सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1158, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1158

निर्देश: ] अष्टमं कोशस्थानम् ११३५
अविशेषवचनात् ।
धात्वोरपि कवलीकाराहारप्रसङ्ग : ।
“अतिक्रम्य देवान् कवलीकाराहारभक्षान्” इति वचनात्, प्रीत्या-
हारवचनाच्चाप्रसङ्ग इति चेत् ?
आरूप्येष्वपि रूपस्याप्रसङ्गः । “रूपाणां निःसरणारूप्याः”, “ये ते
शान्ता विमोक्षा अतिक्रम्य रूपाण्यारूप्याः”, “अरूपिणः सन्ति सत्त्वाः”,
“सर्वशो रूपसंज्ञाना समतिक्रमात्” ( ) इति वचनात् । सति हि रूपे स्वं
प्राप्नोतीत्यविशेषवचनात् । न हि एवं विशेषितम्—‘यच्चायुष्मन् कौष्ठिल,
आयुः, यच्च रूपं आध्यात्मिकः’ इत्यादि । बाह्यस्यापि रूपस्य काष्ठ-
कुड्यादेरसत्त्वसंख्यातस्य विज्ञानाश्रितत्वं प्राप्नोति; अविशेषवचनात् ।
चतुर्विज्ञानस्थितिवच्चेति विस्तरः । यथा चतसृणां विज्ञानस्थितीनाम-
विशेषवचनात् आरूप्यधातौ तव रूपास्तित्वम्, एवं तव आहारचतुष्क-
वचनाद् रूपारूप्यधात्वोः कवलीकाराहारप्रसङ्गः । एवं हि सूत्रं पठ्यते—
“चत्वार आहारा भूतानां सत्त्वानां स्थितये सम्भवैषिणां चानुग्रहाय ।
कतमे चत्वारः ? कवलीकाराहार औदारिकः सूक्ष्मः, स्पर्शो द्वितीयः,
मनःसञ्चेतना तृतीयः, विज्ञानमाहारश्चतुर्थः” ( ) इति । एव-
माहारचतुष्कवचनात् सत्त्वानां स्थित्यर्थमविशेषेण । नामवचनाच्चानिः-
विशेषितत्वात् तव रूपारूप्यधात्वोरपि कवलीकाराहारप्रसङ्गः । अतिक्रम्येति
विस्तरः । तत्र निकायान्तरीयेस्यैतत् स्यात् — अस्त्यस्योत्सर्गस्यापवादः ।
अतिक्रम्य देवान् कवलीकाराहारभक्षानिति वचनात् । उपधिसूत्रादिषु
“भेदाच्च कायस्यातिक्रम्य देवान् कवलीकाराहारभक्षान् अन्यतमस्मिं दिव्यै
मनोमयकाये उपपद्यते” इति । प्रीत्याहारवचनाच्चेति । “भवति भिक्षवः
स समयो यदयं लोको संवर्तते, संवर्तमाने लोके यद्भूयसा सत्त्वा आभास्वरे
देवनिकाये उत्पद्यन्ते । तत्र भवन्ति रूपिणो मनोभया अविकला अहीनेन्द्रियाः
सर्वाङ्गप्रत्यङ्गोपेताः शुभा वर्णस्थानीयाः स्वयम्प्रभाः विहायसङ्गमाः
प्रीतिभक्षाः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ति” ( )
इत्येवमादिषु सूत्रेषु वचनात् । अप्रसङ्गः कवलीकाराहारस्य ।
यच्चेदम् आरूप्येष्वपि रूपस्याप्रसङ्गः । किं कारणम् ? अपवादात् ।
कः पुन ? रूपाणां निःसरणारूप्या इत्येकं सूत्रमपवादः । ये ते शान्ता
विमोक्षा अतिक्रम्य रूपाणि आरूप्या इति द्वितीयम् । अरूपिणः सन्ति
सत्त्वा इति तृतीयम् । सर्वशो रूपसंज्ञानां समतिक्रमात् इति चतुर्थं ।
सति हि रूप इति । यद्यारूप्यसमापत्त्युपपत्तिषु रूपं स्यात् । सति हि रूपे