सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 6, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 6

भूमिका
विद्यावाचस्पति, श्री० पं० परमानन्दशास्त्री
(प्रिंसिपल, राधाकृष्ण संस्कृत कालेज, खुर्जा)
अये ! विद्यावारिधिनिमज्जननिर्मलीकृतान्तःकरणाः तत्रभवन्तो विद्वांसः !
विदितवेदितव्या एव भवन्तो यत् कस्यापि न चेतो रञ्जयति कविसूक्तिः ? ।
तदुक्तं भामहेन—
धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिञ्च साधुकाव्यनिबन्धनम् ॥ इति ।
यस्य खलु मोक्षसाधनता वरीवर्त्ति तत्र किं वक्तव्यमन्यदुपयोगित्वं,
मोक्षावाप्तिश्च ब्रह्मज्ञानादेवेत्यविवादम् । काव्यस्य ब्रह्मरूपत्वम्—
यदेतद्वाङ्मयं विश्वमर्थमूर्त्या विवर्त्तते ।
सोऽस्मि काव्यपुमानम्ब पादौ वन्देय तावकौ ॥ इति ।
स्पष्टमेव जगतः काव्यविवर्त्तत्वं प्रतिपादयन् प्रत्याययति । एतावता
जगतः काव्यविवर्त्तत्वप्राप्तावपि काव्यस्य ब्रह्मरूपत्वं कथमिति तु नाशङ्कनी-
यम् । 'जन्माद्यस्य यतः' ( ब्र० सू० अ० १ पा० १ सू० २ ) इति सूत्रेण जगतः
कारणस्यैव ब्रह्मत्वप्रतिपादनात् । सिद्धे चास्य ब्रह्मत्वे—
न स शब्दो न तद्वाच्यं न स न्यायो न सा कला ।
जायते यन्न काव्याङ्गम...................॥
इत्यपि साधु सङ्गच्छते ।
किन्तत्काव्यमिति प्रस्तुतायामस्यां टीकायामेव विराजत इति पुनरत्र
प्रदर्शनं पुनरुक्ततामेवापद्येत । तदेतत्काव्यं दृश्यश्रव्यत्वभेदेन द्विविधम् । यदुक्तं
दर्पणे—
दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् । इति ।
दृश्यकाव्यमेव रूपकादिशब्देन व्यवह्रियते । रूपकभेदश्च नाटकम् तदुक्तं तत्रैव—
दृश्यं तत्राभिनेयं तद्रूपारोपात्तु रूपकम् ।
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ॥ इति ।