सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1249, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1249

यो हि बलिष्ठस्तेनान्येषां प्रतिबन्धः । स एव बलिष्ठः कस्मान्नित्यं न
फलति ? योऽस्य न्याय. सोऽस्तु भावनायाः । आत्मा तु निरर्थकः कल्प्यते ।
अवश्यमात्माऽभ्युपगन्तव्यः । स्मृत्यादीनां गुणपदार्थत्वात् तस्य च गुण-
पदार्थस्यावश्यं द्रव्याश्रितत्वात् तेषा चान्याश्रयायोगादिति चेत् ? न; न
ह्येषां गुणपदार्थत्वं सिद्धम् । सर्वमेव नो विद्यमानं द्रव्यम्; “षट् द्रव्याणि
श्रामण्यफलानि” इति वचनात् । नाप्येषां द्रव्याश्रितत्वं सिद्धम् । परीक्षितौ
ह्याश्रयार्थः । तस्माद्यत्किञ्चिदेव तत् ।
आत्मन्यसति किमर्थः कर्मारम्भः—अहं सुखी स्याम्, अहं दु खी न
स्यामित्येवमर्थः ? कोऽसावहं नाम यद्विषयोऽयमहङ्कारः ? स्कन्धविषयः ।
कथं ज्ञायते ? तेषु स्नेहात् । गौरादिबुद्धिभिः सामानाधिकरण्यात्तु
गौरोऽहम्, अहं श्यामः, स्थूलोऽहम्, अहं कृशः, जीर्णोऽहम्, अहं युवेति
गौरादिबुद्धिभिः समानाधिकरणोऽयमहङ्कारो दृश्यते । न चात्मन एते
प्रकारा दृश्यन्ते । तस्मादपि स्कन्धेष्वयमिति गम्यते । आत्मन उपकारकेऽपि

यो हि बलिष्ठ इति । संस्कारविशेषः । तेनान्येषां संस्कारविशेषाणा
प्रतिबन्धः ।
स एव बलिष्ठः कस्मान्नित्यं न फलतीति । आचार्यवचनम् । स
एव पुनराह — योऽस्य न्यायो यः संस्कारस्य न्यायो विनाशः, प्रतिबन्धो वा ।
सोऽस्तु भावनाया बीजान्तिकायाः । आत्मा तु निरर्थको निष्प्रयोजनः
कल्प्यते । संस्कारार्था हि तत्कल्पना स्यात् । तस्य च संस्कारस्य यत्
कार्यम्, तत् भावनयैव क्रियत इति ।
स्मृत्यादीनामिति विस्तरः । स्यान्मतम्—स्मृतिसंस्कारेच्छाद्वेषादीनां
गुणपदार्थत्वात् तस्य च गुणपदार्थस्य अवश्यद्रव्याश्रितत्वात् द्रव्याश्रयश्च
गुणवानित्येवं लक्षणोपदेशात् । न चैषामन्य आश्रयः पृथिव्यादिको युज्यने
अपरप्रत्यक्षत्वादिभिः कारणैः । अतो यः श्रयः स आत्मा । तस्मा-
दस्त्यात्मेति ?
न; असिद्धेः । नैतदेवम् । कस्मात् ? स्मृत्यादीनां गुणपदार्थत्वा-
सिद्धेः । विद्यमानं द्रव्यमिति । यत् स्वलक्षणतो विद्यमानम्, तद् द्रव्यम् ।
षट् द्रव्याणि श्रामण्यफलानीति । रूपस्कन्धादीनि पञ्च स्कन्धानि श्रामण्य-
फलानि असंस्कृतं च षष्ठमिति षट् द्रव्याणि भवन्ति । नाप्येषामिति ।
स्मृत्यादीनाम् । परीक्षितो ह्याश्रयार्थ इति । “यथा कः कस्याश्रयः, न हि
ते चित्रबदरादिवद् आवाये” इति विस्तरेण ।