सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1157, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1157

किमत्र सर्वविज्ञानं १ नामरूपस्य प्रत्ययमुक्तम्, आहोस्वित् सर्वं नामरूपं विज्ञान-
प्रत्ययमिति ? यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिगतिप्रतिषेधः ।
किमत्र सर्वैरेतैर्विना२ तत्प्रतिषेधः, आहोस्वित् एकेनापीति ? अविशेष-
वचनान्न सम्प्रधार्यमिति चेत्, अतिप्रसङ्गः । बाह्यस्यापि ह्यष्मण आयुष्या
विनाभावो न प्राप्नोति । बाह्यस्यापि च रूपस्य विज्ञानाश्रितत्वम्३;
नामरूपमित्येव प्रतीत्योद्गृहीतं[ग्गने]। किमत्र सर्वविज्ञानं कामावचर-
संस्कारप्रत्ययं, यावत्, आरूप्यसंस्कारप्रत्ययं नामरूपस्य प्रत्ययः । आहोस्वित्
सर्वं नामरूपं विज्ञानप्रत्ययमिति । वयं ब्रूमः—विज्ञानप्रत्ययं नामरूपमित्येवं
सर्वस्य नामरूपस्य विज्ञानं प्रत्यय इत्यवधार्यते । न तु सर्वं विज्ञानं नाम-
रूपस्य प्रत्यय इत्यवधार्यते । किञ्चिद् विज्ञानं नाम्न एव प्रत्ययो यदा-
रूप्यावचरसस्कारप्रत्ययम् । तदिदमुक्तं भवति-प्रत्यय एव विज्ञानमस्य
नामरूपस्य, न त्वस्यैव समुदितस्य नामरूपस्य प्रत्यय इति । सम्भवं
प्रत्येवमुच्यते । तथा हि—उपपादुकानां विज्ञानप्रत्ययं षडायतनमेव भवति,
न नामरूपम् । अनिष्पन्नषडायतनावस्था हि पञ्चस्कन्धाः 'नामरूपम्' इत्याख्या-
यन्ते । सूत्रं च एतमेवार्थं द्योतयति—"विज्ञानं चेदानन्द, मातुः कुक्षिं
नावक्रमेत् अपि तु तन्नामरूपं कललत्वाय सम्मूर्छेत् ? न भदन्त । विज्ञानं
चेदानन्दावक्रम्य क्षिप्रेमेवापक्रामेद्, अपि तु तन्नामरूपमित्थत्वाय प्रजायेत ?
नो भदन्त । विज्ञानं चेदानन्द, दहरस्य कुमारस्य कुमारिकाया वा उच्छि-
द्येत, विनश्येत्, न भवेद्, अपि तु तन्नामरूपं वृद्धि विपुलतामापद्येत ? नो
भदन्त । तदनेनापि पर्यायेण वेदितव्यम् यद् विज्ञानस्य प्रत्ययं नामरूपम्
नामरूपप्रत्ययं च विज्ञानम्” ( ) इति विस्तरः ।
किमत्र सर्वैरेतै रूपादिभिर्विना तत्प्रतिषेध आगतिगतिप्रतिषेधः ।
तत्र पूर्वस्माल्लोकात् अन्तराभवसन्तत्या इहोपपत्तिः = आगतिः । अन्तरा-
भवसन्तत्या पुनरस्माल्लोकात् परलोक उपपत्तिः = गतिः । आहोस्विदेकेनापि
रूपादीनाम् अन्यतममेव । वयं ब्रूमः--सर्वैर्विना तत्प्रतिषेध इति । अविशेष-
वचनान्न सम्प्रधार्यदिति चेत् । स्यादेषा बुद्धिः- अविशेषेणेदं सूत्रवचनम्—
“यच्चायुष्मन् महाकौष्ठिल; आयुरिति विस्तरेण, यावत् रूपोपगं विज्ञानं
तिष्ठति” इति । अनेन सूत्रवचनेन विशेषितं कामावचरं रूपावचरं वा
आयुः सन्धायोक्तम्, यावत् सर्वरेव तैर्विना रूपादिभिस्तत् प्रतिषेध इति ?
अत्रोच्यते—अतिप्रसङ्गः; बाह्यास्यापि हि ऊष्मणः आयुष्या विनाभावो न
१। सच विज्ञानम्-का० । २ सर्वैरेव तै०-का० । ३. नांनाश्रितत्वम्-का० ।