सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1248, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1248

विनिश्चयः ] नवमं कोशस्थानम् १२२५
प्रतिघातियुतत्वदोषात्¹ नैवैषामात्माश्रयः ।
कथं तर्हि ? यथा गन्धादीनां पृथिवीति चेत् ? अतिपरितोषिताः
स्मः ! इदमेव हि नः प्रत्यायकम्—नास्त्यात्मेति । यथा न गन्धादिभ्योऽन्या
पृथिवीति । को हि सत्पुरुषो² गन्धादिभ्योऽन्यां पृथिवीं निर्धारयति ।
व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् । ते ह्येव तदाख्या गन्धादयो
यथा विज्ञायेरन्नान्य³ इति । काष्ठप्रतिमायाः शरीरव्यपदेशवत् ।
सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत् सर्वज्ञानोत्पत्तिः ?
कारणम् ? इत्याह—प्रतिघातियुतत्वदोषादिति । प्रतिघातित्वदोषात्, युतत्व-
दोषाच्च । सप्रतिघत्वप्रसङ्गात्, पृथग्देशत्वप्रसङ्गाच्चेत्यर्थः । यथा चित्र-
बदरयोः, कुड्यकुण्डयोश्च आधाराधेयभावे प्रतिघातित्वं युतत्वं च दृष्टं,
एवमेतेषामपि स्यात् । अनिष्टं चैतत् । अतोऽनात्माश्रयः ।
यथा न गन्धादिभ्योऽन्या पृथिवी । तथा बुद्ध्यादिभ्योऽन्यो न
आत्मेति । को हि सत्पुरुषो गन्धादिभ्योऽन्यां पृथिवीं निर्धारयति । नहि
पृथिवी कतमा ?—इत्युक्ते रूप-गन्ध-रस-स्पर्शभ्योऽन्या दर्शयितुं शक्यते,
यथा रूपं गन्धादिभ्योऽन्यदिति ।
यदि न गन्धादिभ्योऽन्या पृथिवी, कथमयं व्यपदेशः—पृथिव्या
गन्धादय इति । अन्येन ह्यन्यस्य व्यपदेशो दृष्टः—चैत्रस्य कम्बल इति ।
अत उच्यते—व्यपदेशस्त्विति विस्तारः ।
विशेषणार्थमिति । प्रवादिभ्यो विशेषणार्थमित्यर्थः । कथम् ? इति
प्रतिपादयति—ते ह्ये