सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 334, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 334

निर्देशः ] द्वितीयं कोशस्थानम् ३१३
जात्यादिभिः । द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः ।
चतुःस्कन्धक एकफलः कुशले चेतस्यसमाहिते । पञ्चस्कन्धक एकफलः
समाहिते ॥
आरूप्यधातावेकस्कन्धको विपाकहेतुरे कफलः प्राप्तिः, निरोधसमापत्तिश्च सह
जात्यादिभिः । चतुःस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च ।
अस्ति कर्म यस्यैकमेव धर्मायतनं विपाको विपच्यते यस्य जीवितेन्द्रियम् ।
यस्य मनआयतनं तस्य द्वे मनोधर्मायतने । एवं यस्य स्प्रष्टव्यायतनं तस्य त्रीणि
कायस्प्रष्टव्यधर्मायतनानि । एवं यस्य रूपगन्धरसायतनानि । यस्य चक्षुरायतनं
सह जात्यादिभिस्तथैव वक्तव्या, विज्ञप्ते रूपस्कन्धसंगृहीतत्वात्, जात्यादीनां च
संस्कारस्कन्धस्वभावत्वात् । द्विसन्धक एकफलः पूर्ववत् । कुशले चेतस्यसमा-
हितेऽनुपरिवर्त्तिरूपं नास्तीति रूपस्कन्धवर्जितवेदनादिस्कन्धसंगृहीतत्वाच्चतुः-
स्कन्धकः । पञ्चस्कन्धकः समाहिते चेतसि । अनुपरिवर्त्तिरूपस्य चित्तादिभिरेक-
वर्त्तित्वात् ।
आरूप्यधाताविति । विस्तरः—तत्र सर्वमेव रूपं नास्तीत्येकस्कन्धकश्चतुः-
स्कन्धकश्च विपाकहेतुः । प्राप्तिरिति । तत्र सह स्वजात्यादिभिरेकस्कन्धकः
पूर्ववत् । निरोधसमापत्तिरपि सह स्वजात्यादिभिरेकस्कन्धको विपाकहेतुरे कफल
इति सुगमम् ।
अस्ति कर्मेति विस्तरः । यस्य जीवितेन्द्रियं विपाकः, तस्य कर्मणोऽवश्यं
तज्जीवितेन्द्रियं तज्जात्यादयश्च विप्रयुक्ता विपाकः । तच्चैतत् सर्वं धर्मायतन-
संगृहीतमित्येकमायतनं विपाको विपच्यते । यस्य मन आयतनं तस्य द्वे मनो-
धर्मायतने । तस्य हि मनआयतनस्य कलापे अवश्यं वेदनादयः सहभुवो जात्या-
दयश्च विपाकरूपा भवन्ति । वेदनादिजात्यादयो धर्मायतनसंगृहीता इति ते
द्वे मनोधर्मायतने विपाको विपच्यते । एवं यस्य स्प्रष्टव्यायतनमिति । तस्य स्पृष्ट-
व्यस्यावश्यं जात्यादयः सन्तीति धर्मायतनमपि विपच्यते । न केवलं स्प्रष्ट-
व्यायतनमिति द्वे आयतने तस्य विपच्येते । यस्य कायायतनं तस्य त्रीणि । तदेव
कायायतनं स्प्रष्टव्यायतनं च तदाश्रयभूतचतुष्कम्, तस्यावश्यं भूतचतुष्का-
श्रितत्वात् । तस्य च जात्यादिभिर्भवितव्यमिति धर्मायतनमपि तत्र तृतीयं
विपच्यते । एवमिति । विस्तरः—एवं यस्य रूपगन्धरसायतनानामन्यतमद्
विपाकस्तस्य त्रीण्यायतनानि विपाकः । तदेवायतनं रूपादीनामन्यतमत् स्प्रष्ट-
व्यायतनं च तदाश्रयभूतस्वभावं धर्मायतनं च तज्जात्यादिस्वभावमिति । यस्य