सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished355 पृष्ठ

पृष्ठ 7, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 7
पृष्ठ 7 स्कैन

[ ६ ]
तदेवम्—अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिञ्च विन्दति ॥
इति पद्यमनुस्मरता कविमूर्द्धन्यभट्टनारायणेन सर्वलक्षणोपेतं वेणीसंहारं
नाम नाटकं निरमायि । तत्र किं वर्णयामोऽस्य नाटकस्य वैशिष्ट्यम्, अस्य
कवेर्वैदुष्यञ्च काव्यप्रकाशकृता दर्पणकृता च स्व-स्व-ग्रन्थेऽत्रत्याः कविता
निवेशयतैव प्रकाशितत्वात् । दर्पणकृता तु—षष्ठपरिच्छेदे बहून्युदाहरणानि
प्रदर्शयताऽस्यैव नाटकस्य नाटकमौलिता कामं प्रकटीकृता । यद्यपि शृङ्गार-
रसनाटकस्य प्रणेतारो बहवः सन्ति, परं वीररसनाटकस्य प्रणेतारो विरला
एव दृश्यन्ते । यद्यप्यन्यानि हनुमन्नाटकादीनि वीररसाङ्गिनाटकानि समुल्लसन्ति,
तथाप्येतस्मिन्नश्वत्थामाङ्के वीररौद्ररसयोः सन्निवेशः काव्यरसिकस्य कस्य न
चेतस्सन्दोलयति ।
दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः ।
स्नानानुलेपने चाभिर्वर्जितो [नातिविस्तरः ॥
इति पद्यार्थं स्मारं स्मारं कविवरभट्टनारायणेन चतुर्थेऽङ्के प्रदर्शिता वृष-
सेनवधवर्णनशैली तु नैव कुत्राप्यन्यत्र दृग्गोचरीभवति ।
'कार्यो निर्वहणेऽद्भुत'इति वचनानुकूलेन षष्ठेऽङ्के राक्षसमागमनेनाद्-
भुतरसवर्णनं कीदृक् चमत्कारी जानन्त्येव विद्वांसः ।
कवेरस्य विस्तृतविषयस्यापि मितार्थतता प्रतिपादनशक्तौ तु महाभारतीय-
भीष्मादिपर्वचतुष्टयस्य कथायाः सन्निवेश एव परमं प्रमाणम् ।
सर्वाङ्गसुन्दरेऽस्मिन्नाटके व्याख्याविरचने प्राप्तपाण्डित्यप्रकर्षः को नाम न
प्रवर्तेत स्वस्यामोदाय, अध्येतॄणामुपकाराय च ? यद्यपि साम्प्रतमत्र टीकात्रय-
मुपलभ्यते । एका वाम्बेमुद्रणालये प्रकाशिता, द्वितीया कलिकातामुद्रणालये,
तृतीया वाराणस्याम् । परं ताः कथं न छात्रान् सन्तोषयन्तीति विदितमेव भव-
द्भिर्विद्वद्भिः । कापि टिप्पणीपदेनैव व्यवह्रियते । कस्यामपि यस्य कस्यचित्
पदस्य व्याख्यानमेवास्ति । कापि सुलभस्थले विस्तृतापि मर्मस्थले मौनमेवा-
वलम्बिता । अथवाऽस्पष्टशब्देनैव संवलितेति तासु कापि ग्रन्थस्य निगूढभावं
प्रकटयन्ती परीक्षापारावारपारं छात्रान्नेतुं न समर्थेति निःशङ्कं शक्यते
वक्तुम् । अलङ्कारालङ्कृतत्वाभावोऽप्यासु टीकासु महती त्रुटिरित्यतः प्रकृत-