विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
भारत में सार्वजनिक क्षेत्र (पब्लिक डोमेन) · कॉपीराइट समस्या बताएँ
इस ग्रन्थ के बारे में
विष्णुधर्मोत्तर पुराण एक विशाल उपपुराण है, जो स्वयं को विष्णु पुराण का परिशिष्ट या 'उत्तर भाग' बताता है। यह तीन खण्डों में है और भारतीय कलाओं के अध्ययन के लिए विशेष रूप से प्रसिद्ध है। पहले खण्ड में सृष्टि, कल्प और मन्वन्तर, भूगोल और वंशावलियाँ हैं; दूसरे में राजधर्म, धर्मशास्त्र, ज्योतिष और आयुर्वेद जैसे विषय हैं; और तीसरे खण्ड में चित्रसूत्र (चित्रकला), संगीत, नृत्य, काव्य, प्रतिमा-लक्षण और मन्दिर-वास्तु का विस्तृत विवेचन है। तीसरे खण्ड का चित्रसूत्र भारतीय चित्रकला पर उपलब्ध सबसे प्राचीन शास्त्रीय विवरणों में गिना जाता है।
स्कैन की गई प्रति लगभग १००० पृष्ठों का सम्पूर्ण संस्कृत संस्करण है, जिसे बम्बई के श्रीवेङ्कटेश्वर यन्त्रालय ने छापा था; डिजिटल लाइब्रेरी ऑफ़ इण्डिया की सूची में इसका वर्ष १९२९ दर्ज है। आरम्भ में संस्कृत में लिखी प्रस्तावना है, जो भागवत और याज्ञवल्क्य स्मृति के वचनों से पुराणों का महत्त्व बताती है। इस संस्करण में हिन्दी अनुवाद नहीं है। प्रति पर हैदराबाद के सर्वोदय साहित्य मन्दिर की मुहर है।
कला-इतिहासकार, मूर्तिशास्त्र और भारतीय सौन्दर्यशास्त्र के अध्येता इस पुराण को मूल रूप में पढ़ने के लिए इस संस्करण का उपयोग कर सकते हैं।
सुमहाभागं तेजसा भास्करप्रभम् ॥ २३ ॥ अरुन्धन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ॥ कृताञ्जलिपुटा देवी पूज्या लोकैरिनिन्दिता ॥ २४ ॥
उवाच वैन्यं नाथं क्लीवचे परिपश्यसि ॥ कथं धारयिता चासि मया हीनास्त्विमाः प्रजाः ॥ २५ ॥ पृथुरुवाच ॥ एकस्यार्थाय यो हन्यात्कुलानौ
वा परस्य वा ॥ एकं जीवं बहुत्वेऽपि कामं नैवास्ति पातकम् ॥ २६ ॥ यस्मिंस्तु निहते भद्रं एषन्त बहवः सुखम् ॥ तस्मिन्हंते नास्ति परं
पातकं नोपपातकम् ॥ २७ ॥ सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुन्धराम् ॥ आत्मानं प्रपयित्वा तु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवि० ध०
प्र० खं० अ० ९७
एवम्प्रभावः स पुरा पृथुरासीन्महीपतिः ॥ ४१ ॥ पिताऽप्यपापजितास्तस्य प्रजास्तेनानुबोधिताः ॥ प्रजानां रञ्जनात्तस्य नाम राजेति कीर्त्तितम् ॥ ६० ॥ राजा भोजो विराट्र सम्राट् गोपतिः पार्थिवस्तथा ॥ स एवैको महीनाथः शब्दैः पर्यायवाचकैः ॥ ६१ ॥ नमस्कर्तव्यस्तस्य नित्यं द्विजोत्तमैः ॥ वेदकर्मविदैर्विद्भिः प्रार्थ्याद्धिर्महताद्वयः ॥ ६२ ॥ पार्थिवैश्च महाभागैः प्रार्थ्याद्धिर्महद्वयः ॥ वृत्तदाता तथा वेश्मनमस्कार्योऽथवा पृथुः ॥ ६३ ॥ शूद्रैरपि नमस्कार्यो धर्मकामैर्महीपतिः ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतानुवाच महातेजा ब्रह्मपुत्रः स नारदः ॥१७॥
किं प्रमाणं तु मेदिन्यां दृष्ट्वैवं चाऽअज्ञानात् कथं सर्गं भवन्तः कर्तुमुद्यताः ॥१८॥
महीमानमथान्वेष्टुं गता दक्षसुतास्ततः ॥
लोकालोकस्य परतो गभोदस्य तथोपरि ॥१९॥
वायुमण्डलमसाद्य भ्रमणानाश्रमागताः ॥
दक्षोऽपि तेषु नष्टेषु वीरिण्यामेव धर्मवित् ॥ २० ॥
सहस्रं जनयामास पुत्राणामपरं ततः ॥
विवर्धिषून्वस्ते तु शबलाश्वाः पुनः प्रजाः ॥ २१ ॥
पूर्वोक्तं वचनं तैस्तु श्राविता नारदेन तु ॥
अन्योन्यमूचुस्ते सर्वं सम्यग्गाह महामुनिः ॥२२॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवि० ध०
॥ ७३ ॥
नृ० सिं०
अ० १११
विवर्धन् ॥ २ ॥ मार्कण्डेय उवाच ॥ मन्वन्तरेऽस्मिन्संप्राप्ते राजन्वैवस्वते पुरा ॥ अश्वमेधे तु वितेने ब्रह्मणः परमेष्ठिनः ॥ ३ ॥ महादेवस्य
शापेन त्यक्त्वा देहान्स्वयं ततः ॥ ऋषयस्तु समुद्भूता हुते शुक्रे प्रजापत्या ॥ ४ ॥ देवानां मातरो दृष्ट्वा देवपत्नीस्तथैव च ॥ स्कन्नं शुक्रे महाराज
ब्रह्मणः परमेष्ठिनः ॥ ५ ॥ तज्जुहाव ततो ब्रह्मा ततो जातो हुताशनात् ॥ ततो जातो महातेजा भृगुः स तपसां निधिः ॥ ६ ॥ अङ्गान्त्वंगिरा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवैवाह्या ज्ञेयास्त्रिप्रवरास्तु ते ॥ भृगुश्च जमदग्निश्च तथैवोर्व्वश्च पार्थिव ॥ २७ ॥ अतः परं प्रवक्ष्यामि शृणु चान्यान्भृगूद्वहान् ॥
जमदग्निर्विद्वैश्च पौलस्त्यो वैजभृत्तथा ॥ २८ ॥ प्राचीनयोग्यो भगवानृषिः क्रौञ्चायनस्तथा ॥ ऋषिमभ्यश्चजाताश्च एकायनवटापनों ॥ २९ ॥
आत्रेयोऽथिमितश्चैषां सर्वेषां प्रवरः स्मृतः ॥ भृगुश्च च्यवनश्चैव ह्यात्मवानस्तथैव च ॥ ३० ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ ऋग्वेदीया
मार्गेयचे ग्रामायणिरेथायानिः ॥ ३१ ॥ आपस्तम्बिस्र्वस्तथा ताल्विनैर्ऋतिः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवि० ध०
॥ ७४ ॥
प्र० खं०
अ० ११९
क्रौञ्चा चैवारुणायनिः ॥ ८ ॥ सोमो डायनिकाशेकः कौटिल्यः पार्थिवस्तथा ॥ रौहिण्यायनिरेवांशुस्तुल्योद्योवांसुरेव चा॥ ९॥ तथा च गुल्मयोवांशु स्तम्बयोवांशुुरेव च ॥ कावाकिः पुष्पधैश्च क्षीरकारिण्डिरेव च ॥ १० ॥ अषाढिश्च करेशैश्च पारिकारिणिरेव च ॥ इत्यापेयास्तु संवपां प्रवराः परिकीर्तिताः ॥ ११ ॥ आंगिरसश्च तथोतथ्यो मुनिश्चैधतपस्तथा ॥ परस्परमवैवाहा इत्येते परिकीर्तिताः ॥ १२ ॥ उषाजिच्च अयस्यश्च¹ कक्षीवान्गौतमस्तथा ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंत्र्यार्षेयो नामतस्तेषां प्रवरो भूमिपोत्तम ॥ अङ्गिरादामवाह्यश्च तथा चैवाप्यतत्ययः ॥ ३१ ॥ परस्परमवैवाह्याः सर्व एव प्रकीर्तिताः ॥ संकृतिश्च
त्रिमाद्रिश्च शैशूः शैपतिरेव च ॥ ३२ ॥ तण्डिश्च जानकिश्चैव तैलकाद्वय एव च ॥ नारायणाश्चापिमिश्च लौक्षिर्गांगिर्हलस्तथा ॥ ३३ ॥
गालविश्चापि त्र्यार्षेयः सर्वेषां प्रवरा मताः ॥ आंगिरः संकृतिश्चैव गौरिवीतिस्तथैव च ॥ ३४॥ परस्परमवैवाह्याः ऋषय परिकीर्तिताः ॥ काण्वायना
हारिकः कौत्स्यः पौंग्यस्तथैव च ॥ ३५ ॥ हस्तिदमो वात्स्यमालिर्गागिलोयैरवः ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवि० ध० ॥ ७५ ॥
प्र० खं० अ० १९४
बृहस्पतिः ॥ ६६ ॥ सौङ्घ्य शैशिवैश्व प्रवराः परिकीर्त्तिताः ॥ परस्परमवैवाह्या ऋषयः परिकीर्त्तिताः ॥ ६७ ॥ एते तवोक्ताङ्गिरसस्तु वंशे महानु-
भावा नृप गोत्रकाराः ॥ येषां च नाम्नां परिकीर्त्तनेन पापं समग्रं पुरुषो जहाति ॥ ६८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
आङ्गिरसो वंशानुकीर्त्तनं नाम द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥ मार्कण्डेय उवाच ॥ अत्रिवंशसमुत्पन्नान्गोत्रकारान्निबोध मे ॥
कर्पूरापणशौलेयास्तथा शाराइणाश्च ये ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपाणिकृष्टश्च पार्थिव ॥ ९ ॥ पाणिनिश्चैव त्र्यार्षेयाः सर्व एते प्रकीर्तिताः ॥ विश्वामित्रो मधुच्छन्दस्तथा चैवाघमर्षणः ॥ १० ॥ परस्परमवैवाहा
ऋषयः परिकीर्तिताः ॥ कामलायनाजिश्श्व आश्मरथ्यास्तथैव च ॥ ११ ॥ बन्धुलिश्चैव त्र्यार्षेयाः सर्वेषां प्रवरा मताः ॥ विश्वामित्रश्च
श्मरथो बन्धुलिश्च महातपाः ॥ १२ ॥ परस्परमवैवाहा ऋषयः परिकीर्तिताः ॥ पूरणाः पारिधान्वन्तः त्र्यार्षेयाः परिकीर्तिताः ॥ १३ ॥
विश्वामित्रः पूरणश्च तयोर्द्वा प्रवरौ स्मृतौ ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंवि० ध० ॥ ७६ ॥ । प्र० खं० अ० १९६ ।
याः परिकीर्तिताः ॥ ११ ॥ वत्सारः कश्यपश्चैव वैश्वश्च महातपाः ॥ परस्परमवैवाह्यौ गोत्रौ द्वौ परिकीर्तितौ ॥ १२ ॥ अतः परं प्रवक्ष्यामि ह्युपायणगोत्रजान् ॥ आतुष्टुभो भाक्तयः स्वातन्त्रो राजवल्लवः ॥ १३ ॥ गैरिशेरो देववृद्धिश्चैन्द्री गोपर्यवाकविः ॥ मालुलिः काडुविज्ञाङ्घ्रिः शतश्मिरितस्त्वैव च ॥ १४ ॥ दिवा वासिष्ठा इत्येते नक्तं ज्ञेयाश्च काश्यपाः ॥ त्र्यार्षेयाश्च तथा तेषां सर्वेषां प्रवराः शुभाः ॥ १५ ॥ वत्सारः कश्यपश्चैव वसिष्ठश्च महातपाः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ १६ ॥ सा माता बलिपुत्रश्च भोपलोड्य जलप्लवः ॥ सुश्रामयुरः पर्णश्च सोऽष्टमो गर्दभीमुखः ॥ १७ ॥ हिङ्गुण्याहुः कैरातः उभो काश्यपगामिलौ ॥ आह्लेलो वृकपुच्छश्च सुकेतुश्च तथोत्तरः ॥ १८ ॥ उलूकभल्लूको वत्सयो महाकेरुस्तथैव च ॥ शार्दूलवंशतानवौ द्रावोलेवल्यतातवः ॥ १९ ॥ पैपलादिः पूर्ववर्विरितीवन्त्या वर्गिनिकः ॥ त्र्यार्षेयापि मन्त्रर्ष्यां सर्वेषां प्रवरः शुभः ॥ २० ॥ असितो देवलश्चैव कश्यपश्च महातपाः ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ २१ ॥ ऋषिप्रवान्वयन्तु कश्यपस्य ह्यसंवणाभ्यः सकलं प्रसूतम् ॥ जगत्समग्रं यदुसिंहमुख्य तत्ते च वक्ष्याम्यहमुत्तरेण ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कश्यपवंशावकीर्तनं नाम पञ्चदशाधिकशततमोऽध्यायः ॥ १९५ ॥ मार्कण्डेय उवाच ॥ वसिष्ठवंशजान्विप्रान्प्रविवाय गदतो मम ॥ एकार्षयश्च प्रवरो वसिष्ठानां प्रकीर्तितः ॥ १ ॥ वसिष्ठ एव वसिष्ठा अविवाह्या वसिष्ठजैः ॥ व्याघ्रापादा औपगवाः वैकवा शाडलायनाः ॥ २ ॥ कापिष्ठला श्वेतोत्तमा आश्वलाः सर्वदाकराः ॥ गोधायना बोधयश्च ड्राकल्पा अपवाहिुकैत ॥ ३ ॥ वालिशिया पालिंशियास्तथोमाङ्कवक्ष ये ॥ आयस्थूणाः शीतवृक्षास्तथा बह्वपुगोहितैः ॥ ४ ॥ लोमात्याः स्वनिरुक्खाः माण्डलिर्गालितालिन्यथा ॥ बह्विष्ठिश्च सुमता श्वपादिर्वाहिडंव च ॥ ५ ॥ शालिल्लिब्वलिलाश्चैव वलिश्रव एव च ॥ माण्डवां याज्ञवल्क्यश्च एकोपायनस्तथा नृप ॥ ६ ॥ वसिष्ठ एषां प्रवरो अवैवाहाः परस्परम् ॥ शैललयो महाकर्णो काण्ण्यः कैवणिस्तथा ॥ ७॥ कपिञ्जलो वालशिखिर्भागविनायतनाश्च य ॥ कोषायाणा लाकदया कोलहूतागुणायणाः ॥ ८ ॥ शाकहत्याः कशापोया अथो उल्लपवाश्च ये ॥ माङ्कचायतना अब्दुन्ना अथो मार्षिणगायचयः ॥ ९ ॥ दामकायतना वाह्यवो वाक्ययोगाणमन्तया ॥ आवायनाश्च ऋषयो ये च क्रोडादनायवाः ॥ १० ॥ प्रत्यवायनाश्च ऋषय औपमन्यव एव च ॥ माङ्कचायनाथ ऋष्यनन्था ये च डङ्गन्काः ॥ ११ ॥ पाडुकायन आंब्दाहा ऋपयश्च लेलयाः ॥ मालया ऋतवक्तव्यः पूर्णांगर्त्तिन्यथ च ॥ १२ ॥ त्र्यार्षेयार्डाप मन्त्रेष्यां सर्वेषां प्रवरम्तया ॥ ॥ १६ ॥
१ 'असितो देवलश्चैव' इति ख०। २ 'शाङ्खत्याश्च वाटकान्' इति ड०। ३ 'पुर्णदन्त्या' इति क०। ४ 'शाकलदा' इति ग०। ५ 'नाम' इति ख०। ६ 'शाकलादत' इति ख०। ७ 'शावका' इति ड०।
भगो वसुर्वसिष्ठश्च इन्द्रः सम्पतिरेव च ॥ १३ ॥ परस्परमवैवाहा ऋषयः परिकीर्तिताः ॥ औपस्वस्थाः स्वस्थ्यलयो वालो हलो ह्यश्वश्च ये ॥ १४ ॥ मध्यन्दिना अक्षतयः पैप्पला देविर्वेङ्कपा ॥ त्रैशुङ्गा वनगा आलवाः कुण्डिनाश्च नरोत्तम ॥ १५ ॥ ज्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ॥ वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ॥ १६ ॥ परस्परमवैवाहा ऋषयः परिकीर्तिताः ॥ जातूकर्णा यचश्चैव पाद्पाश्च तथैव च ॥ १७ ॥ ज्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरस्तथा ॥ जातूकर्णो वसिष्ठश्च तथैवान्त्वत्थ पार्थिव ॥ परस्परमवैवाहा ऋषयः परिकीर्तिताः ॥ १८ ॥ वसिष्ठवंशविहिता मयेते ऋषिसम्भवा नृप गोत्रकाराः ॥ येषान्तु नाम्नां परिकीर्त्तनेन पापं समग्रं पुरुषो जहाति ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथममखण्डे मा० सं० वसिष्ठवंशानुकीर्त्तनं नाम षोडशाधिकशततमोऽध्यायः ॥ ११६ ॥ ॥ मार्कण्डेय उवाच ॥ वसिष्ठस्तु महातेजा निमेः पूर्वपुरोहितः ॥ १ ॥ बभूव पार्थिवश्रेष्ठ यज्ञेस्तस्य समन्ततः ॥ शान्तात्मा पार्थिवश्रेष्ठ विश्राम तदा पुरा ॥ २ ॥ तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ॥ भगवन्द्यष्टुमिच्छामि तन्मा याजय मा चिरम् ॥ ३ ॥ तमुवाच महातेजा वसिष्ठः पार्थिवोत्तमम् ॥ कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः समन्ततैः ॥ ४ ॥ भृशं श्रान्तोऽस्मि विश्रम्य याजयिष्यामि ते नृप ॥ एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तमः ॥ ५ ॥ पारलौकिककार्येषु कः प्रतीक्षितुमुत्सहते ॥ न यस्य सोहृदं ब्रह्मन्कृतान्तेन बलीयसा ॥ ६ ॥ धर्मकार्ये त्वरा कार्या चले यस्माद्धि जीवितम् ॥ धर्ममार्गतो जन्तुर्मृतोऽपि सुखमश्नुते ॥ ७ ॥ श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्निकम् ॥ न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥ ८ ॥ क्षेत्राण्युत्सृज्यहासक्तमन्यत्र गतमानसम् ॥ वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ ९ ॥ न कालस्य प्रियः कश्चिद्द्वेष्यो वास्य न विद्यते ॥ आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ १० ॥ प्राणो वायुश्चलत्वञ्च वायोर्विदितमेव च ॥ यत्र यज्जीव्यते ब्रह्मन्क्षणमात्रं तदद्भुतम् ॥ ११ ॥ सोऽहं सम्भृतसम्भारो भवन्तसमुपागतः ॥ न चेद्याजयसे मह्यं याज्यामन्यन्तु याजकम् ॥ १२ ॥ एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ॥ शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि ॥ १३ ॥ श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ॥ धर्मज्ञः सुरेन्द्राद्य च्याजकं कर्तुमर्हसि ॥ १४ ॥ निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ॥ विघ्नं करोषि नान्येन याजनं च तथेच्छसि ॥ १५ ॥ शापं ददामि तस्मात्तवं विदेहोऽद्य भविष्यसि¹ ॥ एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ ॥ १६ ॥ देहहीनौ तयोर्जीवौ ब्रह्मणमुपजग्मतुः ॥ आगतां तौ समीपेऽथ ब्रह्मा वचनमब्रवीत् ॥ १७ ॥
¹ 'भाविष्यसी' इति ख० ।
वि० ध०
॥ ७७ ॥
प्र० खं०
अ० ११८
अद्य प्रभृति ते स्थानं निमे जीवं ददाम्यहम् ॥ नेत्रपक्ष्मसु सर्वेषां मनुष्याणां भविष्यसि ॥ १८ ॥ त्वत्सम्बन्धात्तथा तेषां निमेषः सम्भविष्यति ॥ चालयिष्यन्ति तु यदा नेत्रपक्ष्माणि मानवाः ॥ १९ ॥ एवमुक्ते मनुष्याणां नेत्रपक्ष्मसु सर्वशः ॥ जगाम निमिर्जीवे तु वरदानात्तस्यभूयः ॥ २० ॥ वशिष्ठजीवं भगवाञ्छ्रुत्वा वचनमब्रवीत् ॥ मित्रावरुणयोः पुत्रो वशिष्ठ त्वं भविष्यसि ॥ २१ ॥ वशिष्ठ इति ते नाम तत्रापि च भविष्यति ॥ जन्मद्वयमतीतं च तत्रापि त्वं स्मरिष्यसि ॥ २२ ॥ एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ॥ वदर्याश्रमसासाद्य तपस्तेपतुख्यम् ॥ २३ ॥ तपस्यतोस्तयोरेवं कदाचिन्साधवे ऋतौ ॥ पुष्पितद्रुमसंच्छित्ने शुमे दक्षिणमारुते ॥ २४ ॥ उर्व्वश्यथ वरागेहा कुर्व्वती कुसुमोच्चयम् ॥ समूद्रसक्तवसना तयोर्दृष्टिपथं गता ॥ २५ ॥ तां दृष्ट्वा सुमुखों सुभ्रू नीलनीलोज्जलोचनाम् ॥ उभो क्षुभ्नुतुर्वीर्य्यन्तदृष्ट्पग्निसादितौ ॥ २६ ॥ स्कन्ने रेतस्यथोदृष्ट्वा शापभीता वराप्सराः ॥ चकार कलशे शुक्रमन्तायणेण मनोमये ॥ २७ ॥ तस्माद्दष्टिपथे जाता तस्मात्प्रतिसिता भुवि ॥ वशिष्ठाख्यास्तस्यश्च मित्रावरुणयोः सुतौ ॥ २८ ॥ वशिष्ठस्तूपयेमेथ भगिनीं नाब्दव्य तु ॥ अरुन्धतीं वरांगहां तनयां शक्तिम जीजनत् ॥ २९ ॥ शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे ॥ यस्य द्वैपायनः पुत्रः स्वयं विष्णुर्जायत ॥ ३० ॥ प्रकाशा जनिता येन लोके भारतचन्द्रमाः ॥ पराशरस्य तस्य त्वं शृणु वंशमनुत्तमम् ॥ ३१ ॥ काइमया वाह्यनानो जैमयो मैमतायनः ॥ ३२ ॥ गौपालिः पञ्चशंखौ ज्ञेया कृष्णपराशराः ॥ ३२ ॥ प्रगोढयो वाह्वतपाः पार्थवः कौतुजातयः ॥ डार्यविः पञ्चमश्चैषां ज्ञेया नीलपराशराः ॥ ३३ ॥ कापारायणा कापिसौथाः कोकिक्यस्या नयान्तपाः ॥ पुक्करः पञ्चमश्चैषां ज्ञेया रक्तपराशराः ॥ ३४ ॥ अविद्ययौता वार्पण्या इत्येयाः श्लोकजातय वै इषीकतस्तः पञ्चमश्च एते श्वेतपराशराः ॥ ३५॥ वटिका वार्गणश्चैव स्कन्धन्धाः कौशिकान्तयः ॥ आभिरंगो पञ्चमश्च एत गौरपराशराः ॥३६॥ खलवायणी वार्षयणी तिल्वणो वैल्ववृक्षपः ॥ तालिमिंगो पञ्चमश्च एते धूम्रपराशराः ॥ ३७ ॥ पराशराणां मत्रंषां व्यंपंचः प्रवगे सतः ॥ पराशरश्च शक्तिश्च वशिष्ठश्च महातपाः ॥ ३८ ॥ पञ्चप्रवरमेवाहुर्याः सर्वे एव पराशराः ॥ ३९ ॥ उक्तमेतत्ते नृप वंशमुख्वाः पराशराः सुच समप्रभावाः ॥ येषां तु नाम्नां संकीर्त्तनत पापं मयंयं पुरुषो जहाति ॥ ४० ॥ इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पराशरवंशानुकीर्त्तनं नाम सप्तदशाधिकशततमोऽध्यायः ॥ ११७॥ ॥ मार्कण्डेय उवाच ॥ अतः परमहस्तस्य वक्ष्ये वंशोद्भवान्द्विजान् ॥ अगस्त्यः करम्भो यः कौसल्याकुलाजास्तथा ॥ १॥ स्वमेवसो मयोद्युक्तस्तथा गान्धारकायनिः ॥ पोलस्त्याः पुलहश्चैव क्रतुवंशभवस्तथारणाः॥ ॥ ७७ ॥
वाष्णेयोऽपि मतैश्चां सर्वेषां प्रवराः शुभाः ॥ अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ॥ ३ ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ पौर्ण-
मासाः पारणाश्च ज्याष्णोयाः परिकीर्तिताः ॥ ४ ॥ अगस्त्यः पौर्णमासश्च पारणश्च महातपाः ॥ परस्परमवैवाह्या पौर्णमासाश्च पारणम् ॥ ५ ॥ एतदुक्तं
ऋषीणां ते वंशानुक्रमपूरुषम् ॥ अतः परं प्रवक्ष्यामि किं तवानद्य कथ्यताम् ॥ ६॥ वज्र उवाच ॥ पुलस्त्यस्य क्रतोश्चैव महात्मनः ॥ अग-
स्त्यस्य तथा चैकं कथं वंशं तदुच्यते ॥ ७ ॥ मार्कण्डेय उवाच ॥ कृतः खलवनपत्योऽस्ति गजश्वेवश्वेतन्तरे ॥ इध्मवाहं स पुत्रत्वे जग्राह नृपसत्तम
॥ ८ ॥ अगस्त्यपुत्रं धर्मज्ञ अगस्त्यात्मकतस्तथा ॥ पुलस्त्यस्य तथा पुत्रः तिरश्चः पृथिवीपते ॥ ९ ॥ तेषां ते जन्म वक्ष्यामि उत्तरत्र यथा
विधि ॥ पुलस्त्यप्रजां दृष्ट्वा नातिप्रीतमना ह्यभूत् ॥ १० ॥ अगस्त्यजं दृष्टसुतं तं पुत्रत्वे कृतवांस्तदा ॥ पौलह्यश्च तथा राजन्नागस्त्याः परिकी-
र्त्तिताः ॥ ११॥ एते तवोक्ताः प्रवरा द्विजानां महासुभाबा नृप गोत्रकाराः ॥ येषां च नामां परिकीर्त्तनेन पापं समग्रं पुरुषो जहाति ॥ १२ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अगस्त्यवंशानुकीर्त्तनं नामाष्टादशाधिकशततमोऽध्यायः ॥ ११८ ॥ ॥ मार्कण्डेय
उवाच ॥ अस्मिन्वैवस्वते प्राप्ते शृणु धर्मस्य पार्थिव ॥ दाक्षायण्यश्च सकलं शृणु त्वं वंशमुत्तमम् ॥ १ ॥ एवं तानि महीदंगं शरी-
राणि नराधिप ॥ अरुन्धत्या प्रसूतानि धर्मो वैवस्वतेन्तरे ॥ २ ॥ अष्टौ च वसवः पुत्राः सोमपाश्च वसोस्तथा ॥ धरो ध्रुवश्च सोमश्च
आपश्चैवानलोऽनिलौ ॥ ३ ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ धरस्य पुत्रोद्रविणम्नः कालः पुत्रो ध्रुवस्य च ॥ ४ ॥ काल-
स्यावयवानां तु शरीराणि नराधिप ॥ मुहूर्त्तवर्णं कालादि प्रस्तुतान्यविशेषतः ॥ ५ ॥ सोमस्य भगवान्वर्चः श्रमस्त्वपापस्य कीर्त्यते ॥
अनेकजन्मा जनवः कुमारश्चानलस्य तु ॥ ६ ॥ पुरोजवाश्चानिलस्य प्रत्यूषस्य च देवलः ॥ विश्वकर्मा प्रभासस्य त्रिदशानां स वार्धिकः ॥ ७ ॥
जामी दुहितरः प्रोक्ता नागवीथ्यादयो नव ॥ लंबापुत्रः स्मृतो घोषो भानोः पुत्रश्च मानवः ॥ ८ ॥ ग्रहांणां तु सर्वेषां चान्येषामपि तेजसाम् ॥
मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ॥ ९ ॥ संकल्पायाश्च संकल्पास्तथा पुत्राः प्रकीर्तिताः ॥ मुहूर्त्ताश्च मुहूर्तायाः माध्यात्माख्यासुताः
स्मृताः ॥ १० ॥ मत्तोन्मत्तश्च प्राणश्च नरोपाणश्च वीर्यवान् ॥ चित्तिर्नरो हयश्चैव हंसो नारायणस्तथा ॥ ११ ॥ विशुश्चापि प्रभुश्चापि साध्या-
द्वादश कीर्तिताः ॥ विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ १२ ॥ ऋतुर्दक्षो वसुः सत्यः कालः कामो धुनस्तथा ॥ ऊर्जवान्मृदुजौ
१ 'श्वेतादि' इति ख० ।
वि० पु०
॥ ७८॥
प्र० सं०
अ० १२१
विश्वेशमाहात्म्य हि ते दशा ॥ १३ ॥ एतावदुक्तं तव कूर्मवंशं संक्षेपतः पार्थिवमुख्यमुख्य ! ॥ व्यासेन वक्तुं न हि शक्तिरस्ति गर्जिन्वता वर्षशते-
रनेकैः ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० धर्मवंशात्तुकल्पितं नामैकनवतितमोऽध्यायः ॥ ११९ ॥ ॥ छ ॥ ॥ छ ॥ मार्क-
ण्डेय उवाच ॥ ॥ अतः परं कश्यपस्य शृणु वंशं नराधिप ॥ यत्र प्रायेण संभूतं जगत्स्थावरजङ्गमम् ॥ १ ॥ अदितेर्द्वादशादित्या देवपुत्राः
प्रकीर्तिताः ॥ धाता पुत्रोऽर्यमा पूषा शक्रोऽशो वरुणो भगः ॥ २ ॥ त्वष्टा विवस्वान्त्वरुणो विष्णुरंशांशमस्तथा ॥ विष्णोरंशन संभूताः
साध्या देवगणा नृप ॥ ३ ॥ त एव तेजसोऽर्डशेन जाताश्चैवादितैः सुताः ॥ नरनारायणौ चोभौ यौ ते गजनयेन्त्रिणौ ॥४॥ इन्द्राविष्णू तथैवोक्त
वादित्येषु नराधिप ॥ मनोन्तरमासाद्य सर्वत्रैव जनार्दनः ॥ ५ ॥ अंशेनैकेन भवति मगणः सोमपायिनाम ॥ तस्मिन्मणे देववरो विष्णुर्लोक
नमस्कृतः ॥ ६ ॥ तेजसाऽभ्यधिको नैको भवतीति न संशयः ॥ यस्तेषामादितिशासनं करोति वसुधाधिप ॥ ७॥ कर्माणिर्यान्यतु तथान्तरेषु
वक्ष्ये भविष्येषु तथा नग्रेन्द्र ॥ मन्वन्तराणां परिकीर्तनेषु शृणुष्व तावद्विनिर्वंशमुख्यम ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क-
ण्डेयवज्रसंवादे आदित्योत्पत्तिर्नाम विशत्यधिकशततमोऽध्यायः ॥ १२० ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ दितिः पुत्रद्वयं गज
अनयामास विश्रुतम् ॥ हिरण्याक्षं च दुर्धर्षं हिरण्यकशिपुं तथा ॥ १ ॥ हिरण्याक्षो हतो राजन्त्वराहेण संयुगे ॥ हिरण्यकश्यपु
राजन्नृसिंहेन निपातितः ॥ २ ॥ हिरण्यकशिपोः पुत्रः प्रह्लादोऽग्निकुलान्तकः ॥ कालनेमिश्च दुर्धर्षो महाबलपराक्रमः ॥ निहतो
आराध्य केशवं देवं प्रह्लादश्च महाबलः ॥ प्रातवांञ्जीवितं दीर्घं बालं दिनमनुत्तमम् ॥ ३ ॥ कालनेमिश्च दुर्धर्षो विष्णुना घातितो भुवि ॥ ३ ॥
वासुदेवेन निवृते तारकामये ॥ ४॥ प्रह्लादस्य सुतः श्रीमान्बाणनामा विरोचनः ॥ विंगंचनसुतः श्रीमान्बलिर्नित्येव विश्रुतः ॥ ५॥ वामनं रूपम-
स्थाथ बद्धो यो विष्णुना पुरा ॥ बलर्वाणः सुतो राजन्भूतो बाहुसहस्रवान् ॥ ७ ॥ पितुन्नृ भृशः श्रीमान्पितृव्यं नवानाव ॥ विवाहं दूतवा
न्कृष्णो नगरं शोणिताह्वयं ॥ ८ ॥ यस्मिन्त्स वै देववरः प्रमथ्य स्कन्दं च रुद्रं विर्जितैः समेतम् ॥ गणं विजित्य नृपतिभगवान् महाद्युर्त हर्यवख्वार
पत्रम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दितिवंशानुकीर्तनं नामैकविंशत्यधिकशततमोऽध्यायः ॥ १२१॥ वज्र उवाच ॥
हिरण्यकशिपोः पुत्रो कालनेमिर्महासुरः ॥ कथं कृष्णेन निहतन्तमहमाचक्ष्व पृच्छतः॥ ३॥ मार्कण्डेय उवाच ॥ यदा दैत्यवधूं वृत्ते दैत्याः पराजयमन्विताः॥
^१ 'रोचमानस्तथैव च' इति ख०।
॥ ७८॥
मयतारौ समाश्रित्य भूयो देवान्प्रदुद्रुवुः ॥ २ ॥ तत्र देवगणाः सर्वे मयतारपुरःसरैः ॥ दानवैर्निहता युद्धे देवाचार्यं बृहस्पतिम् ॥ ३ ॥ संप्राप्ताः।
शरणं विप्रं तांनुवाच बृहस्पतिः ॥ तारकश्च मयश्चैव महाबलपराक्रमौ ॥ ४ ॥ ययुर्जुष्टं देवगणांस्ताविमौ चोदयाम्यहम् ॥ एवमुक्ता. देवगणास्ते वा
चार्यो बृहस्पतिः ॥ तुष्टाव देवदेवेशं बहुरूपं हुताशनम् ॥ ५ ॥ बृहस्पतिरुवाच ॥ त्वमग्ने सर्वभूतानामन्तश्चरसि पावक ॥ वेदास्त्वदर्थं जाता श्च
जातवेदास्तथा ह्यसि ॥ ६ ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वं हवींषि महाद्युते ॥ त्वं स देव चरस्यात्मा विष्णोरमिततेजसः ॥ ७ ॥ त्वं मुखं सर्वदेवानां
सर्वस्यात्मा तथा भवान् ॥ ऊष्मा त्वं देहिनां देहे युक्तःपितवतस्तथा ॥८॥ यच्छक्तिः सर्वदेवानां त्वदीया भूतभावन ॥ प्राता त्वयाहुतिः सम्यग्गदित्य
मुपतिष्ठते ॥ ९ ॥ आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ सर्वदेववरेशानः सर्वलोकनमस्कृतः ॥ १० ॥ त्रैलोक्यस्य समुत्पत्तावेकः कारणतां
गतः ॥ कालाग्निरुद्रो भगवाञ्जगत्संहारकारकः॥११॥ स्थितौ निमित्तं च भवान्सर्वेषां देहिनां शमः॥ अतीव दुर्धरं देव तव तेजः सुदारुणम् ॥१२॥
तेजसा तेन दैत्येन्द्रान्दहि मा त्वं चिरं कृथाः ॥ सत्वाच ते रणे देव भविष्यति समीरणः ॥ १३॥ इत्येवमुक्तोऽङ्गिरसा महात्मा तथिति तं प्राह नृपेन्द्र
पूज्यम् ॥ जीवेऽपि गत्वा पवनं जगाद देवैश्वरस्यानघसिद्धिमिच्छन्॥१४॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽग्निस्तोत्रं नाम
द्वाविंशत्यधिकशततमोऽध्यायः ॥ १२२॥ बृहस्पतिरुवाच॥जगदायुर्मेभवान्वायो शरीरस्थः शरीणिनाम्॥अनन्तमुर्तिर्धर्मात्मा देवो नारायणः प्रभुः ॥१॥
अचिन्त्यवीर्यः पुरुषः सदाधारः सनातनः ॥ २ ॥ साक्षिभूतश्च सर्वेषां कर्मणां शुभापायोः ॥२॥ प्राणस्त्वं देहिनां देहे चेष्टितञ्च तथा भवान् ॥ भवाञ्छ्रेष्ठो
भवान्ब्रह्मा भवान्विष्णुः सनातनः ॥ ३ ॥ त्वायत्तं हि जगतां वर्षावर्ष शुभाशुभम् ॥ भवान्विसृजते मेघान्भवान्संहरते पुनः ॥ ४ ॥ भवान्धारयते
मेघान्वर्षमाणंस्तथा दिवि ॥ आदित्यरश्मिपीतस्य मेधोदरगतस्य च ॥५॥ रसस्य भङ्गा सततं भवानेव नमस्त्वते ॥ तडिद्वन्तानां च तथा भवा
न्कर्ता जगत्रये ॥ ६ ॥ अम्भसां भेदकत्वे तु सर्वाधारः समीरणः ॥ परस्परं हि भवतस्तथा संघटनात्प्रभोः ॥ ७ ॥ गर्जितं जायते लोके मेघोदर
गतं महत् ॥ बलेन त्वत्समं नान्यं भूतं पश्यामि भूतले ॥ ८ ॥ तस्मात्त्वं कुरु साहाय्यं वद्भूर्हूतविभावसोः ॥ ९ ॥ एतावदुक्तोऽङ्गिरसा महात्मा
तथेति तं प्राह समीरणोऽपि ॥ जगाम युद्धं सह पावकेन दैत्येश्वरान्वेदरिपून्महात्मा ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र
संवादे वायुस्तोत्रं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥ ॥ मार्कण्डेय उवाच ॥ वायुवह्नी सहितौ गत्वा मयतारपुरोगमान् ॥
जिग्यतुः समरे दैत्यान्नानाप्रहरणोद्यतान् ॥ १ ॥ विजितास्ते रणे दैत्या मयतारपुरोगमाः ॥ त्यक्त्वादेवालयाः सर्वे वरुणालयमागताः ॥ २ ॥ एत
'प्र० खं०'
'अ० १२५'
स्मिन्नेव काले तु हिरण्यकशिपोः सुतः ॥ कालनेमिरिति ख्यातः शीतशीर्षोऽप्युदृश्यते ॥ ३ ॥ शतबाहुर्महाकायः पर्वताकारदर्शनः ॥ ब्रह्मलब्धवरो
रौद्रो दुग्धशैलसमप्रभः ॥ ४ ॥ एकोदरो द्विपादश्च एकग्रीवः सुरान्तकः ॥ अङ्गुदी बद्धमुकुटः कुण्डलाम्बरभूषणः ॥ ५ ॥ सर्वायुधधरो रौद्रो
गदापाणिर्विभीषणः ॥ दत्त्वाऽभयं स दैत्यानां तस्मै मेरुं सुरालयम् ॥ ६ ॥ गत्वा विजित्ये त्रिदशान्स्थान्येनान्यथावरोपयत् ॥ त्रैलोक्यमात्मसा
त्कृत्वा सुखमास्ते त्रिविष्टपे ॥ ७ ॥ तस्य ते ह्यनुगाः सर्वे लोकाः स्थावरजङ्गमाः ॥ तदाज्ञाकारिणः सर्वे तद्भावस्यानुवर्तकाः ॥ ८ ॥ पञ्च तत्रा
भ्यवर्तन्त विपरीतेन कर्मणा ॥ वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥ ९ ॥ सर्वेषामनुसन्थानात्सरोषो दानवेश्वरः ॥ वैष्णवं पदमन्विच्छ
न्ययौ नारायणान्तिकम् ॥ १० ॥ ज्ञात्वा दैत्यमथायान्तं देवापि मधुसूदनः ॥ तार्क्ष्यमावाहयाञ्चक्रे आरुरोह च तं हरिः ॥ स ददर्श हरिं देवं
तार्क्ष्यस्थं दैत्यराट् तदा ॥ ११ ॥ सजलजलदनीलं पद्मपत्रातनेत्रं खगपतिमवरूढं कल्पवृक्षोपमानम् ॥ हलमुसलगदाभिः शोभितं देवदेवं वरपुरुष
मजेयं शार्ङ्गचक्रासिपाणिम् ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेम्युपाख्याने श्रीमद्भगवद्दर्शनो नाम चत्वारिंश
त्यधिकशततमोऽध्यायः ॥ १२४ ॥ ॥ मार्कण्डेय उवाच ॥ दृष्ट्वा स पुरतो देवं दानवस्त्वयभाषत ॥ अद्य स दृश्यते विष्णुर्यो
नया येन घातितः ॥ १ ॥ कुतुण्ण्येण शकौथे बभूव किल वामनः ॥ यदा वञ्चितवान्पुत्रे भ्रातृव्यस्य बलिं मम ॥ २ ॥
नृवराहवपुः कृत्वा लोकचित्तहरं पुरा ॥ हिरण्याक्षं जघानेव पितृव्यं मम विस्मितम् ॥ ३ ॥ अपूर्वं रूपमास्थाय नरसिंहस्य दानवाः ॥ पितरं
यो जघानेव हिरण्यकशिपुं रणे ॥ ४ ॥ वराहरूपिणानेन पातालतलमास्थिताः ॥ अस्मद्भाग्येभयेनाजो दानवा विनिपातिताः ॥ ५ ॥ नराश्व
वपुषा येन मधुकैटभौः पुरा ॥ पातालादाहता वेदास्ततस्तौ युधि घातितौ ॥ ६ ॥ अस्याज्ञाकारिणो देवा न संतिष्ठन्ति शासने ॥ अयं स
रक्षां देवानामास्माभिर्विक्रूप्यताम् ॥ ७ ॥ त्रैलोक्ये दैत्यसृद्धतं युद्धेनेव पुनःपुनः ॥ देवसाह्यम् इत्येव तेन वध्योऽथ मे रिपुः ॥ ८ ॥ अतीव
स्याद्य कालस्य दुर्नयस्य कृतस्य च ॥ मोक्षयद्देव फलं दैत्याः सर्वं पश्यन्त मा चिरम् ॥ ९ ॥ इत्येतेद्देत्यनाथस्य वाक्यं श्रुतैव दानवाः ॥
जयशब्दं ततश्चक्रुः सिंहनादवं तथा ॥ १० ॥ वाक्य प्रतिकूलाम्तास्तन् दुष्टेन चेतसा ॥ तच्छ्रुत्वा च हरिर्देवः क्रुद्धो नामेदमब्रवीत ॥ ११ ॥
किमिदं गर्जसे दैत्य शारदाभ्रबुदद्वथा ॥ प्रजापतिकृतं सेतुं कथं लङ्घितुमिच्छसि ॥ १२ ॥ एवं कथितोदेवेन्द्देत्योः पार्थिवोत्तम ॥ प्रावर्तत रणो
घोरो गदापातविभीषणः ॥ १३ ॥ दानवैर्देवदेवोऽपि कालनेमिपुरःसरैः ॥ संछाद्यते महाबाणैर्यथाऽभ्रैव नभस्तलम् ॥ १४ ॥ संछाद्यमानो दैत्यै
॥ ७९
न्द्रेन्द्रदेवौ न विव्यथे ॥ योधयामास स रणे गदया दानवान्बहून् ॥ १५ ॥ तस्य दैत्यप्रसक्तस्य कालनेमिर्महासुरः ॥ पातयामास वेगेन गदां
गरुड़मूर्धनि ॥ १६ ॥ गदाघातेन रौद्रेण तेन तार्क्ष्यस्य मानद ॥ नासा भग्ना व्यथा जाता रक्तच्छर्दिश्च दारुणा ॥ १७ ॥ व्यथितं गरुडं
दृष्ट्वा देवेन हरिमंधता ॥ क्षिप्तं दैत्यविनाशाय तदा चक्रं सुदारुणम् ॥ १८ ॥ यत्तत्सुदर्शनं नाम सूर्यतेजःसमुद्भवम् ॥ वज्रनाभं सहस्रारं
शरपर्यन्तमण्डलम् ॥ १९ ॥ च्युतं चक्रिकरात्कर्म कालनेमिं महासुरम् ॥ शीघ्रं विशिरसं चक्रे विबाहुं च तथा नृप ॥ २० ॥ विबाहुशिरसं
कृत्वा देवदत्तसुपौथिवान् ॥ विबाहुशिरसं कार्यं शरच्छोणितनिर्झरम् ॥ २१ ॥ न पपातस्य मेदिन्यां यदा तार्क्ष्यन्ततो रथात् ॥
उरसा पातयामास देवानां पश्यतां तदा ॥ २२ ॥ पतता दैत्यकायेन सशैलवनकानना ॥ कंपिता वसुधा सर्वा पतिताश्च शिलोच्चयाः ॥ २३ ॥
दानवेन्द्रं हतं दृष्ट्वा मयतापुरोगमाः ॥ तुष्टुवुर्देवदेवेशं वरचर्कासिपाणिनम् ॥ २४ ॥ तुष्टाव च तदा देवो ब्रह्मा शुभचतुर्मुखः ॥ स्तुतश्च ब्रह्मणा
देवो लोकपालान्नथा पुरा ॥२५॥ स्थानेषु योजयामास यज्ञं देवसुखे तथा ॥ जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा विभुः ॥२६॥ तत्रात्मानं यज्ञमूर्ति
मिज्यमानं द्विजोत्तमैः ॥ दृष्ट्वा स्वयं तु जग्राह यज्ञभागं महात्मनाम ॥ २७ ॥ तत्र पूजासुपादाय जगाम स हिरण्वतीम् ॥ अवेररजुगतस्तत्र सुष्वाप
किल योगवित् ॥२८॥ एवं स दैत्यप्रवरो नरेन्द्र कृष्णेन चक्रेण पुरा निरस्तः ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥२९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेमिवधो नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥ वज्र उवाच ॥ यदुक्तं
दैत्यनाथेन दैत्यानां कालनेमिना ॥ पातालदैत्यशमनं वपुर्देवस्य चक्रिणः ॥ १ ॥ तदहं श्रोतुमिच्छामि तत्र मे संशयो महान् ॥ चरितं तस्य
देवस्य भावान्विति यथातथम् ॥ २॥ मार्कण्डेय उवाच ॥ विष्णुना तु बलौ बद्धे पातालतलमाश्रिताः ॥ जघ्नुर्दैत्यगणा लोकान्ब्राह्मणांश्च विशेषतः ॥३॥
भूतले हन्यमाने तु यज्ञे नाशमुपागते॥क्षुत्क्षामैस्त्रिदशैर्ब्रह्मा दैत्येहतैः प्रनोदितः॥४॥ब्रह्मापि चोदयामास देवदेवं जनार्दनम्॥ब्रह्मणा चोदितो देवः पाताल
गमनेच्छयाः ॥५॥ चकार रूपं वाराहं भिन्नाञ्जनचयप्रभम् ॥ शशाङ्कलेखोद्दंष्ट्राग्रं वज्रप्रायखुरं तथा ॥६॥ वज्रसंहननं भीमं त्रैलोक्यक्षोभकार
कम् ॥ पीनवृत्तायतस्कन्धं महापीनशिरोधरम् ॥ ७ ॥ विवृतास्यं महाकायं भीमाक्षं भीमनिखनम् ॥ आवर्त्तरोमसंघातं तेन विग्रहसंजितम् ॥
॥ ८ ॥ स समुद्वेग पातालें प्रविश्य मधुसूदनः ॥ दैत्यानां दर्शने तस्थौ महाबलपराक्रमः ॥ ९ ॥ पाताले सूकरं दृष्ट्वा प्रथदातितभूतलम् ॥
सुसुप्तगम्भीररवं शुंशुकारकृताननम् ॥ १० ॥ पङ्कलिप्तसर्वाङ्गं निर्यदुर्नदानवास्तदा ॥ सततं मुगशारीला जघ्नुस्तञ्च वरायुधैः ॥ ११ ॥
वि० ध०
॥ ८० ॥
प्र० खं०
अ० १२७
स हन्यमानो दैत्यार्घैः पृषतैरिव पर्वतः ॥ स्कन्धकण्डूच्छलेनाजौ दैत्याधिपनिबर्हनम् ॥ १२ ॥ पातयामास वेगेन महाद्रिशिखरोपमम् ॥
वेश्मनश्च निपातेन देवदेवस्य मायया ॥ १३ ॥ हन्यन्ते दानवा घोराः शतशोऽथ सहस्रशः ॥ ते क्षयाद्दैत्यमुख्यानां दैत्यसुल्यक्षयङ्कराः॥१४॥
यथाश्वमेधात् जग्मुः क्षये रौद्र उपस्थिते ॥ क्षीयमाणाः क्षयेदृष्ट्वा शतजोक्षितमूर्धजान् ॥ १५ ॥ क्ष्मातलस्थाम्रंस्तेजोग्रैः क्षणेन क्षणदाचरान् ॥
प्रधाना दैत्यमुख्या ये ओजसेन बलेन ते ॥१६॥ जग्मुर्वरायुधैर्धव शतशोऽथ सहस्रशः ॥ स हन्यमानो दैत्येन्द्रैः प्रायेन दितिजात्मजान् ॥१७॥
विदारयामास रणे दंष्ट्राग्रेण तथापरान् ॥ एवं वराहेण रणे हतान्दृष्ट्वा दितेः सुतान् ॥ १८ ॥ हरिं विज्ञातावान्देवं प्रह्लादो दैत्यसत्तमः ॥
स प्रणम्य हरिं देवं तुष्टाव धरणीधरा ॥ १९ ॥ तं जगाद महातेजा देवदेवो जनार्दनः ॥ अनुग्राह्योऽसि मे दैत्य भक्तोऽसि सततं यतः ॥ २० ॥
तवाज्ञाल्लङ्घका घोरा प्रायेण निहता मया ॥ तवाज्ञाकारिणो दैत्या न मे वध्या दितेः सुताः ॥ २१ ॥ शासनं पालय मह्यं पाताले त्वं
सुखी भव ॥ मार्गे स्थापय दैत्यांस्त्वं त्वदाज्ञापरिबंहितान् ॥२२॥ आश्वस्तसंप्लवं दैत्य जीवं त्वं न विमोक्ष्यसे ॥ धर्मिष्ठानां च दैत्यानां सदा ॰ राजा
भविष्यसि ॥ २३ ॥ मद्भक्त्या परया वत्स पुत्रस्तव विरोचनः ॥ मार्गच्युतोऽपि न हतः कल्पाग्रश्च तथा कृतः ॥ २४ ॥ बलिर्वैरोचनश्चैव
मया बद्धः कृते तव ॥ करिष्यति स शक्रत्वं प्राप्ते सावर्णिफेन्तरे ॥ २५ ॥ बाणं च तनयं तस्य मम विप्रियकारकम् ॥ त्वत्कृते न हनिष्यामि
तस्य च्छेत्स्यामि दोर्मानम् ॥ २६ ॥ छिन्नाबाहुर्मया युद्धे हरस्यालुचरो बली ॥ महाकाल इति ख्यातो कल्पस्थायी भविषयति ॥ २७ ॥
एकमेकं तु दैत्येन्द्र सन्ताने सततं तव ॥ नांहं वधिष्ये धर्मज्ञ त्वत्कृते व्येतु ते भयम् ॥ २८ ॥ भवान्भक्तस्तथा मह्यं भक्तेष्वपि तथा मम ॥
नास्त्यदेयं महाभाग तत्पातालं गच्छ निर्वृतः ॥ २९ ॥ हतशेषानुपादाय दैत्यान्सत्यपथमाश्रितान् ॥ एतावदुक्त्वा प्रह्लादं तत्रैवान्तरधीयत ॥३० ॥
एतद्वराहचरितं तव राजसिंह प्रोक्तं मया सकलकल्मषनाशकारि ॥ उद्भुतदैत्यशमनस्य ऋषिस्तुतस्य कण्डूविनोदनहतासुरपुङ्गवस्य ॥ ३१ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पाताले वराहप्रादुर्भावो नाम षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥ वज्र उवाच ॥
दितिविनष्टपुत्रा च पुत्रकार द्विजोत्तम ॥ तन्ममाचक्ष्व संशप्तस्तत्र मे संशयो महान् ॥ १ ॥ मार्कण्डेय उवाच ॥ दितिर्विनष्टपुत्रा च तपसा
महता नृप ॥ आराधयामास तदा भर्तारं कश्यपं मुनिम् ॥२॥ आराधितः सुतपसा च्छन्दयामास भामिनीम् ॥ वरेण च वचः काले पुत्रव्यसनक
र्पिताम् ॥ ३ ॥ कश्यप उवाच ॥ वरं वरय सुश्रोणि वरदोऽहमुपस्थितः ॥ एवमुक्ता वरं वव्रे देवी पुत्रविनाकृता ॥ ४ ॥
॥ ८० ॥
दितिरुवाच ॥ शक्रहन्तारमिच्छामि पुत्रं ब्रह्मन्द्यशस्विनम् ॥ यदि तुष्टोऽसि मे ब्रह्मंस्तं प्रयच्छ सुतं मम ॥ ५ ॥ मार्कण्डेय उवाच ॥
एवमुक्तस्तदा भर्तानातिप्रीतोऽब्रवीदिदम् ॥ एवं ते भविता भद्रे शुचि त्वं चेद्भविष्यसि ॥ ६ ॥ पूर्णं वर्षसहस्रं च नान्यथा तद्भविष्यति ॥ एव-
मुक्ता तया सार्धमुवास रजनीं द्विजः ॥ ७ ॥ ततो जगाम धर्मात्मा तपसे दृढनिश्चयः ॥ आत्तस्थौ नियमं देवी सगर्भा च दितिस्तदा ॥ नियमस्थां
तु तां दृष्ट्वा शक्रो वचनमब्रवीत् ॥ ८ ॥ शक्र उवाच ॥ अहं देवि करिष्यामि तव शुश्रूषणं सदा ॥ स्थिताया नियमे घोरे तद्वातुमर्हसि ॥ ९ ॥
मार्कण्डेय उवाच ॥ बाढमस्त्वित्यथोक्तस्तु तया देवः पुरन्दरः ॥ तत्रोवास च्छलान्वेषी शुश्रूषामरतं सदा ॥ १० ॥ तदाब्दशेषे काले च दिवा
सुप्ताऽदितिर्नृप ॥ मध्याह्नसमये राजन्पादौः कृतमूर्द्धजा ॥ ११ ॥ तस्याः संप्राप्य तच्छिद्रं वज्री परपुरञ्जयः ॥ विवेश गर्भमार्गेण विवृतेनं नरे-
श्वर ॥ १२ ॥ संप्रविश्यैव तं गर्भं वज्रेण शतपर्वणा ॥ कृतवान्सप्तधा वज्री भागंभागं ततः पुनः ॥ १३ ॥ एकैकं सप्तधा चक्रे गर्भोऽपि प्रारुद-
त्तदा ॥ मा रुदस्वेति तं वज्री प्राह कार्ये स्वके स्थितः ॥ १४ ॥ एतस्मिन्नेव काले च दैत्येन्द्रजननी तदा ॥ विबुद्धा वारयामास शक्रं दशशते-
क्षणम् ॥ १५ ॥ वज्रगर्भोऽञ्जलिः शक्रो मातृवचनयन्त्रितः ॥ निष्क्रामन्नोदरात्तस्याः सह बालैर्महात्मभिः ॥ १६ ॥ तं जगाद दितिः शक्रं प्राञ्जलिं
पुरतः स्थितम् ॥ न ते शक्रापराधोऽस्ति मम गर्भनिकृन्तने ॥ १७ ॥ सर्वोपायैर्निहन्तव्यः शत्रुर्नेयविदा सदा ॥ ममापराधाद्गर्भोऽयं त्वयाद्य
बहुधा कृतः ॥ १८ ॥ भवन्तु मरुतो नाम सर्वे देवाः पृथक्पृथक् ॥ मा रुदध्वमिति प्रोक्ता यतः शक्र त्वया सुताः ॥ १९ ॥ ततश्च मरुतो नाम भवि-
ष्यन्ति जगत्त्रये ॥ त्वत्सहाया भविष्यन्ति त्वदाज्ञावशवर्तिनः ॥ २० ॥ न चैतेभ्यो भयं किञ्चित्कदाचिन्ते भविष्यति ॥ एषां नामविभागांस्त्व-
स्थानानि च तथा कुरु ॥ २१ ॥ एकज्योतिश्च द्विज्योतिस्त्रिज्योतिरेव च ॥ एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ॥ २२ ॥ प्रथमे पवन-
स्कन्धे गणोऽयं सुरथः स्मृतः ॥ इन्द्रश्च गण्यो दृश्यश्च इतः प्रतिशिरास्तथा ॥ २३ ॥ मितश्च संमितश्चैव अमितश्च महाबलः ॥ द्वितीय पवन-
स्कन्धे गणो नाम प्रघोषकः ॥ २४ ॥ ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ अतिमित्रो नामित्रश्च पुरुमित्रोऽपराजितः ॥ २५ ॥ तृतीये
पवनस्कन्धे गणः सन्तापनः स्मृतः ॥ ऋतश्च ऋतवान्धाता विधाता धरणो ध्रुवः ॥ २६ ॥ विचारणः चतुर्थेस्तु गृहमेधो गणः स्मृतः ॥ ईदृक्षश्च
सदृक्षश्च एतादृग्भूततारनः ॥ २७ ॥ कीतनः प्रसदृक्षश्च सरम्भश्च महायशाः ॥ गृहे च रोषणा नाम वायुस्कन्धे च पञ्चमे ॥ २८ ॥ धर्ता दुर्गैष्व
निर्भामो ह्यभियुक्तिः कृपा सहः ॥ षष्ठे तु पवनस्कन्धे सास्ती नाम गणः स्मृतः ॥ २९ ॥ द्युतिर्बपुर्नष्टशद्यो वासः कामो जयो विराट् ॥ मैत्रेवणो
गणो नाम वायुस्कन्धे च सप्तमे ॥ ३० ॥ एषां नामविभागन्तु दत्त्वा स्थानानि चाच्युतः ॥ जगाम स्वगृहं प्रीत्या दितिश्च स्वगृहं
ययौ ॥ ३१ ॥ एतत्तेवार्त्तं मरुतां त्वीर जन्मोत्तमं पापभयापहारि ॥ यस्मिञ्छुतेनैव जनस्य लोके भयन्तु दृष्ट्या न भविष्यतीह ॥ ३२ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मरुदुत्पत्तिर्नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥ १२७ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥
जनयामास राजेन्द्र दनुर्दानवपुङ्गवान् ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें