सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 36, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 36

[निर्देशः ] प्रथमं कोशस्थानम् १७
कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते, न त्वनुशेरते तत्रेति
न तयोः सास्रवत्वप्रसङ्गः । यथा तत्र¹ नानुशेरते, तत् पश्चादनुशयनिर्देश
( अभि० को० ५.१८ ) एव ज्ञापयिष्यामः ॥ ४ ॥
उक्ताः सास्रवाः ॥
सास्रवा स्यादिति ? अत आह—"आस्रवास्तेषु यस्मात् समनुशेरते" इति ।
तस्मात् सास्रवा इति पूर्वमेवाध्याहार्यस्तस्माच्छब्दः । अनुशेरत इति पुष्टिं
लभन्त इत्यर्थः । प्रतिष्ठां लभन्त इत्यर्थो वा । पुष्टिलाभे प्रतिष्ठालाभे वा ते
रागादयः सन्तायन्ते ।
अपरे व्याचक्षते—यथा 'अनुशेते मनागमाहार.' इति पथ्योऽनुगुणीभवती-
त्यर्थः, तथा रागादयोऽपि तेषु धर्मेष्वनुशेते, अनुगुणीभवन्तीत्यर्थः । रागाद्य-
भिष्यन्दितकर्मनिर्वर्तिता हि सास्रवा धर्माः; "कर्मजं लोकवैचित्र्यम्" ( अभि०
को० ४.१ ) इति वचनात् । प्रत्ययानुगुणेनानुशेरते पुष्टिं लभन्त इत्यनुशयाः ।
अनुशेरते अनुगुणा वर्तन्त इति निर्वचनं यावत् । अनुशयनं चैषामालम्बनतः
सम्प्रयोगतो वा द्रष्टव्यम् ।
गुणमतिस्त्वाचार्य इह व्याचष्टे—"किं कारणं यत् सर्वधर्मेष्वास्रवाणामा-
लम्बनीभवत्सु संस्कृता एव मार्गवर्जिताः सास्रवा उच्यन्त इति ? सर्वे धर्मा
आस्रवाणामालम्बनम्" इति । अनाभिधार्मिकीयमेतत्; आकाशप्रतिसंख्यानि-
रोधयोरास्रवानालम्बनत्वात् । षडेव ह्यनुशया अनास्रवालम्बनाः पठ्यन्ते, ते च
निरोधमार्गालम्बना एव;
"मिथ्यादृग्विमतौ ताभ्यां युक्ताविद्या च केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः" ॥
( अभि० को० ५. १८ )
इति वचनात् । तस्मान्न सुलिखितमेतदिति पश्यामः ।
काममिति यद्यपीत्यर्थः । अथ वा—काममिति निपातोऽभ्युपगमार्थः ।
अभ्युपगम्यत एव निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्त इत्यर्थः ।
तत्र निरोधमार्गसत्ययोः । अनुशयनिर्देश एव ज्ञापयिष्याम इति । "नानास्रवोर्ध्व-
विषया अस्वीकाराद् विपक्षतः" ( अभि० को० ५. १८ ) इत्यत्र ।
यदि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति, तत्राग्येऽप्यनुशया अनुशयितु-
मुत्सहन्ते; आर्द्र इव पटे रजांसि संस्थातुम् । न चैवमनास्रवम्, नाप्यूर्ध्वा भूमिः;
अतो न तदालम्बनास्तेष्वनुशेरते । विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां
१. अत्र—का० ।
अभि० को० २