सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1250, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1250

विनिश्चयः ] अष्टमं कोशस्थानम् १२२७
शरीर आत्मोपचारो यथा य एवायं स एवाहम्, स एवायं मे भृत्य इति
भवत्युपकारकेऽपि आत्मोपचारो न त्वहंकारः । सति शरीरालम्बनत्वे पर-
शरीरालम्बनोऽपि कस्मान्न भवति ? असम्बन्धात् । येनैव हि सहास्य
सम्बन्धः कायेन चित्तेन वा तत्रैवायमहंकार उत्पद्यते, नान्यत्र; अनादौ
संसार एवमभ्यासात् । कश्च सम्बन्धः ? कार्यकारणभावः ।
यद्यात्मा नास्ति, कस्यायमहंकारः ? इदं पुनस्तदेवायातम्—‘किमर्थैषा
षष्ठीति ? यावद्य एवास्य हेतुस्तस्यैवायम्’ इति । कश्चान्यो हेतुः ?
पूर्वाहङ्कारपरिभावितं स्वसन्ततिविषयं सावद्यं चित्तम् ।
असत्यात्मनि क एष सुखितो दुःखितो वा ? यस्मिन्नाश्रये
सुखमुत्पन्नं दुखं वा । यथा पुष्पितो वृक्षः, फलितं वनमिति । कः
पुनरनयोराश्रयः ? षडायतनम् । यथा कृत्वा तथोक्तम् ।
एते प्रकारा इति । गौरादिप्रकाराः । स्कन्धेष्वयमिति । अहङ्कारः ।
न त्वहङ्कार इति । न तु ‘अहम्’ इत्येवमाकारः प्रत्यय इत्यर्थः ।
‘इदं पुनस्तदेवायातम् इति । किमर्थंषा षष्ठी ? स्वाम्यर्था । यथा
कः कस्य¹ स्वामी । यथा गोश्चैत्रः, कथमसौ तस्याः स्वामी । तदधीनो
हि तस्यावाहदोहादिषु विनियोगः । क्व च पुनरहङ्कारो विनियोक्तव्यो
यत एतस्य स्वामी मृग्यते ? अहङ्कर्तव्येऽर्थे । किमर्थं विनियोक्तव्यः ?
अहङ्कारार्थम् । अहो सूक्तानि सुखैषितानाम् ! स एव हि नाम तदर्थं
विनियोक्तव्य इति । कथं च विनियोक्तव्यः ? उत्पादनत', ग्राहोस्वित्
सम्प्रेषणतः । अहङ्कारगत्ययोगात् उत्पादनतः । हेतुरेव तर्हि स्वामी
प्राप्नोति, फलमेव च स्वम्; यस्माद्धेतोरधिपत्यं फले । फलेन च तद्वान्
हेतुरिति ।
य एवास्य हेतुरहङ्कारस्य तस्यैवायमिति । पुष्पितो वृक्ष इति
दृष्टान्तः । यत्र सिद्धान्ते वृक्षावयवो नेष्यते, विजातीयचतुर्महाभूतकाया-
रम्भणमोष्टे । यत्र तु वृक्षावयवो अस्ति, तत्र द्वितीयो दृष्टान्तः—फलितं
वनमिति । न हि वनं नाम किञ्चिदस्ति । यथा यस्मिन् वने फलमुत्पन्नम्,
तत् फलितमित्युच्यते । यथा यस्मिन्नाश्रये षडायतनलक्षणे सुखमुत्पन्नं
दुःखं वा, स सुखितो दुःखितो वा । तथोक्तमिति । यथा आश्रयः षडायतनं
तथोक्तम् ।
१. कस्यो—जा० ।

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश) · पृष्ठ 1250, कुल 1258 में से · SarvaKosh