपक्षत्वात् इति पर्यायिकं सास्रवानास्रवत्वं चक्षुरादीनां कल्प्यत इति
सन्देहः। नन्वनेवंविनिवृत्त्यर्थनिराकरणार्थम्—“अनास्रवा मार्गसत्यं त्रिविधं चाप्य-
संस्कृतम्” इति। निष्पर्यायमनास्रवा एवामी, न सास्रवा यथोक्तमिति पुन-
र्वचनम्। ते तर्हि अर्हच्चक्षुरादयो वैभाषिकैः क्व पक्षे निक्षेप्तव्याः—किं सास्रवपक्षे,
अथानास्रवपक्ष इति ? सास्रवपक्ष इति त आहुः।
कथं प्रहीणैरास्रवैस्ते सास्रवा व्यवस्थाप्यन्ते ? येष्वास्रवा अनुशेरते,
अनुशायितवन्तः, अनुशायिष्यन्ते वा, ते सास्रवाः । त्रैकालिकार्थविवक्षायामपि
हि लोके वर्तमानकालप्रयोगो दृश्यते—यः प्रजा रक्षति स राजेति, योऽपि
रक्षितवान् योऽपि रक्षिष्यति स चापि राजेति गम्यत एवेति अत एवं
व्याख्यायते। अथ वा—यद्यपि ते प्रहीणैरास्रवैर्न सास्रवाः, अप्रहीणैस्त्वपरिनि-
ष्ठितसर्वैरन्ततः परसन्तानगतैरपि सास्रवा एव भवन्ति।'