सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 377 of 516
Read in context| ३६२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
निर्वाणम् ॥ ९ ॥ वत्स गच्छ मम वाचिकमेतद्रामचन्द्रचरणे कथयेथाः । आवयोरिव भवेदतुरागो नावयोरिव विधिः प्रतिकूलः ॥ १० ॥ शैशवात्प्रभृति योषिता प्रियेः सौहृदादपृथगाशया प्रियाम् । छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव ॥ ११ ॥ शीलानि ते चन्दनशीतलानि श्रुतानि भूमीतलविश्रुतानि । तथापि जीर्णौ पितरावतस्मिन्विहाय हा वत्स कथं प्रयासि ॥ १२ ॥ वनी मुनीनामटवी तरूणा दरी गिरीणां तु गवेषितैव । अतः परं लक्ष्मण पक्ष्मलाक्षीं प्राणा बहिर्भूय गवेषयन्तु ॥ १३ ॥ अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ १४ ॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वा बत किं न मे हतम् ॥ १५ ॥ अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया । तदिहानपराधिने प्रिये सखि कोऽयं करणोज्झितक्रमः ॥ १६ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in