Skip to content
SarvaKosh
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

by महाकवि भवभूति / पं. रामचन्द्र मिश्र

DevanagariSanskritpublished439 pages

Page 54 of 439

Read in context
Page 54

२–४] उत्तररामचरितं ३५
रक्षितौ च। निर्वृत्तचौलकर्मणोश्च तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः साव-
धानेन परिनिष्ठापिताः। समनन्तरं च गर्भैकादशे वर्षे क्षात्रेण कल्पेनोपनीय
च्छन्दसा त्रयीविद्यामध्यापितौ। न ह्येताभ्यामतिप्रदीप्तप्रज्ञामेधाभ्यामस्मद्भादेः
सहाध्ययनयोगोऽस्ति। यतः।
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।
भवति च तयोर्भूयान्भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥ ४ ॥
वनदेवता—अयमसावध्ययनप्रत्यूहः।
आत्रेयी—अपरश्च।
वनदेवता—अथापरः कः।
आत्रेयी—अथ स महर्षिरेकदा माध्यन्दिनसवनाय नदीं तमसामनु-
प्रपन्नः। स च युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन विध्यमानं ददर्श। आक-
स्मिकप्रत्यवभासां च देवीं वाचमव्यतिकीर्णामानुष्टुभेन च्छन्दसा परिणताम-
न्वुदैरयत्।
धात्रीकर्मतः उपमातृत्वादतो। अग्रपानादिभिः पोषितौ हिंस्रजन्तुभ्यो
रक्षितावित्यर्थः। त्रयी वेदत्रयी वर्ज्या यस्मिन् कर्मणि तत् त्रयीवर्ज्यं यथा
तथा। तिस्रो विद्याः अक्षराभ्यासः, गुरुलीविहारः, वाहनानुपशिक्षा चेति।
परिनिष्ठापिताः परि परितः, निष्ठा विधानादन्तं प्रापिता इत्यर्थः। 'निष्ठा
निष्पत्तिनाशान्तः' इत्यमरः। दीप्ता प्रकाशः। योगः सुयतिः युक्तियां ॥
वितरति गुरुरिति ॥ ४ ॥ तयोः प्राज्ञजडयोः। फले सिद्धिम्। प्रति
उद्दिश्य। तदेवोपपादयति—तद्यथेति ॥ शुचिः निर्मलः। 'बिम्बमा-
कृतौ' इति हैमः। मणिः दर्पणः। आदिशब्देन काष्ठादीनि गृह्यन्ते। अत्र
तुहिशब्दौ पादपूरणौ। हि प्रसिद्धामिति वैचित् ॥ ४ ॥ तमसा नदीविशेषः।
तत्र तमसायाम्। तमसातीरे इति यावत्। गङ्गाया घोष इत्यादीवदत्राम्।
युग्मेन द्वन्द्वेन चरतोः युग्मचारिणोः। अकस्मात् अनशात् भवः आक-
स्मिकः। प्रत्यवभासः स्फूर्तिः यस्याः ताम्। अव्यतिकीर्णां विशेषेणान-
ङ्गीर्णाम्। सुविभक्तामित्यर्थः। शय्यासन्दर्भादिभिः प्रगन्नामिति यावत्।
१ 'स्तनपूतौ च प्रयो०' प; 'वृत्तशौचकर्मणोश्च तयोरप्यौ०' प. २ 'परेषा-
नेनी' घ. ३ 'तदनन्तरं भगवतैकादशे' न. ४ 'पुनर्' इति न-क. ५ 'बिम्बोद्ग्राहे'
इ-घ. ६ 'दृशं दधः' क-घ-घ. ७ एतन्नास्ति म-पुस्तके, 'वीणेशरणांम्' क-घ.