विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 193, कुल 1001 में से
संदर्भ में पढ़ेंतानुवाच महातेजा ब्रह्मपुत्रः स नारदः ॥१७॥
किं प्रमाणं तु मेदिन्यां दृष्ट्वैवं चाऽअज्ञानात् कथं सर्गं भवन्तः कर्तुमुद्यताः ॥१८॥
महीमानमथान्वेष्टुं गता दक्षसुतास्ततः ॥
लोकालोकस्य परतो गभोदस्य तथोपरि ॥१९॥
वायुमण्डलमसाद्य भ्रमणानाश्रमागताः ॥
दक्षोऽपि तेषु नष्टेषु वीरिण्यामेव धर्मवित् ॥ २० ॥
सहस्रं जनयामास पुत्राणामपरं ततः ॥
विवर्धिषून्वस्ते तु शबलाश्वाः पुनः प्रजाः ॥ २१ ॥
पूर्वोक्तं वचनं तैस्तु श्राविता नारदेन तु ॥
अन्योन्यमूचुस्ते सर्वं सम्यग्गाह महामुनिः ॥२२॥
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥
तेऽपि हर्यश्वमार्गेण प्रयाताः पृथिवीमिमाम् ॥ २३ ॥
तमेव वायुमासाद्य विनष्टाः शाश्वतीस्समाः ॥
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रताः ॥ २४ ॥
प्रयातो नश्यति विभो तन्नः कार्यं विजानता ॥
अथ तेषु विनष्टेषु दक्षः कोपसमन्वितः ॥२५॥
शशाप नारदं क्रुद्धः तुल्यं जन्म न चाप्स्यसि ॥
देहं त्यक्त्वा स शापेन तेन दक्षस्य नारदः ॥ २६ ॥
भूयो मुनिसुतो जातः कश्यपस्य महात्मनः ॥
अश्वमेधं च वितते दक्षस्याऽदुक्तकर्मणः ॥ २७ ॥
विवंसायामास हरः पूर्ववैरेण भावितः ॥
दक्षोऽपि शतवार्ष्यान्तु शशास्ते ब्राह्मणोत्तमाः ॥२८॥
अद्य प्रभृति धूर्ज्यान्ति नत्वा सार्धं दिवौकसैः ॥
जन्मान्तरेऽपि वैराणि विनश्यन्ति न पार्थिव ॥ २९ ॥
तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ॥
हर्यश्वेष्वपि नष्टेषु महात्मसु पुरा तदा ॥ ३० ॥
असिक्न्यां जनयामास दक्षो दुहितरस्तदा ॥
षष्टिः कन्या रूपयुक्तास्तपसा महता युताः ॥ ३१ ॥
द्वे ददौ बहुपुत्राय चतस्रोऽरिष्टनेमिने ॥
द्वे प्रादात्स कृशाश्वाय दश धर्माय चाप्यथ ॥ ३२ ॥
चतुर्दश कश्यपाय चाष्टाविंशतिमिन्दवे ॥
प्रददौ बहुपुत्राय सुप्रभां भामिनीं तदा ॥ ३३ ॥
मनोरमां भानुमतीं विशालां बहुदामथ ॥
दक्षः प्रादान्महाभागश्चतस्रोऽरिष्टनेमिने ॥ ३४॥
कृशाश्वाय च प्रादात्सुप्रभां च तथा जयाम् ॥३५॥
अरुन्धतीं वसुं जामिलम्बाम् भानुमिरवतीम् ॥३६॥
संकल्पां च मुहूर्ता च साध्यां विश्वां तथैव च ॥
ददौ स दश धर्माय महात्मा लोकविश्रुतः ॥३७॥
अदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः ॥
कद्रूः क्रोधा इरा प्राधा विनता सुरभिः खशा ॥ ३७ ॥
चतुर्दशैताः प्रददौ कश्यपाय प्रजापतिः ॥
नामभिः पूर्व विख्याताः कृत्तिकाद्यास्तथैव च ॥ ३८ ॥
ददौ नक्षत्रयोगिन्य अष्टाविंशतिमिन्दवे ॥
देवतास्त्वभिमानिन्यो नक्षत्राणां महीपते ॥ ३९ ॥
एतावदुक्तं तव दक्षवंशम्प्लोद्भवं चाप्यथ भूमिपाल ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥ ४० ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० दक्षवंशवर्णनं नाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥
॥ छ ॥
॥ वज्र उवाच ॥
॥ महादेवेन ऋषयः शापाः स्वायंभुवेऽन्तरे ॥
तेषां वैवस्वते प्राप्ते सम्भवं मम कीर्तय ॥ १॥
दशाशयोर्नीलं च तथा प्रजाः कीर्तय मे विभो ॥
ऋषीणां च तथा वंशं भृगुवंश