सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 52, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 52

२-३ ] उत्तररामचरितं ३३
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥ २ ॥
( उपविशतः । )
वनदेवता—कां पुनरत्रभवनामवगच्छामि ।
तापसी—आत्रेयीमस्मि ।
वनदेवता—आर्ये आत्रेयि कुतः पुनरिहागम्यते । किमप्रयोजनो वा द-
ण्डकारण्यप्रवेशः ।
आत्रेयी—अस्मिन्नगस्त्यप्रमुखाः प्रदेशे
भूयांस उद्गीथविदो वसन्ति ।
तेभ्योऽधिगन्तुं निगमान्तविद्यां
वाल्मीकिपार्श्वादिह पर्यटामि ॥ ३ ॥
जयन्त्यमरो । 'मर्यादाचरणे वृत्ति ' इति नामनिधानम् । नियमः व्रतम् ।
प्रकृत्या स्वभावेन । अनवगीतः अनिन्द्यः । अविपर्यासितः असञ्जात-
विपर्ययः । रसः प्रीतिः अनिर्विशेषा वा यस्मिन् । अनुपधि अकैटवम् ।
विशेषेण शुद्धम् । तदिदं रहस्यम् । 'विपर्यासो वैपरीत्ये' इति, 'प्रीताव-
निर्विशेषे च रस' इति, 'रहस्योपांशु चाऽह्ने रहस्यं तद्द्वये त्रिषु' इति च कोश-
चमेदिन्यमराः ॥ २ ॥ आत्रेयी अत्रेः शिष्या गोत्रोद्भवा वा । न कापि
विप्रतिपत्तिः । पुनः यावदाल्द्वारे । किं प्रयोजनं यस्मिन् प्रवेशे सः किम-
योजनः । अस्मिन्नगस्त्य इति ॥ ३ ॥ भूयांस उद्गीथेति सन्धिकर्षदुष्ट
रुचिदोषवदनुग्राह्यम् । अत एव 'आये ऽने इलपि' इत्यलग्नाव्याख्यातभार-
चम्पौ । उद्गीथो नाम साम्नो द्वितीया भक्तिः । तद्विद इत्यर्थः । 'ओमि-
त्येतदक्षर मुद्गीथमुपासीत' इति छान्दोग्ये । अधिगन्तुं प्राप्तुम् । निग-
मान्तः वेदान्तः । पर्यटामि सचरामि ॥ यद्वा दक्षादिति च पाठः । पु-
राणं पुरातनं च तद् ग्रहोति पुराणेषु यष्टव्य वा तद्ग्राहीति कश्चिदाह तन
मवलास्लेऽनुग्राह्यं यति वाल्मीकिमधिकृत्य पुरा०ब्रह्मवादीति कथनस्तामो-
चिलात् । तथाऽनुग्राह्यत्वं रामाय कृतधनुर्धपणप्रसाद्य 'ततो युद्धपरिश्रान्तं'
इत्यादिनापोह्यवतो भगवतोऽगस्त्यस्याश्रमवर्णने हृदयवसतेरपास्यपादाम्बु-
शिवस्य स्थाने विग दिव्यो स्थाने इति रिज्वारिस्थानाना व्यवस्थापितत्वेन
रामायणे सुप्रसिद्धम् । प्रकृते कथाप्रबन्वाय कविना वाल्मीकिप्रस्तावः कृत इति
१ 'प्रचारः' क-व, 'रण्दोपवनप्रचारः' ग, 'किं प्रयोजन वा दण्डका-
रण्यप्रवेशस्य' घ.