अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1154, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११३१
त एव चारूप्याः
विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः ।
आकाशानेन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद् विभूतरूपसंज्ञाख्या
न लभते । न हि तत्र रूपसंज्ञा विभूता, न विगतेत्यर्थः । यदुक्तं "चतुःस्कन्धा"
(अभि० को० ८ २) इति ।
साध्यं तावदेतद्—आरूप्येषु रूपं नास्तीति । यदि हि स्यात्,
कथमारूप्या उच्येरन् ? ईषद्रूपत्वाद्, आपिङ्गलवत् । कीदृशं तावदीषद्रूपं
तत्रेष्टयते ? यदि कायवाक्संवरमात्रम्, कथं तदभावे तत्संवरौ भविष्यतः ।
न चासति भूते भौतिकं युज्यते । अनास्रवसंवरवच्चेत्? सास्रवभूतसद्भावात् ।
समापत्तावपि तत्प्रतिषेध उक्तः ।
अथ कायोऽप्यस्तीन्द्रियाण्यपि रूपीणि । कथं तदीषद्रूपा इष्यन्ते ?
परिमाणाल्पत्वाच्चेत्, उदकजन्तुकेष्वप्यदृश्यरूपेषु प्रसङ्गः ? अच्छत्वाच्चेत्,
"विभूतरूपसंज्ञाख्याः" इति । विभूता रूपसंज्ञा अस्येति विभूतरूपसंज्ञः,
विभूतरूपसंज्ञा इत्याख्या येषामिति विभूतरूपसंज्ञाख्याः ।
साध्यं तावदेतदिति । निकायान्तरीयाः । यदि हि स्यादिति ।
वैभाषिकाः । आपिङ्गलवदिति । यथा ईषत् पिङ्गल आपिङ्गलः, एवम् ईषद्
रूपा आरूप्या इति । कथं तदभावे तत्संवरौ कायवाक्संवरौ भविष्यतः ।
न चासति भूते आरूप्यावचरे संवरभौतिकं आरूप्यावचरं युज्यते । अनास्रव-
संवरवच्चेन् । नैतदेवं स्यात् । यथा न सन्ति अनास्रवाणि भूतानि ।
अस्ति चानास्रवसंवरो भौतिकं रूपम् । एवमिहापि नारूप्यावचराणि
भूतानि स्युः । अथवा आरूप्यावचरसंवरः स्याद् भौतिकं रूपमिति ।
तच्च न । सास्रवभूतसद्भावान् । सास्रवाणि भूतानि सन्ति । तान्यारूप्येषु
भवेयुः । अनास्रवाणि तु भूतानि न सन्ति । अतोऽनास्रवसंवरो यत्र जात-
तत्रत्यानि सास्रवाण्युपादाय भवतीत्यकल्पनेयम्; असाम्यात् । समापत्तावपि
तत्प्रतिषेधः उक्त इति । अनेनैवोपपत्तिरूपप्रतिषेधेन समापत्तावपि रूपप्रतिषेध
उक्तो भवति । नात्र यत्नान्तरमनुष्ठेयम् । कथम् ? यदि कायवाक्संवर-
मात्रम्, कथं तदभावे तत्संवरौ भविष्यति ? न चासति भूते भौतिकं युज्यत
यनास्रवसंवरवच्चेत् ? न, सास्रवभूतसद्भावादिति ।
"सर्वशो रूपसंज्ञानां समतिक्रमात्" इति वचनात् । समापत्तावपि
तत्प्रतिषेध उक्त इत्यपरे । तदेव नारूप्यसमापत्तिषु रूपमस्तीति दर्शितं
भवति ।
परिमाणाल्पत्वाच्चेत् । अथ मतम् —परिमाणमात्रं रूपमस्ति, अतस्-