अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 333, कुल 1258 में से
संदर्भ में पढ़ें३१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
अथ विपाक इति कोऽर्थः ? विसदृशः पाको विपाकः । अन्येषां तु हेतूनां
सदृशः पाकः । एकस्योभयथेति वैभाषिकाः । नैव तु तेषां पाको युक्तः ।
पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः । न च सहभू-
सम्प्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति । न चापि सभागहेत्वादीनां
फलपर्यन्तोऽस्ति; पुनः पुनः कुशलाद्यासंसारफलत्वात् ।
कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययः, तज्जात्यादयश्च ।
द्विस्कन्धक एकफलः कायवाक्कर्म, तज्जात्यादयश्च । चतुःस्कन्धक एकफलः
कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः ॥
रूपधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिः, असंज्ञिसमापत्तिश्च सह
तस्माद् विपाकजं चक्षुरिति मध्यपदलोपात् कर्मसाधनपरिग्रहाद्वा सिध्यति ।
कर्मणो विपाक इति च सिध्यति, भावसाधनपरिग्रहात् । विवक्षितपूर्विका हि
शब्दप्रतिपत्तिरिति । विसदृशः पाको विपाक इति । हेतोर्विसदृशं फलमित्यर्थः ।
हेतुर्हि व्याकृत एव, फलं त्वव्याकृतमेवेति । सहभूहेत्वादीनां तु सदृश एव पाक
इति विशेषणम् । अभिधर्मशास्त्र एवं व्युत्पाद्यते तेनेदं प्रत्यादिश्यते ।
एकस्कन्धको विपाकहेतुरेकफल इति विस्तरः । इह प्राप्तयो वृक्षप्रपाटिकावत्
चित्तादिभ्यः पृथगवस्थिताः । तासां परिपूरकन्यायेन पृथक् फलं वर्ण्यते । एकः
स्कन्धोऽस्येत्येकस्कन्धको विपाकहेतुः । यत्र स्कन्धे प्राप्तयः, तत्रैव च तज्जात्यादय
इत्येकस्कन्धकः, यदेव च प्राप्तीनां फलं तदेव तज्जात्यादीनामिति साधारण-
फलत्वादेकफलः । द्विस्कन्धकः एकफलो विपाकहेतुः । कायवाक्कर्मतज्जात्यादयश्च ।
कायवाक्कर्म्मणो रूपस्कन्धसंगृहीतत्वात् तज्जात्यादीनां च संस्कारस्कन्धसंगृही-
तत्वाद् द्विस्कन्धकः, एकफलश्च, तेषामपृथक्फलत्वात् । चतुस्कन्धक एकफलः
कुशलाकुशलाश्चित्तचैत्ता इति । ते सह जात्यादिभिरिति । तेषां चित्तचैत्तानां
यथायोगं वेदनासंज्ञासंस्कारविज्ञानस्कन्धसंगृहीतत्वात् । जात्यादीनाञ्च
संस्कारस्कन्धसंगृहीतत्वाच्चतुःस्कन्धको विपाकहेतुरेकफलः; साधारणफलत्वात्,
न हि चित्तस्यान्यत् फलमन्यच्चैत्तादीनामिति, असमाहितत्वात् । कामधातौ
पञ्चस्कन्धको विपाकहेतुर्नास्ति । न ह्यत्र रूपस्कन्धसंगृहीतं कायवाक्कर्म-
चित्तचैत्तैरेकफलं भवति, पृथक् कलापत्वात् । त्रिस्कन्धकस्तु त्रिष्वपि धातुषु
नास्ति; चित्तचैत्तानामवश्यमेकफलत्वात् । यथायोगं चतुःस्कन्धस्वभावत्वात् ।
रूपधातावेकस्कन्धक इति विस्तरः। प्राप्तिः सह जात्यादिभिः। संस्कारस्कन्ध-
संगृहीतेत्येकस्कन्धकः । तथैव साधारणफलत्वादेकफलः । असंज्ञिसमापत्तिरपि