सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 338, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 338

निर्देशः ] द्वितीयं कोशस्थानम् ३१७
त्र्यध्वगास्त्रयः ।
सहभू-सम्प्रयुक्तक-विपाकहेतवस्त्रिकालाः । कारणहेतुस्तु कालनियमानुप-
दर्शनात् । सर्वाध्वकश्चाध्वविनिर्मुक्तश्च² वेदितव्यः ।
उक्ता हेतवः ॥
किं पुनस्तत्फलं यस्यैते हेतवः ?
संस्कृतं सविसंयोगं फलं
फलं धर्माः । कतमे ? "संस्कृता धर्माः प्रतिसंख्यानिरोधश्च”
( ) इति शास्त्रम् ।
एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यम्, यस्य तत् फलम्; हेतु-
त्वाच्च फलेन भवितव्यम्, यस्य तद्धेतुः ?
संस्कृतस्यैव धर्मस्य हेतुफले भवतः,
नासंस्कृतस्य ते ॥ ५५ ॥
उक्तमेतत् । सभागहेतुवदेव चायं नानागतः, निष्यन्दफलेन च सफल इति,
तद्वदेवास्य वार्त्ता ।
“त्र्यध्वकास्त्रयः” इति । त्र्यध्वका एव त्रयस्त्रय एव त्र्यध्वका इत्यवधार-
णात् । कारणहेतुरन्यथा भवति । कथं चान्यथा ? सर्वाध्वकश्चाध्वविनिर्मुक्त-
श्चेति । स्वतोऽन्ये हि स्वभाववर्ज्याः सर्वधर्माः कारणहेतुरिति । अत एवमेव
भवति, नान्यथा ।
हेतुः फलमित्यन्योन्यापेक्षयैतद्द्वयमित्यतः पृच्छति—किं पुनस्तत् फलं यस्यै-
तद्धेतव इति ।
“संस्कृतं सविसंयोगं फलम्” इति । आकाशाप्रतिसंख्यानिरोधवर्ज्याः सर्व-
धर्माः फलमित्युक्तं भवति ।
एवं तर्हीति विस्तरः । फलत्वादसंस्कृतस्य फलमसंस्कृतमिति कृत्वा हेतुना
स्वतोऽन्येनास्य भवितव्यम् । यस्य हेतोस्तदसंस्कृतं फलम् । हेतुत्वाच्चासंस्कृतस्य
स्वतोऽन्येनास्य फलेन भवितव्यम्, यस्य फलस्य तदसंस्कृतं हेतुः । नासंस्कृतस्य
ते हेतुफले । असंस्कृतं प्रतिसंख्यानिरोधलक्षणं विसंयोगफलं भवति । न च
तस्य हेतुः, अजन्यत्वात् । हेतुश्च भवति; संस्कृतोत्पादाविघ्नभावावस्थानात् ।
न च तस्य फलं व्यवस्थाप्यते, फलप्रतिग्रहणदानासमर्थत्वाच्च । अत एव च
२. ०विप्रयुक्तश्च—का० ।