अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 336, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् ३१५
विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवत् । तद्यथा—बाह्यानि बीजानि
कानिचिद् विचित्रफलानि भवन्ति । तद्यथा—पद्मदाडिमन्यग्रोधादीनाम् ।
कानिचिदविचित्रफलानि । तद्यथा—यवगोधूमादीनाम् ।
एकाध्विकस्य कर्मणस्त्रैध्विको विपाको विपच्यते । न तु त्रैध्विकस्या-
प्येकाध्विकः, मा भूदतिन्यूनं हेतोः फलमिति । एकमेकक्षणिकस्य बहुक्षणिकः;
यदेकस्य कर्मणो निकायसभागो विपाकोऽन्यस्य जीवितेन्द्रियम्, अन्यस्यैव च
मनआयतनादीनीति । ब्रूयास्त्वम्—यथा यस्य चक्षुरायतनं तस्य चक्षुःकाय-
स्प्रष्टव्यधर्मायतनानीति वचने यस्य चक्षुरायतनं विपाकस्तस्य कायायतन-
मावश्यकत्वात्, एवं मनआयतनादीन्यपि तस्यैव कर्मणो विपाक इति ? तन्न;
क्वचिदेव कस्यचित् प्रतिबद्धवृत्तित्वात् । न हि विना कायेन्द्रियेण चक्षुरिन्द्रिय-
प्रादुर्भावोऽस्तीत्यसममेतत् ।
आचार्यसङ्घभद्रस्त्वाह—अस्ति कर्म यस्य धर्मायतनमेव विपाको विपच्यते,
यस्य जीवितेन्द्रियम्, यस्य चक्षुरायतनम्, तस्य पञ्च—चक्षुःकायरूपस्प्रष्टव्य-
धर्मायतनानि । एवं यावज्जिह्वायतनम् । यस्य कायायतनम्, तस्य चत्वारः—
कायरूपस्प्रष्टव्यधर्मायतनानीति । रूपाविनाभावित्वाद् रूपायतनमपि तस्यैव
चक्षुर्निर्वर्तकस्य कर्मणो विपाक इति समयान्तरमिच्छति ।
अयं त्वाचार्यो न रूपायतनमवश्यं तस्यैव कर्मणो विपाक इत्यपरं पक्षमव-
लम्बते—यस्य कायायतनं तस्य त्रीणि, यस्य चक्षुरायतनं तस्य चत्वारि
इति । न ह्यन्योन्यमविनाभाविनो जीवितनिकायसभागादीन्यावश्यकमेकस्यैव
कर्मणो विपाक इत्यभिप्रायः ।
तावेतो पक्षौ विभाषाकारैर्लिखितौ¹ । तयोर्यो यस्मै रोचते, स तेन परि-
गृह्यते । इत्यलं प्रसङ्गेन ।
अथ कथं कस्यचित् कर्मण एकमायतनं विपाको विपच्यत । कस्यचिद्
यावदेकादश ? इत्यत आह—विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवदिति ।
विस्तरः—पद्मदाडिमन्यग्रोधादीनां बीजानि विचित्रफलानि । मूलाङ्कुरनालपत्र-
केशरकिञ्जल्ककर्णिकारैश्च रूप्यं हि सूक्ष्मबीजादीनाम् । अनेकस्कन्धशाखाविटप-
पत्रपल्लवाङ्कुरपुष्पफलसमृद्धाश्च न्यग्रोधादयः पादपा जलधरायमाणा दृश्यन्ते ।
कानिचिदविचित्रफलानि । तद्यथा यवगोधूमादीनां बीजानि । एकरूपफल-
त्वात् । बीजधर्मंतेषा ।
एकाध्विकस्य कर्मणोऽतीतस्य त्रैध्विको विपाको विपच्यते अतीतप्रत्युत्पन्ना-
१. विभाष्यकारै०—इति मुद्रितः पाठः ।