सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 337, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 337

३१६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
न तु विपर्ययात् । न च कर्मणा सह विपाको विपच्यते, नाप्यनन्तरम्; समन्तर-
प्रत्ययाकृष्टत्वात् समन्तरक्षणस्य । प्रवाहापेक्षो हि विपाकहेतुः ॥ ५४ ॥
अथ क एषां हेतूनामध्वनियमः ? उक्तमेषामर्थतोऽध्वनियमः, न तु सूत्रित
इत्यतः सूत्र्यते—
सर्वत्रगः सभागश्च द्वयध्वगौ
अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः । उक्तं चात्र कारणम् ।
नागतः, न तु विपर्ययादिति । बहुक्षणिकस्य कर्मण एकक्षणिकः । मा भूदति-
न्यूनं हेतोः फलमिति वर्तते । न च कर्मणा सह विपाको विपच्यते । सहोत्पन्ने
सहभूसम्प्रयुक्तकहेतोर्व्यापारात्, विपाकहेतोश्च विसदृशपाकापेक्षत्वात् । नाप्यन-
न्तरं विपाको विपच्यते । किं कारणम् ? समनन्तरप्रत्ययाकृष्टत्वात् समनन्तर-
क्षणस्य । यस्मात् समनन्तरक्षणः समनन्तरप्रत्ययबलेनाकृष्टः, न विपाकहेतु-
बलेन । यद्यप्यसौ समनन्तरप्रत्ययो विपाकहेतुरित्थं चैतदेव, यस्मात् समन-
न्तरक्षणो विपाकहेतोः समनन्तरप्रत्ययात् कदाचित् कुशलः, कदाचिदकुशलः,
कदाचिदव्याकृतः, अन्यथा हि अव्याकृत एव स्यात् । अथ वा — समनन्तर-
क्षणस्याविपाकस्वभावस्य समनन्तरप्रत्ययाकृष्टत्वादित्यभिप्रायः । प्रवाहापेक्षो
हि विपाकहेतुश्चित्तचेत्तादिप्रवाहे सत्यतिक्रान्ते विपाकहेतुर्विपाकं दद्यात् ।
धर्मतैवेत्यभिप्रायः ॥ ५४ ॥
उक्तमेषामर्थतोऽध्वनियम इति । अर्थत उक्तो न शब्दत इत्यर्थः । द्विविधं हि
वचनम्—स्वशब्दाभिहितम्, अर्थोक्तं च । कथम् ?
“सभागहेतुः सदृशः स्वनिकायभुवोऽग्रजाः” ( अभि० को० २.५२ ) तथा
“सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः” ( अभि० को० २.५४ ) इति
वचनात् । सभागसर्वत्रगहेतू अतीतप्रत्युत्पन्नावेव स्तः, नानागतौ । अविशेष-
वचनादेव सहभूसम्प्रयुक्तकविपाकहेतवस्त्रैयध्विका इत्यर्थत उक्ताः । सभाग-
सर्वत्रगहेतू एव हि पूर्वोत्पन्नौ, पूर्वोत्पन्नावेव च तावित्यवधारणात् । परस्पर-
फलत्ववचनात्, चित्ताद्यकुशलादिस्वाभाव्याच्चैषामनध्वपतितत्वं व्यावर्ति-
तम् । सूत्र्यत इति । सूत्रं सूत्री वा क्रियते सूत्र्यते । उक्तं चात्र कारणमिति ।
कथमुक्तम् ? निष्यन्दफलेन हि सफलः सभागहेतुः, तच्चानागतस्यायुक्तम्;
पूर्वपश्चिमताभावादित्येवमादि । यच्चैतत् कारणमुक्तं सभागहेतोः, सर्वत्रग-
हेतोरप्युक्तरूपं वेदितव्यम् । सभागहेतुकल्पो हि सर्वत्रगहेतुः । सभाग-
हेतुर्हि क्लिष्टः क्लिष्टानाम्, सर्वत्रगहेतुरपि क्लिष्टः क्लिष्टानामेव ।
क्लिष्टधर्मसामान्यकारणत्वेन त्वयं सभागहेतोः पृथग्व्यवस्थाप्यत इति