सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 8, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 8

[ ७ ]
टीकाकारः सर्वान् विषयान् सरलतया सन्निवेशयन् ग्रन्थस्याभिप्रायं मृदुशब्दे
समुपपादयन् ग्रन्थस्य काठिन्यं सुदूरं समुदक्षिपदिति मन्यामहे वयम् । अपरा
चात्र प्रकाशनाम्नी हिन्दीटीकाऽपि विलसति । यस्याः सन्निवेशेन सुकोमल-
मतयोऽपि छात्रा नेषदप्यर्थावगमक्लेशमनुभविष्यन्ति ।
कविकुलमूर्द्धन्योऽयं कस्मिन् समये कं देशं कं वंशं स्वजनुषा भूषयाञ्चकारे-
त्यस्मिन् विषये दृढतरप्रमाणमनासाद्य विषीदन्ति मे मनांसि ।
केचन मन्यन्ते—द्विजोत्तमोऽयं गुप्तराज्यकाले- ( ४०० ) चतुर्थख्रिष्टीय-
शताब्द्यां प्रादुर्बभूव । केचित्तु काव्यालङ्कारसूत्रस्य काशिकायाश्च प्रणेतु-
र्भट्टवामनात्प्राचीनोऽयं ( ५०० ई० ) पञ्चम्यां वा ( ६०० ई० ) षष्ठ्यां वा
ख्रिष्टाब्द्यां जननमासादयामास । भट्टवामनस्य समयश्च ( ७०० ई० )
सप्तमख्रिष्टाब्द्या अन्तः वेल्वल्करमहाशयेन निर्णीतः । भट्टवामनात्प्राचीनो
भट्टनारायण इत्यत्र भट्टवामनस्य ग्रन्थे वेणीसंहारपद्यानामुल्लेख एव
प्रमाणमिति ।
--परमानन्दशास्त्री