सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 212, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 212

निर्देशः ] द्वितीयं कोशस्थानम् १९३
केचित्तु — मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति । तेषामन्यथा चतु-
ष्कोटिकः । स्त्यानं पुनरिष्यते सर्वक्लेशसम्प्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे
कस्यापराधः ।
एवं त्वाहूः — पठितव्यं भवेत्, समाध्यनुगुणत्वात् तु न पठितम् । क्षिप्रतरं
किल स्त्यानचरितः समाधिमुत्पादयेत्, नौद्धत्यचरित इति । कः पुनः स्त्यानचरितो
यो नौद्धत्यचरितः, को वा औद्धत्यचरितो यो न स्त्यानचरितः; न ह्येते जातु
सहचरिष्णुतां जहीतः १ तथापि यद् यस्याधिमात्रं स तच्चरितो ज्ञातव्यः ।
अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति । एते हि सदा क्लिष्ट एव
चेतसि भवन्ति, नान्यत्र ।।
तृतीया स्मृत्यादय इति । ये मुषितस्मृत्यादय पञ्च यथोक्ताः । एते हि महा-
भूमिका. क्लेशमहाभूमिकाश्च । चतुर्थीं एतानाकारान् स्थापयित्वेति । उक्तनिर्मुक्ता
धर्माः कुशलमहाभूमिकादयश्चैतसिका रूपादयश्चान्य इति । तेषामन्यथा
चतुष्कोटिक इति । द्वितीयाया कोट्यां विक्षेप प्रक्षेपव्यः, न तु तृतीयायाम् ।
अत एवं वक्तव्यम् — प्रथमा कोटि पूर्ववत्, द्वितीया आश्रद्धद्यं कौसीद्यमविद्या
औद्धत्यं प्रमादो विक्षेपश्च, तृतीया स्मृत्यादयश्चत्वार, मुषितस्मृत्यसम्प्रजन्या-
योनिशोमनस्कारमिथ्याधिमोक्षा इत्यर्थ । चतुर्थी पूर्ववत् ।
यत्तूक्तम् — 'न चात्र स्त्यानं पठ्यते' इति, तान् प्रति ब्रवीति — स्त्यानं पुन-
रिष्यत इति । विस्तर — तस्यापाठे कस्यापराध इति । किमस्य स्त्यानस्यापाठे
ममापराधः, किमाभिधार्मिकस्येति ! अभिधर्मकारस्यायमपराधो न ममेत्यभि-
प्राय., स्त्यानस्य सर्वक्लेशसम्प्रयोगित्वेनाभिमतत्वात् ।
एवं त्वाहुरिति । तत्र शास्त्रे स्त्यानस्यापाठे -कारणमाहुराभिधर्मिकाः ।
क्षिप्रतरं किलेति । किलशब्दोऽसम्भावनायाम् । कथं हि नाम क्लिष्टो धर्मः
शुक्लस्य समाधेरनुगुणो भविष्यति, लयौद्धत्ये हि समाधिपरिपन्थिनी, तत् कथं
परिपन्ध्येवानुगुण इति ? न होते जातु सहचरिष्णुता जहीत इति । न ह्येते
स्त्यानौद्धत्ये कदाचित् सहचरधर्मता त्यजत इत्यर्थ. । तथापि यद्यस्याधमात्र-
मिति । एवमपि च स्त्यानमौद्धत्यं वा यस्य पुद्गलस्याधिमात्रम्, स पुद्गलस्तच्च-
रितः स्त्यानचरित., औद्धत्यचरितो वावगन्तव्य. । कचिद्धि कलापे कश्चिद्धर्म
उद्भूतो भवतीति ।
नान्यत्रेति । कुशलादिषु ।
अभि० को० १३