१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 341, कुल 572 में से
संदर्भ में पढ़ेंरामपूर्वंतापिन्युपनिषत् ] [ ३३३
आदाय मैथिलीमय ददताञ्चाशु गच्छत ।
ततस्ततार हनुमान्ब्धिं लङ्कां समाययौ ॥२५
सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् ।
आगत्य रामेण सह न्यवेदयत् तत्त्वतः ॥२६
तदा रामः क्रोधिरूपी तानाहूयाथ वानरान् ।
तैः सार्धमादायस्त्राणि पुरीं लंकां समाययौ ॥२७
तां दृष्ट्वा तदधीशेन सार्धं युद्धमकारयत् ।
घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे ॥२८
हत्वा विभीषणं तत्र स्थाप्याथ जनकात्मजाम् ।
आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥२६
ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः ।
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥३०
मुद्रां ज्ञानमयीं याम्ये वामे तेजः प्रकाशिनीम् ।
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥३१
उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः ।
हनूमन्तं च श्रोतारमग्रतः स्यान्त्रिकोणगम् ॥३२
भरताधस्तु सुग्रीवं शत्रुघ्नाधो विभीषणम् ।
पश्चिमे लक्ष्मणं तस्य धृतच्छत्त्रं सचामरम् ॥३३
तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् ।
एवं षट्कोणमादौ स्वदीर्घाङ्गै रेष सयुतः ॥३४
द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः ।
तृतीय वायुसूनुं च सुग्रीवं भरतं तथा ॥३५
विभीषणं लक्ष्मणं च अङ्गद चारिमर्दनम् ।
जाम्बवन्तं च र्यु क्तस्ततो धृष्टिर्जयन्तकः ॥३६