उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
by महाकवि भवभूति / पं. रामचन्द्र मिश्र
Page 53 of 439
Read in context३४ उत्तररामचरितं [२-३
वनदेवता—यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्रा-
चेतसमृषिं ब्रह्मपारायणायोपासते तत्कोऽयमार्याया दीर्घप्रवासप्रयासः ।
आत्रेयी—तत्र महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासोऽङ्गीकृतः ।
वनदेवता—कीदृशः ।
आत्रेयी—तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्त-
न्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । सत्तत्खलु न केवलं-
रूपीणामपि तु चराचराणां भूतानामान्तराणि तत्त्वान्युपस्नेहयति ।
वनदेवता—अपि तयोर्नामसंविज्ञानमस्ति ।
आत्रेयी—तयैव किल देवतया तयोः कुशलावाविति नामनी प्रभा-
वश्चाख्यातः ।
वनदेवता—कीदृश प्रभावः ।
आत्रेयी—तयोः किल सरहस्यानि जृम्भकास्त्राण्याजन्मसिद्धानीति ।
वनदेवता—अहो नु भोश्चित्रमेतत् ।
आत्रेयी—तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ
बोध्यम् । प्राचेतसं वाल्मीकिम् । उपासने उपासनां कुर्वन्ति । तदिति
ततस्तदा इति च पाठेऽपि तस्मादित्येवार्थः । यमेति ध्वनिः । प्रत्यूहः विघ्नः ।
दीर्घप्रवास इति ध्वनिः । तत्रभगवतः वाल्मीकेः । देवताविशेषेण ।
गङ्गयेत्यर्थः । इदं च तृतीयाङ्कविष्कम्भे स्पष्टीभविष्यति । 'प्रकारो लक्षणेऽपि च'
इति यादवः । स्तनयोः त्यागमात्रं यस्मिन् वयसि । 'वारस्यं मत्रिङर-
धारणे' इत्यमरः । मात्रक इति स्वार्थे कः । अत एव 'उपनामादिपुण्डकः' इति
चतुर्वर्गः । 'सगोत्रकं' इति च अमरसिंहेनोक्तम् । दारकौ पुत्रौ । उप-
नीतं समीपे आनीतमिति यावत् । समीपे तत्रभवत इति पूर्वेणान्वयः । अपि
तु किन्तु इत्यर्थः । भूतानां प्राणिनाम् । आन्तराणि बाह्येत्तराणि । नत्त्वानि
करणानि अङ्गानि वा । तथा च अन्त करणानि अन्तरङ्गानि नैवर्थः ॥ 'तत्त्वं
तु करणादियो' इति संसारावर्त्तः । स्नेहयुक्तानि करोति स्नेहयति । 'विके
सज्ञानं' इति नामनिधानम् । 'रहस्यं तु मन्त्रे च' इति केन्दारः । अति भृशम् ।
चित्रं आश्चर्यम् ॥ 'अत्यतीवातीवतराम्' इति विरूपः । हिसब्दो वाक्यालङ्कारे ।
भो इति स्वमन प्रति सुबोधनम् । 'संबोधने तु हे है भोः' इति रत्नमाला ।
१ 'केवल तस्य अपि तु तिरश्चामप्यन्त करणानि तत्त्वानि' न. २ 'कर्मतः
सुत' ब, 'कर्म प्रस्तुत' ध-क.