सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 51, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 51

३२ उत्तररामचरितं [२-२
॥ द्वितीयोऽङ्कः ॥
नेपथ्ये । स्वागतं तपोधनाया ।
( ततः प्रविशत्यध्वगवेषा तापसी । )
तापसी-अये वनदेवतेय फलकुसुमगर्भैण पल्लवार्घेण १रान्मामु-
पतिष्ठते ।
प्रविश्य । वनदेवता-( अर्घ्यं विकीर्य २ । )
यथेच्छं भोग्यं वो वनमिदमयं मे सुदिवस
सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति ।
तरुच्छाया तोयं यदपि तपसो योग्यमशनं
फलं वा मूलं वा तदपि न पराधीनमिह वः ॥ १ ॥
तापसी-किमत्रोच्यते-
प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।
अथ द्वितीयोऽङ्कः ॥ अथ भूत भवद्भाविष्यद्विशिष्टकथोपक्षेपेण द्वितीयाङ्कार्थं
क्रोडीकरिष्यन् कविः शुद्धविष्कम्भं प्रस्तम्भाणः, 'नासूचितस्य पात्रस्य प्रवेशो
निर्गमोऽपि च' इति लक्षणादुपयुक्तपात्रप्रयुक्तवेश परम्परासम्बन्धेन सूचयति-
नेपथ्ये इति ॥ स्वागतमिति-वासन्तीनाम्ना वनदेवतया कृतः प्रश्न इत्यु-
द्ग्राहेश वासन्ती त्वमिति कविनाऽग्रे वक्ष्यते । तपोधनेति तापसीति च एक-
मेव पात्रम् । 'तापसस्तु तपोधन' इति विक्रमाकंः । फलकुसुमानि गर्भे
मध्यभागे यस्य । सीताराम इतिवत् पल्लवयुक्तमर्घ्यं पल्लवार्घ्यम् तेनेत्यर्थः ॥
'फलमूलपुष्पाद्य तापसेष्वर्घ्यमाहरेत्' इति स्मरणात् । 'निवर्धमर्घाऽर्घे
इत्यमरः ॥ यथेच्छामोग्यमिति ॥ १ ॥ यथेच्छं आसमन्ताद् भोक्तुं योग्यं
यथेच्छामोग्यम् । वः इति पूजायां बहुवचनम् । सतां सद्मिरिति-सत्यश्च
सन्तश्च सन्तः तेषां सताम् । तैः सद्भिः साधुभिरित्यर्थः । प्रकृते सत्या मम
सत्या त्वया सङ्गः सहवास इत्युक्तम् ॥ 'जात्यर्थे स्यात्कथमपि' इति नाम
माला । न पराधीनमिति स्वाधीनमित्यर्थः । अपिरेषोऽधिकः पश्चाधिक इति
केचित् ॥ १ ॥ अत्र सत्तावती । प्रियप्राया वृत्तिरिति ॥ २ ॥ प्रियस्य
इष्टवस्तुनः प्रायः आधिक्यं यस्या सा । 'प्रियमिष्ट' इति 'प्रायो भूम्नि' इति चै-
१ 'फलकुसुमपल्लवार्घेण माम्' व-घ-क. २ 'विकीर्य' इति न. ३ 'यथे
च्छामोग्यम्' ग ४ 'विनयमत्तुल' व.