अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 335, कुल 1258 में से
संदर्भ में पढ़ें३१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि । एवं यस्य श्रोत्रघ्राणजिह्वा-
यतनानि ।
अस्ति तत् कर्म यस्य पञ्च षट् सप्ताष्टौ नव दशैकादशायतनानि विपाको
विपच्यते ।
चक्षुरायतनम्, तस्य चत्वारि । तदेव चक्षुःकायतनं चावश्यं चक्षुषः काय-
प्रतिबद्धवृत्तित्वात् । स्प्रष्टव्यधर्मायतने च पूर्ववत् । एवं यस्येति विस्तरः । एवं
यस्य श्रोत्रादीनामन्यतमद् विपाकस्तस्यापि चत्वार्यायतनानि विपाकः । तदेव
श्रोत्रादीनामन्यतमायतनं कायस्प्रष्टव्यधर्मायतनानि च पूर्ववत् ।
अस्ति तत् कर्मेति । विस्तरः—पञ्च यावदेकादशायतनानीति सम्भवतः ।
न तु द्वादशायतनानि विपाकः, शब्दायतनस्याविपाकस्वभावत्वात् ।
[L12