सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 371 of 516
Read in context| ३५६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
विलोकयति मामेतावदागः सखि ॥ ४ ॥ वक्रस्याधरपल्लवस्य वचसो हासस्य लास्यस्य वा धन्यानामरविन्दसुन्दरदृशा कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथ चेतःपथं क्वप्यथं काप्यान्त्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः ॥ ५ ॥ स्वीया सन्ति गृहे गृहे मृगदृशो यासा विलासकणकाञ्चीकुण्डलहेमकङ्कणझणत्कारो न विश्राम्यति । को हेतुः सखि कानने पुरपथे सौधे सखीसन्निधौ भ्राम्यन्ती मम वल्लभस्य परितो दृष्टिर्न मा मुञ्चति ॥ ६ ॥ सन्त्येव प्रतिमन्दिर युवतयो यासा सुधासागरस्रोतःस्यूतसरोजसुन्दरचमत्कारा दृशोर्विभ्रमाः । चित्रं किं तु विचित्रमन्मथकलावैशद्यहेतोः पुनर्विश्वं चित्तहर प्रयच्छति युवा मय्येव किं कारणम् ॥ ७ ॥ एतत्किं प्रणयिन्यपि प्रणयिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किञ्चिद्विशिष्टं रसात् । वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in