सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

विषयेऽसंगे निष्कलचैतन्ये शशशृंगायमाना ऽविद्याहंकारादि-

( ९६ ) वेदान्तसार ।
( सं० टी० ) अखंडचैतन्यप्रतिपादकस्य तत्त्वमसीतिवा-
क्यस्यार्थं सप्रपंचमभिधायेदानीं यजुर्वेदानुभववाक्यार्थो वर्ण्य-
त इत्याह। अथाधुनेति ।गुरुमुखान्नवकृत्वःतत्त्वमस्यादिवा-
क्यश्रवणाद्देहाद्यहंकारान्तजडपदार्थसकलदृश्यविलक्षणप्रत्य-
गात्मनः शुद्धेन परमात्मना सहैकत्वबोधानंतरं कश्चिदधिका-
री लब्धावसरं सर्वोपाधिविनिर्मुक्तं सच्चिदानंदैकरसमनुभवेन जि-
ज्ञासुराचा र्योपदिष्टमहं ब्रह्मास्मीति वाक्यार्थमनुस्मरन् स्वात्मा-
नंदैकरसमनुभवतीत्यर्थः। तत्प्रकारमेवाह। एवमित्यादिना । एवं
संक्षेपेण । प्रमाणवक्ष्यमाणप्रकारेणाधिकारिणः चित्तवृत्तिरुदे-
तीति संबंधः । कदेत्यपेक्षायामाह । आचार्येणेति। आचार्येणा-
विषयेऽसंगे निष्कलचैतन्ये शशशृंगायमाना ऽविद्याहंकारादि-
शरीरांतं मिथ्यापदार्थमध्यारोप्य तदपवादपुरःसरं तत्त्वंपदार्थौ
शोधयित्वा तत्त्वमसीतिवाक्येन जहदजहल्लक्षणया विरुद्धांश-
परित्यागेनाखंडार्थचैतन्ये ज्ञाते सतीत्यर्थः । किंविषयिणी-
चित्तवृत्तिरुदेतीत्याशंकां निवारयति । अहमिति । अहं प्रत्य-
गात्मा परं ब्रह्मास्मीत्यन्वयः । ब्रह्मानित्यत्वशंकां निराकरो-
ति । नित्येति । शुद्धपदेनाऽविद्यादिदोषराहित्यं बुद्धपदेन स्व-
प्रकाशस्वरूपत्वं मुक्तपदेन सर्वोपाधिराहित्यं सत्यपदेनाविना-
शित्वभावत्वंपरमानंदपदेनवैषयिकमनुष्यानंदादिचतुर्मुखब्रह्मा-
नंदपर्यन्तानांकर्मजन्यत्वेनसातिशयत्वेन क्षयिष्णुत्वेन च तुच्छ
त्वात्तेभ्यो विलक्षणं निरतिशयानंदस्वरूपत्वं प्रतिपाद्यते अ-

संस्कृतटीका-भाषाटीकासमेत । (९७)
नंतपदेन घटादिवत्परिच्छेदरहित्येन देशतः कालतो वस्तुतश्चा-
परिच्छिन्नत्वं बोध्यते । अद्वयमिति । नानात्वनिषेधेन एक-
त्वं बोध्यत इत्यर्थः । ननु यथा दीपप्रभादित्यमंडलं न व्या-
प्नोति न च प्रयोजनमस्ति तथा नित्यशुद्धस्वप्रकाशमात्मानं
जडचित्तवृत्तिरेकं विषयीकृत्योदेति । किं प्रयोजनं चेत्याशं-
क्याह । सात्विति । सा चित्तवृत्तिर्न शुद्धब्रह्मविषयिणी किंत्व-
ज्ञानविशिष्टप्रत्यगभिन्नपरब्रह्मविषयिणी सा च चैतन्यप्रतिबिं-
बसंवलिता सती चैतन्यगतमज्ञानं निवर्तयति तस्याः चैत-
न्यावरका न निवृत्तिरेव प्रयोजनमित्यर्थः । नन्व-
धिकारिणः तत्त्वमस्यादिवाक्यश्रवणोत्पन्नाऽखंडचैतन्यवृत्त्या
तदाश्रिताज्ञाननिवारितेपि तत्कार्यस्य सकलचराचरात्मकप्र-
पंचस्य प्रत्यक्षतया भासमानत्वात्कथमद्वैतसिद्धिरित्याशंक्य
कारणाज्ञाननाशे तत्कार्यसकलप्रपंचनाशादद्वैतसिद्धिरित्येत-
त्सदृष्टांतमाह । यथेति । नन्वज्ञाननाशे तत्कार्यप्रपंचस्य ना-
शोस्तु तथाप्यखंडाकारचित्तवृत्तेरनिवृत्तेरद्वैतहानिरित्याशंक्या
ह । तदंतर्भूतेति । अखंडाकारवृत्तेरपि अज्ञानतत्कार्यान्त-
र्भूतत्वाच्चित्तवृत्त्यातान्निवृत्तेर्नाद्वैतहानिरित्यर्थः ॥ ८५ ॥
(भा०टी) अब 'अहं ब्रह्मास्मि' इस अनुभववाक्यका
अर्थ लिखतेहैं।आचार्य्य पहले कहे हुए अध्यारोप और अप-
वाद न्यायके द्वारा "तत्"और "त्वम्"इन दोनों पदोंके अर्थ
का शोधन करके जिस समय " तत्त्वमसि " इस वाक्य द्वारा
५