सामग्री पर जाएँ
सर्वकोश
विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Vikramorvashiyam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished168 पृष्ठ

पृष्ठ 105, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 105
पृष्ठ 105 स्कैन

९२ विक्रमोर्वशीये
(इति सक्रुणं विचिन्त्य ।) क्व नु खलु रम्भोरूर्गता स्यात् ।
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावाद्रेमस्या मनः ।
तां हर्तुं विबुधद्विषोऽपि हि न मे शक्ता पुरोवर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥ ९ ॥
(इति द्विपदिकया दिशोऽवलोक्य सास्रम् ।) अये, परावृत्तभागधेयानां दुःस-
दुःखानुबन्धि । कुतः ।
अयमेकपदे तया वियोगः
प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभि-
र्भवितव्यं च निरातपत्वरम्यैः ॥ १० ॥
(अनन्तरं चर्चरी।)
जलहर संहरएहु कोपमिआढत्तओ
अविरलधारासारदिशामुहकन्तओ ।
१ जलधर संहरान रोषमादत्त
अविरलधारामारदिशामुखकान्तः ।
वपति तावन्मृगलोचनामुर्वशी सोऽपि राक्षस इतीति मया निश्चयेन ज्ञातम् ।
यपणोत्तरं तु जरुदनिश्चयात्वेन नाता क्व वा गता मत्प्राणप्रिया किमिदानीं करोमि
मन्दभाग्य इति । इति क्वापि सक्रुणं विचिन्त्येत्युत्तरश्लोकाद्यगच्छति । मह कोइ
इति च सदा को पि इत्यथ तत्रैव ॥ ॥ तिष्ठेदिति । प्रभावपिहिता तिर-
स्कहरिण्या विद्याप्रभावान्नच्छत्रा । सप्तायत स्वय प्राप्तं यन्तुमित्यर्थः । विधिः प्र-
कारः ॥९॥ अयमिति । एकपदे । तत्समकरुपदं तुल्ये सद्यः सपदि च स्मृतम्
इति हरायुधः ॥१०॥ अनन्तर इति । चर्चरीवृत्तो गीतिविशेषः । यदुक्तम्-
द्रुतमध्योदयं समाश्रिता पठन्ति भ्रमराष्ट्री यदि । प्रतिमण्डकरासकेन वा द्रुत-
मध्या प्रथमा हि चर्चरी ॥ सोमा वा प्रतिमण्डकः । उत्थानिकातो षोडशरा
रास इत्यभिधीयते ॥ इति ॥ मय प्रत्याह-जलहरेति । जलधर संहरात्र को-
पमाद्दत अविरलधारासारदिशामुखकान्त । एहह पृथ्वीं भ्रमयति प्रियां प्रेक्षिष्ये
तदा यथारुचिरिष्यसि हत्त१४दिष्येऽए इति संबोधन एवमर्थे वा । संहर एहु कोपम्