सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
About this granth
Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.
The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.
At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.
असतीचरित्रम्, वेश्यागर्हणम्, अष्टनायिकाः
३५५
[पान्थागमः]
पान्थागमः। निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे
घनघनागमे घनरसस्य¹ पारं व्रज ॥ ८१ ॥
वाणिज्येन² गतः स मे गृहपति³र्वार्तापि न श्रूयते प्रातस्त-
ज्जननी प्रसूततनया जामातृगेहं गता । बालाहं नव-
यौवना निशि कथं स्थातव्यमस्मिन्गृहे सायं संप्रति वर्तते
पथिक हे स्थानान्तरं गम्यताम् ॥ ८२ ॥
रे रे पान्थ कुतो भवाङ्नगरतो वार्ता न चापि श्रुता ब्रूहि ब्रूहि युवा पयोद-⁵
समये हित्वा प्रियां जीवति । सत्यं⁴ जीवति जीवतीति
कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः
किं किं न सम्भाव्यते ॥ ८३ ॥
शून्यं वेश्म चिरायितो⁶
गृहपतिर्जाताधुना शर्वरी स्थातुं नोचितमत्र गच्छ निभृतं
लोकैरनालक्षितः⁷ । इत्थं लोलदृशा ह्यसावभिहितो दासीमुखे-
नाध्वगः स्थित्वा किंचिदिव क्व यामि रजनी प्राप्तेत्युदीर्य⁸
स्थितः ॥ ८४ ॥
क्षन्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि⁹
त्वया स्यादेव यदि नाथ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३५६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

विलोकयति मामेतावदागः सखि ॥ ४ ॥ वक्रस्याधरपल्लवस्य वचसो हासस्य लास्यस्य वा धन्यानामरविन्दसुन्दरदृशा कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथ चेतःपथं क्वप्यथं काप्यान्त्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः ॥ ५ ॥ स्वीया सन्ति गृहे गृहे मृगदृशो यासा विलासकणकाञ्चीकुण्डलहेमकङ्कणझणत्कारो न विश्राम्यति । को हेतुः सखि कानने पुरपथे सौधे सखीसन्निधौ भ्राम्यन्ती मम वल्लभस्य परितो दृष्टिर्न मा मुञ्चति ॥ ६ ॥ सन्त्येव प्रतिमन्दिर युवतयो यासा सुधासागरस्रोतःस्यूतसरोजसुन्दरचमत्कारा दृशोर्विभ्रमाः । चित्रं किं तु विचित्रमन्मथकलावैशद्यहेतोः पुनर्विश्वं चित्तहर प्रयच्छति युवा मय्येव किं कारणम् ॥ ७ ॥ एतत्किं प्रणयिन्यपि प्रणयिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किञ्चिद्विशिष्टं रसात् । वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टनायिकाः ३५७
बद्धं दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयो-
र्मूकता । आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे
चण्डालस्तिमिरवगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ३० ॥ एषा
फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तास्यालयमागता
समदना दृष्टा जलाद्रीलका । विद्युद्वारिदगर्जिते मचकिता
त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती
स्थिता ॥ ३१ ॥ मार्गे पङ्कचिते घनान्धतमसे निःशब्द-
सञ्चारया गन्तव्या च मया प्रियस्य वसतिर्मुग्धेति कृत्वा
मतिम् । आजानुद्रुतनूनपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छ्रे-
णास्पदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ३२ ॥
छिद्रान्वेषणतत्पर. प्रियसखि प्रायेण लोकोऽधुना रात्रिश्वापि
घनान्धकारबहुला गन्तुं न ते युज्यते । मा भैष सखि
वल्लभ. प्रियतमस्तत्सोत्सुका दर्शने युक्तायुक्तविचारणा यदि
भवेत्स्नेहाय दत्त जलम् ॥ ३३ ॥ दूती विद्युदुपागता सह-
चरी रात्रिः सहश्यायिनी दैवज्ञो दिशति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भवत्येव क्रोधः क्वचिदपि कदाचित्चरणयोः । दहेदङ्गं भङ्गी विधुरपि विदध्यात्वरिमवं खरो मा मथ्नीयादिति किमपि नाज्ञासिषमहम् ॥ ५५ ॥ आनन्द क्वचिदश्व मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेय केति विचार्यता रसिक ते निर्याहि पर्याकुला । रक्ताम्भोजपरीतषट्पदपदपक्षोपमानक्षमक्षुभ्यत्पक्ष्मचलाचलेक्षणयुग पश्यामि तस्या मुखम् ॥५६॥ मानम्लानमना मनागपि नतं नालोकते वल्लभं निर्याते दयिते निरन्तरमियं बाला पर तप्यते । आनीते रमणे बलात्परिजनैर्मौनं समालम्बते धत्ते कण्ठगतानसूनियतमै निर्गन्तुकामे पुनः ॥५७॥ आयस्ता कलहं पुरेव कुरुते न संसने वाससो भुग्नभ्रूरतिकण्व्यमानमधरं धत्ते न केशग्रहे । अङ्गान्र्यर्पयति स्वय भवति नो वामा हठाल्लिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥ ५८ ॥ एकत्रानसनस्थितिः परिहृता प्रत्युद्गमादूरतास्ताम्बूलानयनच्छलेन रमसाश्लेषोऽपि सविघ्नितः । आलापोऽपि न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअष्टनायिकाः ३५९
योजिते ॥ ७८ ॥ आलिभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितम् । न्यस्ता. कितु नवोढनीरषदृशा कुञ्जोपकण्ठे रुषा तादृग्भृङ्कदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥ ७९ ॥
प्रोषितभर्तृका
अर्पयति प्रतिदिवस प्रियस्य पथि लोचने बाला ।
निक्षिपति कमलमाला. कोमलमिब कर्तुमध्वानम् ॥ ८० ॥
आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणय-
निहवमाचरन्ती। तत्रैव रङ्गनयना नयनारविन्दमस्पन्दमाहित-
वती दयिते गतेऽपि ॥ ८१ ॥ विरहविदितमन्तः प्रेम
विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति ।
मरिचनियममक्ष्णोर्न्यस्य बाष्पोदबिन्दून्विसृजति पुरतोऽधिद्वार-
देशोपविष्टा ॥ ८२ ॥ ता जानीथा. परिमितकथा
जीवितं मे द्वितीय दूरीभूते मयि सहचरे चक्रवाकीमिवै-
काम् । गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बाला
जाता मन्ये शिशिरमथिता पद्मिनी वान्यरूपाम् ॥ ८३ ॥
माला बालाम्वुजदलसमी मौक्तिकी हारयष्टि. काञ्ची
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३६० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

श्चन्दनबिन्दुभिर्मनसिजो देवः समाराधितः । नीता जागरण-
व्रतेन रजनी क्रीडा कृता दक्षिणा तसं किं न तपस्तथापि
स कथं नायाति नेत्रातिथिः ॥ १०३ ॥
वीररसनिर्देशः
भर्तृपिण्डानृणकरो यशः क्रयमहापणः । सुराङ्गनास्वय-
ग्राहो रम्यः कालोऽयमागतः ॥ १ ॥ प्रायेण सुकरं दानं
प्रायेण सुकर तपः । प्राणानपेक्षी व्यापारः पुनर्वीरस्य दुष्करः
॥ २ ॥ मा मैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
एते वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥ ३ ॥
खड्गास्तिष्ठन्तु मत्तेभकुम्भकूटाट्टहासिनः । एकदोर्दण्ड-
शेषेऽपि कः सहेत पराभवम् ॥ ४ ॥ हतेऽभिमन्यौ क्रुद्धेन
तत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा
जयद्रथः ॥ ५ ॥ लोहितायति चादित्ये त्वरमाणो धन-
ञ्जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ६ ॥
रथेभ्यो गजवाजिभ्यः सङ्ग्रामे वीरसकराः । पातिताः पात्य-
मानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ ७ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| वीररसनिर्देशः, करुणरसनिर्देशः | ३६१ |

| वतो रेणुकाकण्ठबाधा बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ ३४ ॥ अङ्गैः स्वैरपि सयताग्रचरणे मूर्च्छाविरामक्षणे स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्णयन् । भग्नानुद्बलयन्निजान् परभटांस्तर्जयन्निष्ठुरं धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥ ३५ ॥ जन्मेन्दोरमले कुले व्यपदिशंश्चापि धत्से गदा मा दुःशासनकोष्णशोणितसुराक्षीबं रिपु भाषसे । दर्पान्धो मधुकैटभद्विषि हरावप्युद्धत चेष्टसे मत्रासात्त्रपशो विहाय समर पङ्केऽधुना लीयसे ॥ ३६ ॥ वीरोऽसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं यः पूजाञ्जलिमत्सुको घटयितुं देवस्य खद्वाङ्गिनः । सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणा-योधतः साटोपं प्रमथैः कृतभ्रुकुटिभिः स्थित्वान्तरे वारितः ॥ ३७ ॥ संतुष्टे तिसृणा पुरामपि रिपौ कण्डूलदोर्मण्डल-क्रीडाकृत्पुनःप्ररूढशिरसो वीरस्य लिप्सोर्वरम् । याच्ञादैन्य-पराङ्कि यस्य कलहायन्ते मिथस्त्वं वृणु |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३६२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

निर्वाणम् ॥ ९ ॥ वत्स गच्छ मम वाचिकमेतद्रामचन्द्रचरणे कथयेथाः । आवयोरिव भवेदतुरागो नावयोरिव विधिः प्रतिकूलः ॥ १० ॥ शैशवात्प्रभृति योषिता प्रियेः सौहृदादपृथगाशया प्रियाम् । छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव ॥ ११ ॥ शीलानि ते चन्दनशीतलानि श्रुतानि भूमीतलविश्रुतानि । तथापि जीर्णौ पितरावतस्मिन्विहाय हा वत्स कथं प्रयासि ॥ १२ ॥ वनी मुनीनामटवी तरूणा दरी गिरीणां तु गवेषितैव । अतः परं लक्ष्मण पक्ष्मलाक्षीं प्राणा बहिर्भूय गवेषयन्तु ॥ १३ ॥ अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ १४ ॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वा बत किं न मे हतम् ॥ १५ ॥ अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया । तदिहानपराधिने प्रिये सखि कोऽयं करणोज्झितक्रमः ॥ १६ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकरुणरसनिर्देशः, अद्भुतरसनिर्देशः, हास्यरसनिर्देशः | ३६३
त्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठस्तम्भित-
बाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम ताव-
दीदृशमपि स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं न
तनयाविश्लेषदुःखैर्नवैः ॥ ३८ ॥ पातुं न प्रथमं व्यवस्यति
जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवता स्नेहेन
या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्यु-
त्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्
॥ ३९ ॥ या केलिच्युतकेशलेशविषमा शय्या न भेजे पुरा
या जालान्तरनिर्गतार्ककिरणद्योतादपि म्लायते । सेयं निष्ठुर-
काष्ठसंचितचिता देदीप्यमानानला सस्रेरा भजते यदि
प्रियमुलं स्नेहस्य किं दुष्करम् ॥ ४० ॥ ध्वस्तः काव्योरु-
मेरुः कविविपणिमहारत्नराशिनिवेशीर्णः शुष्कः शब्दौघसिन्धु.
प्रलयमुपगतो वाक्यमाणिक्यकोशः । दिव्योक्तीना निधानं
निधनमुपगत हा हता दिव्यवाणी बाणे गीर्वाणवाणी-
प्रणयिनि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
दुर्बुद्धे मा प्राणेषु दया कुरु । दुर्लभानि परानानि प्राणा जन्मनि जन्मनि ॥ २ ॥ विना मद्यं विना मांसं परस्वहरणं विना । विना परापकारेण ^१दिविरो दिवि रोदिति ॥ ३ ॥ पूर्वं चेटी ततो बेटी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा वेश्या तपस्विनी ॥ ४ ॥ यदक्षिभ्रूलतापाङ्गैः स्त्रियः कुर्वन्ति चापलम् । जघनेष्वेव तत्सर्वं पतत्यनपराधेषु ॥ ५ ॥ केशलोञ्चनसाम्येऽपि हन्त पश्यैतदन्तरम् । उपस्थाः कीटमश्नन्ति घृतभक्तं दिगम्बराः ॥ ६ ॥ सामगायनपूत मे नोच्छिष्टमधरं कुरु । उत्कण्ठितासि चेद्भद्रे वामं कर्णं दशस्व मे ॥ ७ ॥ भस्माङ्गुलिर्बकोड्डीयी बालशौची तथा हिहिः । धारावतीं चक्रवर्ती षडेते पुरुषाधमाः ॥ ८ ॥ प्रेषकः प्रैष्यकः काण्डः किमेकः स्तम्भलीनकः । योगी तत्कालरोगी च षडेते सेवकाधमाः ॥ ९ ॥ आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ॥ १० ॥ गताः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| हास्यरसनिर्देशः, भयानकरसनिर्देशः | ३६५ |

विष्णुशर्मा ॥ ४३ ॥ गौरी तनुर्नयनमायतमुन्नता च नामा कृशा कटितटी व पटी विचित्रा । अङ्गानि रोमरहितानि सुखाय भर्तु पुच्छं न तुच्छमिति कुत्र ममस्त्ववस्तु ॥ ४४ ॥ आपाण्डुरा शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषाद । एणीदृशो युवतय पथि मा विलोक्य तातेति भाषणपरा. खलु वज्रपात ॥ ४५ ॥ कटी मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदर स्तनौ घण्टालोलौ जघनमधिगन्तुं व्यवसितौ । क्षितं मेरीनादो सुखमपि च यत्तद्व्र्यकर तथाप्येषा रण्डा परिभवति सतापयति च ॥ ४६ ॥ एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निंवार. । शेष. शय्या शयनमुदधौ वाहन पन्नगारिः स्मारं स्मारं स्वगृहचरित दारुभूतो मुरारि. ॥ ४७ ॥ गत्वा द्वारवती नयामि दिवसानाराधयन्ती हरिं त्यक्त्वा वाडनशनेन जीवितमिदं मुञ्चामि भागीरथीम् । प्रात. प्रातरिति प्रवर्तितकथा निर्वेदमातन्वती रण्डा नक्तमनन्तजारसुरतप्रीता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३६६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् ] |

| वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ११ ॥ माध्यन्मातङ्गकुम्भस्थलबहुलवसावासनाविस्रगन्धव्यासक्तव्यक्तमुक्ताफलशकललसत्केसग्लीकरालः । एणीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा गुञ्जन्कुञ्जे गिरीणां हरिरिह शबरीगर्भपातं विधत्ते ॥ १२ ॥ मन्थायस्तार्णवाम्भःप्रतिकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥१३॥ निर्मज्जच्चक्षुरन्तर्भमदतिकपिलक्रूरतारो नरास्थिग्रन्थिं दन्तान्तरालप्रथितमविरतं जिह्वया घट्टयन्ती । ध्वान्तेऽपि व्यात्तवक्त्रे ज्वलदनलशिखाजर्जरे व्यक्तकर्मा निर्मान्ती गृध्ररौद्री दिवसुपरि परिक्रीडते ताडकेयम् ॥ १४ ॥

### बीभत्सरसनिर्देशः
प्रस्वेदमलदिग्धेन वहता मूत्रशोणितम् । व्रणेन विकृतेनेदं सर्वमन्वीकृतं जगत् ॥ १ ॥ विकीर्णहरिचन्दनद्रविणि यत्र लीलालसा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inरौद्ररसनिर्देशः, शान्तरसनिर्देशः ३६७
| जिह्वालकालानलकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जग-
न्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ॥ १२ ॥ अन्योन्या-
स्फालभिन्नद्विपस्रुधिरवसामासमस्तिष्कपङ्के मग्नानां स्यन्दना-
नामुपरि कृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरस-
दशिवशिवातूर्यनृत्यत्कवन्धे सङ्ग्रामैकार्णवान्तः प्रविचरितु-
मलं पण्डिताः पाण्डुपुत्राः ॥ १३ ॥ रे धृष्टा धार्तराष्ट्राः
प्रबलभुजवृहत्ताण्डवाः पाण्डवा रे रे वार्ष्णेयाः सकृष्णाः
शृणुत मम वचो यद्ब्रवीम्यूर्ध्वबाहुः । एतत्सोलबातबाहो-
र्द्रुपदनृपसुतातार्पितः पापिनोऽहं पाता हृच्छोणितानां प्रम-
वति यदि वस्तत्किमेतं न पाथ ॥ १४ ॥ नाहं रक्षो न
भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकाशं विस्तीर्णोरुप्रतिज्ञा-
जलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्य-
वीराः समरशिखिशिखाभुक्तशेषाः कृतं वस्त्रासेनानेन लीनै-
र्हितकरितुरगान्तर्हितैरास्यते यत् ॥ १५ ॥ यो यः |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३६८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

तर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३२ ॥
दैन्यं क्वचित्क्वचन मन्मथजा विकाराः कुत्राप्यनेकविधबन्धुजनप्रपञ्चः । क्वापि प्रभुत्वधनकल्पितमीश्वरत्वमित्येकवैकृतमिदं जगदाविभाति ॥ ३३ ॥
आस्तामकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि नैव तृणाय मन्ये । निःशङ्कसुप्तहरिणीकुलसङ्कुलासु चेतः परं वलति शैलवनस्थलीषु ॥ ३४ ॥
ते तीक्ष्णदुर्जननिकारशरैर्न भिन्ना धीरास्त एव शमसौख्यमुजस्त एव । सीमन्तिनीभुजलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु ॥ ३५ ॥
बुद्धेर्गोचरतया न गिरां प्रचारो दूरे गुरुप्रथितवस्तुकथावतारः । तत्त्वं क्रमेण विदुषा करुणावदाते श्रद्धावता हृदि पदं स्वयमादधाति ॥ ३६ ॥
दधति तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मूढता । मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥ ३७ ॥
क्षणं बालो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशान्तरसनिर्देशः
३६९
दिवसान् ॥ ५७ ॥ कदा वा सैकते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् । अये राम स्वामिञ्जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५८ ॥ कदा वाराणस्याममरतटिनीरोधसि वसन्वसानः कौपीन शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५९ ॥ भू पर्यङ्को निजभुजलतागेन्दुकः खं वितानं दीपश्चन्द्रो विरतिवनितालब्धयोगप्रमोदः । दिक्कन्याना व्यजनपवनैर्वीज्यमानोऽनुकूलैर्भिक्षुः शेते नृप इव सदा वीतरागो जितात्मा ॥ ६० ॥ आस्सारातत्रिभुवनमिदं चिन्वता तात तादृङ्गो वाऽस्माकं नयनपदवी श्रोत्रवर्त्मागतो वा । योऽयं धत्ते विषयकरिणीगाढगूढाभिमानक्षीयत्स्वान्तःकरणकरिणः संयमानानलीलाम् ॥ ६१ ॥ आयुर्वायुव्यथितनलिनीपत्रमित्र किमन्यत्संपच्छम्पाद्युतिसहचरी खेरचारी कृतान्तः । कस्मादस्मिन्भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३७० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
वाराणसी ॥ ८१ ॥ क्षारस्मेरमदोन्मज्जत्कुचतटीकान्ताकरा-
न्दोलितैः पुष्पाम्भोनिचितैःशरीररचितैः किं तालवृन्तैर्भ्रम ।
अन्वानन्दवनं सुखं शिशयिषोरर्धप्रमीलदृशो यातायातरिप-
श्रमं शमयिता गङ्गातरङ्गानिलः ॥ ८२ ॥ एकद्वैः किम-
भावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च
किं त्रिचतुरा घोरा महाव्याधयः । सप्ताहैरल्मिदमेतदपि
नश्चेत. क्षणान्यञ्चपान्स्वान्मन्येव रमस्व तेजसि गते कालेऽथ
वा सर्वतः ॥ ८३ ॥ नित्यानित्यविचारणा प्रणयिनी वैराग्य-
मेक सुहृन्मित्राण्येव यमादय. शमदमप्राया. सखायो
मताः । मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा
बलादुच्छेद्या रिपवश्च मोहममतासंकल्पवैरादयः ॥ ८४ ॥
पुण्यैर्मूलफलैः प्रियप्रणयिनी वृत्ति कुरुष्वाधुना भूशय्या
नवपल्लवैः कुरु तृणैरृत्तिष्ठ यामो वने । क्षुद्राणामविवेकगूढ-
मनसा यत्रेश्वराणा सदा वित्तव्याध्यविवेककुलगिरा
नामापि न श्रूयते ॥ ८५ ॥ भस्मोद्धूलन भद्रमस्तु भवते
रुद्राक्षमाले शुभं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआन्तरसन्निवेशः ३७१
तल दिशोऽपि वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो
वद सखे कस्माद्वाय योगिन. ॥ १०३ ॥ सन्ध्या-
वन्दन भद्रमस्तु भवते भो स्नान तुभ्य नमो भो देवाः
पितरश्च तर्पणविधौ नाह क्षम. क्षम्यताम् । यत्र कापि
निषद्य यादवकुलोत्तमस्य कंसद्विषः स्मार स्मारमघं हरामि
तदलं मन्ये किमन्येन मे ॥ १०४ ॥ एणाक्षीस्पृहयालुना
न कथमप्यास्ते विवेकोदयान्नित्यं प्रच्युतिशङ्कया क्षणमपि
स्वर्गे न मोदामहे । आप्त्येयेषु विनाशिवन्तुविषयाभोगेषु
तृष्णा न मे स्वर्णद्याः पुलिने पर हरिपदध्याने मनो वा-
ञ्छति ॥ १०५ ॥ जानोऽह जनको ममेष जननी क्षेत्रं
कलत्र कुल पुत्रा मित्रमरातयो वसु बलं विद्या सुहृद्बा-
न्धवाः । चित्तस्पन्दितकल्पनामृतभवन्विद्वानविद्यामयी निद्रा-
मेत्य विघूर्णितो बहुविधान्स्वप्नानिमानपश्यति ॥ १०६ ॥
लाटीनेत्रपुटीपयोधरघटीक्रीडाकुटीदोस्तटीपाटीरद्रुमवर्णनेन
कविभिर्मूढैर्दिन नीयते । गोविन्देति जनार्दनेति जगता
नाथेति कृष्णेति च व्याहारै
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३७२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
व्रणी पूयक्लिन्नः कृमिकुलशतैराचिततनुः । क्षुधाक्षामो जीर्णः पिठरककपालाङ्कतगलः शुनीमन्वेति श्वा हतमपि निहन्त्येव मदनः ॥ १३२ ॥ श्रियो दोलालोला विषयजरसाः प्रान्तविरसा विपद्गेहं देहं महदपि धनं भूरि निधनम् । बृहच्छोको लोकः सततमबला दुःखबहुलास्तथाप्यस्मिन्संसारे पथि बत रता हन्त कुधियः ॥ १३३ ॥ समाश्लिष्यत्युच्चैर्घनपिशितपिण्डं स्तनधिया मुखं लालाक्लिन्नं पिबति चेषकं सौसवमिव । अमेध्येह्लादार्द्रे पथि च रमते स्पर्शरसिको महामोहान्धाना किमिव रमणीयं न भवति ॥ १३४ ॥ बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं परीरप्सते । का त्वामिच्छति का व पश्यति पशो मासास्थिनिर्मिर्मिता नारी वेद न किंचिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १३५ ॥ आस्य यस्या सुधांशुं कलयति नयनाभ्या जित पुंसमूहः कान्त्या विद्युत्कुचाभ्या तरुणजलरुहे निर्जितेऽस्या सुधाशुम् । कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशान्तरसनिर्देशः ३७३
चरता नराणा श्रियो न किंचिद्विपदो न किंचित् ॥ १६७ ॥
हरिष्यमाणो बहुधा परस्व करिष्यमाणः सुतसपदादि । धरिष्यमाणोऽरिशिरःसु पादं न स्वं मरिष्यन्तमवेति कोऽपि ॥ १६८ ॥
उत्तुङ्गवातायनगोपुराणि गृहाणि विद्धानि दुर- जिंतानि । क्षणादधःपातकराणि हन्त चितातिथेरस्य निर- र्थकानि ॥ १६९ ॥
मरण प्रकृतिः शरीरिणा विकृतिर्जीवन- मुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभ- वानसौ ॥ १७० ॥
क्षिपसि शुक वृषदशकरदने मृगमर्प- यसि मृगादनवदने । वितरसि तुरगं महिषविषाणे विदध- च्चेतो भोगविताने ॥ १७१ ॥
नलिनीदलगतजलमत्तितरलं तद्द्वजीवनमतिशयचपलम् । विद्धि व्याधिव्यालग्रस्तं लोक शोकहृतं च समस्तम् ॥ १७२ ॥
अष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरंदरदिनकररुद्राः । न त्वं नाह नाय लोकस्तदपि किमर्थ क्रियते शोकः ॥ १७३॥
चेतोहरा युवतयः सुहृदो- ऽनुकूलाः सद्बान्धवाः प्रणतिगर्भगिरश्च भृत्याः । गर्जन्ति दन्तिनिवहास्तुरलास्तुरङ्गाः सम्मीलने नयनयोर्न हि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३७४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

वैसन मे जाया मे बन्धुवर्गो मे । इति मे मे कुर्वाणं कोल-
वृको हन्ति पुरुषमजम् ॥ १९५ ॥ प्राप्ता जरा यौवनमप्य-
तीतं बुधा यतध्वं परमार्थसिद्धयै । आयुर्गतप्रायमिदं यतोऽसौ
विश्रम्य विश्रम्य न याति कालः ॥ १९६ ॥ भगीरथाद्याः
सगरः ककुत्स्थो दशाननो राघवक्ष्मणौ च । युधिष्ठिरा-
द्याश्च बभूवुरेत सत्यं क्व याता बत ते नरेन्द्राः ॥ १९७ ॥
आराध्य भूपतिमवाप्य ततो धनानि भुञ्जामहे वयमिह
प्रसभं सुखानि । इत्याशया बत विमोहितमानसानां कालो
जगाम मरणावधिरेव पुंसाम् ॥ १९८ ॥ यत्रानेके क्वचि-
दपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र
नैकोऽपि चान्ते । इत्थं चेमौ रजनिदिवसौ दोलयन्द्रावि-
वाँक्षौ कालः काल्या भुवनफलके क्रीडति प्राणिसारैः
॥ १९९ ॥ भ्रातः कष्टमहो महान्स नृपतिः सामन्तचक्रं
च तत्पार्श्वे तस्य च सा विदिग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः सर्वं
यस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in