सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1255, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1255

“कर्म तद्भावनां तस्य वृत्तिलाभं ततः फलम् ।
नियमेन प्रजानाति बुद्धादन्यो न सर्वथा ॥
इत्येतां सुविहितहेतुमार्गशुद्धां
बुद्धानां प्रवचनधर्मतां निशम्य ।
अन्धानां विविधकुदृष्टिचेष्टितानां
तीर्थ्यानां मतपविध्य यान्त्यनन्धाः ॥
“चित्तं ह्येतदनन्तबीजसहितं सन्तानतो वर्तते,
तत्तद् बीजमुपैति पुष्टिमुदिते स्वे प्रत्यये चेतसि ।
तत् पुष्टं द्रुमलाभवृत्ति फलदं कालेन सम्पद्यते,
रङ्गस्येव हि मातुलुङ्गकुसुमेऽन्यस्तस्य तत्केसरे” ॥
पुनराह—
“कर्पासबीजे पुष्पे च मातुलुङ्गस्य रञ्जिते ।
लाक्षया जायते रक्तं यथा कर्पासकेसरम् ॥
तस्मिंन्स्तमिते रङ्गे सन्तानाद् भावितक्रमात् ।
कर्मण्यस्तमिते चैव भावनात् फलोदयः” ॥ इति ।
कर्मेति सर्वम् । तद्भावनाम् कर्मभावनाम् । तस्याः भावनायाः ।
वृत्तिलाभम् । तद्वृत्तं लाभम् । ततः तद्वृत्तिलाभात् । फलम् इत्येतच्चतुष्टयम्
नियमेन यदृच्छयां बुद्धादन्यः श्रावकादिः सर्वथा सर्वकारं न प्रजानाति ।
अर्थादुक्तं भवति—बुद्ध एव तत्सर्वं सर्वथा प्रजानातीति ।
इत्येतामिति विस्तरः । इति-करणः समाप्त्यर्थः । प्रदर्शनार्थो वा ।
एतां बुद्धानां प्रवचनधर्मतां सुविहितेन हेतोः मार्गेण हेतुमार्गेण शुद्धां
निरवद्यां निशम्य दृष्ट्वा । अन्धाः तीर्थ्याः यथाभूतदर्शनवैकल्यात् ।
कुत्सिता दृष्टिः कुदृष्टिः, तस्याः चेष्टितानि कुदृष्टिचेष्टितानि, विविधानि
कुदृष्टिचेष्टितानि एषामिति विविधकुदृष्टिचेष्टिताः स्वर्गपवर्गहेत्वप्रतिपन्ना
मिथ्याप्रतिपन्नाश्चेत्यर्थः । तेषामेवंविधानां तीर्थ्यानां कपिलोलूकादीनाम्,
मतं दर्शनम् अपविध्य त्यक्त्वा यान्ति संसारान्निर्वाणमिति वाक्याध्याहारः ।
के ते सत्त्वाः ? प्रज्ञाचक्षुष्मन्त आर्यश्रावकाः ।
अथ वा तमेव प्रवचनधर्मतां यान्ति प्रतिपद्यन्त इत्यर्थः । प्रवचन-
धर्मता पुनरत्र नैरात्म्यम्, बुद्धानुशासनी वा ।