सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 379 of 516
Read in context३६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
दुर्बुद्धे मा प्राणेषु दया कुरु । दुर्लभानि परानानि प्राणा जन्मनि जन्मनि ॥ २ ॥ विना मद्यं विना मांसं परस्वहरणं विना । विना परापकारेण ^१दिविरो दिवि रोदिति ॥ ३ ॥ पूर्वं चेटी ततो बेटी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा वेश्या तपस्विनी ॥ ४ ॥ यदक्षिभ्रूलतापाङ्गैः स्त्रियः कुर्वन्ति चापलम् । जघनेष्वेव तत्सर्वं पतत्यनपराधेषु ॥ ५ ॥ केशलोञ्चनसाम्येऽपि हन्त पश्यैतदन्तरम् । उपस्थाः कीटमश्नन्ति घृतभक्तं दिगम्बराः ॥ ६ ॥ सामगायनपूत मे नोच्छिष्टमधरं कुरु । उत्कण्ठितासि चेद्भद्रे वामं कर्णं दशस्व मे ॥ ७ ॥ भस्माङ्गुलिर्बकोड्डीयी बालशौची तथा हिहिः । धारावतीं चक्रवर्ती षडेते पुरुषाधमाः ॥ ८ ॥ प्रेषकः प्रैष्यकः काण्डः किमेकः स्तम्भलीनकः । योगी तत्कालरोगी च षडेते सेवकाधमाः ॥ ९ ॥ आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ॥ १० ॥ गताः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in