सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1251, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1251

१२२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
असत्यात्मनि क एषां कर्मणां कर्ता, कश्च फलानां भोक्ता भवति ?
कर्तेति । क एष बाह्यार्थः ? करोतीति कर्ता । भुङ्क्त इति भोक्ता । पर्याय
उच्यते, नार्थः । “स्वतन्त्रः कर्ता” (पा० १.४.५४) इति कर्तृलक्षणमाचक्षते
लाक्षणिकाः । अस्ति पुनः क्वचिदेव कार्ये कस्यचित् स्वातन्त्र्यम् । लोके
दृष्टं देवदत्तस्य स्नानासनगमनादौ । कः पुनर्भगवान् देवदत्तमुदाहरति ?
यद्यात्मानम् ? स एव साध्यः । अथ पञ्चस्कन्धकम् ? स एव कर्ता । त्रिविधं
चेदं कर्म, कायवाङ्मनस्कर्म । तत्र कायकर्मणि तावत् कायस्य चित्तपरतन्त्रा
वृत्तिः । चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिः, तस्याप्येवमिति नास्ति
कस्यचिदपि¹ स्वातन्त्र्यम् । प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते ।
आत्मनोऽपि च निरपेक्षस्याकारणत्वाभ्युपगमान्न स्वातन्त्र्यं सिध्यति ।
तस्मान्नैवंलक्षण उपलभ्यते कश्चित् कर्ता ।
यत्तु यस्य प्रधानकारणं² तत्तस्य कर्तेत्युच्यते । न च आत्मनः
“तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः” ( अभि० को० १.४४ )
इति ।
अथ पञ्चस्कन्धकम् । भवानुदाहरतीत्यधिकृतम् । स एव कर्तेति ।
स एव पञ्चस्कन्धलक्षणः कर्ता, नात्मा इति सिद्धो नः पक्षः । तत्रापि
स्वातन्त्र्यं नास्तीति दर्शयन्नाह—त्रिविधं चेदं कर्मेति विस्तरः । कायस्य
चित्तपरतन्त्रा वृत्तिः चित्तप्रवर्तित्वात् कायकर्मणः । चित्तस्यापि काये वृत्तिः
स्वकारणपरतन्त्रा; मनोज्ञामंमनस्कारादिपरतन्त्रत्वात् तस्याप्येवं तस्य
चित्तकारणस्य स्वकारणपरतन्त्रा वृत्तिरिति नास्ति कस्यचिदपि
स्वातन्त्र्यं कायस्य, चित्तस्य, चित्तकारणस्यान्यस्य वा । प्रत्ययपरतन्त्रा हि
सर्वे भावाः ।
“चतुर्भिर्श्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः ।
द्वाभ्यामन्ये तु जायन्ते” (अभि० को० २.६५) इति वचनात् ।
आत्मनोऽपि च निरपेक्षस्य बुद्धिविशेषाद्युत्पत्तावकारणत्वाभ्युपगमान्न
स्वातन्त्र्यं सिद्धयति । तस्मान्नैवंलक्षण इति । स्वतन्त्रः कर्तेति ।
एवं तर्हि कः³ कर्तेत्याह—यत्तु यस्य प्रधानकारणं तत् तस्य कर्ते-
१. कस्यचित्—का० । २. प्रधानं कारणं—का० ।
३. जा० पुस्तके नास्ति ।