सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1153, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1153

११३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
यथा ध्यानानि
तथारूप्याः,
केन प्रकारेण ? एतेऽपि हि द्विधा—उपपत्ति-समापत्तितः । चत्वारश्च
चोपपत्तय उक्ताः । समापन्न्यारूप्यास्त्वभेदेन कुशलैकाग्रतास्वभावा इति ।
अनेन प्रकारेण सपरिवाराः
चतुःस्कन्धाः,
अनुपरिवर्तकरूपाभावात्¹ ।
अधोभूमिविवेकजाः ॥ २ ॥
चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम्, तद्विवेकजं विज्ञाना-
नन्त्यायतनम्, तद्विवेकजमाकिञ्चन्यायतनम्, तद्विवेकजं नैवसंज्ञानासंज्ञा-
यतनम्—इत्येवं चत्वार आरूप्याः ।
कोऽयं विवेको नाम ? येन मार्गेणाधस्ताद् विमुच्यते; वैराग्य-
गमनात् ॥ २ ॥
इति । प्रीतिलक्षणेनापरेणाङ्गेन वर्जितमिति । चतुर्थ पुनरेवमुच्यते—'स
सुखस्य च प्रहाणाद्, विस्तरेण यावत्, अदुःखासुखमुपेक्षास्मृतिपरिशुद्धिं चतुर्थं
ध्यानमुपसम्पद्य विहरति' इति । सुखेनाप्यङ्गेन वर्जितं समिधिरेवात्र केवलम-
वशिष्यते इति । अत एव सूत्र कृतम्—' विचारप्रीतिसुखवत्" (अभि० को०
८.२) इति ॥
एषामपि चोपपत्तय उक्ता इति । "आरूप्यधातुरस्थान उपपत्त्या
चतुर्विधः" (अभि० को० ३.३) इति वचनात् ।
अनुपरिवर्तकरूपाभावादिति । ध्यानानास्रवसंवराभावादित्यर्थः ।
विवेक इति । विविच्यतेऽनेनेति विवेकः । येन मार्गेणेति । आनन्तर्य-
मार्गेण, विमुक्तिमार्गेणापि वा; तदेककार्यत्वात् । वैराग्यगमनादिति ।
तद्वैमुच्यगमनादित्यर्थः ॥ २ ॥
१. मनुपरिवर्ति०—जा० ।