अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 35, कुल 1258 में से
संदर्भ में पढ़ें१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कतमे पुनस्ते धर्मा येषां प्रविचय्यार्थमभिधर्मोपदेशः ? इत्याह--
सास्रवानास्रवा धर्माः
एष सर्वधर्माणां समासनिर्देशः ॥
तत्र कतमे सास्रवा धर्माः ? इत्याह—
संस्कृता मार्गवर्जिताः ।
सास्रवाः
मार्गसत्यं वर्जयित्वाऽन्ये सर्वे¹ संस्कृताः¹ सास्रवाः ।
किं कारणम् ?
आस्रवास्तेषु यस्मात् समनुशेरते ॥ ४ ॥
“सास्रवानास्रवा धर्माः” इति । सहास्स्रवैः सास्रवाः, न सन्त्यास्रवा एष्वित्य-
नास्रवाः, सास्रवाश्चानास्रवाश्चेति समासः । स्वसामान्यलक्षणधारणाद् धर्माः ।
एष सर्वधर्माणां समासनिर्देश इति । एतावन्तो धर्मा यदुत सास्रवा-
श्चानास्रवाश्च, नैतद्व्यतिरिक्ता धर्माः सन्ति, तस्मादाह—सर्वधर्माणामिति ।
समासनिर्देश इति संक्षेपनिर्देशः । विस्तरनिर्देशस्तु पश्चादा शास्त्रपरिसमाप्ते-
र्भविष्यति । अन्येऽपि समासनिर्देशाः सन्ति—संस्कृतासंस्कृताः, रूप्यरूपिणः,
सनिदर्शनानिदर्शना इत्येवमादयः, किमर्थमयमेव समासनिर्देश उक्तः ?
यस्मिन्नुक्ते न पर्यनुयोगः । अथ वा—सांक्लेशिकव्यावदानिकपक्षप्रदर्शनाथम्;
तदर्थत्वाच्छास्त्रस्य । तत्पक्षद्वयावबोधे हि संक्लेशपक्षमपहाय व्यवदानपक्षा-
सेवनान्निःश्रेयसावाप्तिर्भवेत् ।
“संस्कृता मार्गवर्जिताः सास्रवाः” इति । संस्कृता एव, नासंस्कृताः ।
हेतुप्रत्ययजनिता रूपादयः संस्कृताः । किं सर्वे ? नेत्याह—मार्गवर्जिताः ।
मार्गसत्येन वर्जिताः । मार्गसत्यस्य संस्कृतत्वात् प्रसङ्ग इत्यत एवं विशिनष्टि ।
एतदुक्तं भवति—मार्गसत्यं वर्जयित्वा सर्वे संस्कृताः सास्रवा इति ।
कथं पुनस्ते सास्रवाः ? यद्यास्रवसम्प्रयोगात् ? क्लिष्टा एव चित्तचैत्ताः
सास्रवाः स्युर्नान्ये; अथास्रवसहोत्पादात् ? एकस्यां सन्ततौ समुदाचरत्क्लेशस्य
सत्त्वस्य यथासम्भवं पञ्चोपादानस्कन्धाः 'सास्रवाः स्युः, नासमुदाचरत्क्लेशस्य,
नापि बाह्या धर्माः; अथास्रवाणां य आश्रयास्ते सास्रवा इति ? षडेवाय-
तनान्याध्यात्मिकानि सास्रवाणि स्युः; अथास्रवाणामालम्बनानि सास्रवाणि ?
निरोधमार्गसत्यमपि सास्रवं प्राप्नोति; ऊर्ध्वा च भूमिरूर्ध्वभूम्यालम्बनैरास्रवैः
१-१. संस्कृता धर्माः—का० ।