१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 546, कुल 572 में से
संदर्भ में पढ़ेंनारायणोपनिषत्
ॐ सह नाववतु। सह नौ भुनक्तु। सहवीर्यं करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः
शान्तिः।
ब्रह्म हम दोनों (गुरु-शिष्य) की साथ ही रक्षा करो, हम
दोनों का साथ ही पालन करो, हम दोनों एक साथ ही पराक्रम करें, हम
दोनों का अध्ययन पराक्रमी हो, दोनों किसी का द्वेष न करें।
ॐ शांतिः शांतिः शांतिः ॥
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति।
नारायणात्प्राणो जायते। मनः सर्वेन्द्रियाणि च। खं वायुर्ज्यो-
तिरापः पृथिवी विश्वस्य धारिणीं। नारायणाद्ब्रह्मा जायते।
नारायणद्रुद्रो जायते। नारायणादिन्द्रो जायते। नारायणात्प्र-
जापतिः प्रजायते। नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि
छन्दासि नारायणादेव समुत्पद्यन्ते। नारायणात्प्रवर्तन्ते।
नारायणे प्रलीयन्ते। एतदृग्वेदशिरोऽधीते ॥१॥ अथ नित्यो
नारायणः। ब्रह्मा नारायणः। शिवश्च नारायणः। शक्रश्च
नारायणः। कालश्च नारायणः दिशश्च नारायणः। विदिशश्च
नारायणः। ऊर्ध्वं च नारायणः। अधश्च नारायणः। अन्त-
र्बहिश्च नारायणः। नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम्।
निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको
नारायणो न द्वितीयोऽस्ति कश्चित्। य एवं वेद स विष्णुरेव
भवति स विष्णुरेव भवति। एतद्यजुर्वेदशिरोऽधीते ॥२॥