सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
About this granth
Subhashita Ratna Bhandagara (सुभाषितरत्नभाण्डागार, 'Treasury of Gem-like Sayings') is a large anthology of Sanskrit subhashitas, the short, polished verses quoted for their wit and wisdom. It was compiled by Pandit Kashinath Sharma (Kashinath Pandurang Parab) and published by the Nirnaya Sagar Press, Bombay; the English title page describes it as a collection of more than ten thousand verses gathered from poems, plays, works on statecraft and stray stanzas.
The book opens with a subject index giving the page and verse numbers for each topic. The first section, of invocations, has verses on Parabrahman, Ganesha, Sarasvati, Shiva, the Ganga, Vishnu, Lakshmi, the ten avatars, Krishna, Radha and others, and later sections take up conduct, kingship, allegory, love and nature.
At about 516 pages, it remains a standard place to look for a fitting Sanskrit verse on a given theme.
व्योमचरान्योक्तयः, स्थलचरान्योक्तयः २२९
भूस्तरुशिखरशवक्रव्यलेशानशान। धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद्भासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंह. ॥ २२५ ॥
वकः
एष बक¹ महसैव विपन्न शाठ्यमहो क्व नु तद्गतमस्य । साधु कृतान्तक कश्चिदपि त्वा वञ्चयितु न कुतोऽपि समर्थ ॥२२६॥ न कोकिलानाभिव मञ्जु कूजित न लब्धलास्यानि गतानि हसवत् । न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति बके वकव्रतम् ॥ २२७ ॥ बकोट ब्रूमस्त्वा लघुनि सरसि क्वापि शफरैस्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचित । इतश्चेतश्चाञ्चलिहलहरिहेलातरलितक्षितिभ्रग्ग्रासैकम्रहिततिमिपोत पतिरपाम् ॥ २२८ ॥ नैर्मल्यं वपुषस्तवास्ति वमतिः पद्माकरे जायते मन्द याहि मनोरमा वद गिर मौन च सपादय । धन्यस्त्वं वक राजहमपदवी प्राप्तोऽसि कि तैर्गुणैर्नीरक्षीरविभागकर्मनिपुणा शक्ति. कथं लभ्यते ॥२२९॥ जा¹तिस्तस्य न मानसे न शु²चिभिर्वृत्तिर्मृणालाङ्कुरैर्न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
प्यपगतशङ्कं समागतापि पुर । करिणामरिणा हरिणा
हरिणाली हन्यता नु कथम् ॥ १८ ॥ हेलाविदलितकरि-
कुल कण्ठीरव कीदृशः प्रकोपोऽयम् । लोले बालशृगाले
केवलकोलाहलाधारे ॥ १९ ॥ गर्जितमाकर्ण्य मनागङ्के
मातुर्निगार्धजातोऽपि । हरिणिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य
लीयते निभृतम् ॥ २० ॥ वयोभिमानादपमानता चेद्द्वि-
धीयते फेरुजरत्तरेण । हेलाहतानेककरीन्द्रसूनो हरीन्द्र-
सूनोर्नहि कापि हानि ॥ २१ ॥ भिनत्ति भीमं करिराज-
कुम्भं बिभर्ति वेगं पवनादतीव । करोति वास गिरिगह्वरेषु
तथापि सिंहः पशुरेव नान्य ॥ २२ ॥ गम्यते यदि मृगे-
न्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम् । जम्बुकाल्लयगतेन
लभ्यते वत्सपुच्छखुरचर्मखण्डनम् ॥ २३ ॥ येन भिन्न
करिकुम्भविखलन्मौक्तिकावलिभिरञ्चिता मही । अद्य
तेन हरिणान्तिके कथ कथ्यता नु हरिणा पराक्रम
॥ २४ ॥ हरिरलसविलोचन. सहेलं बैलमवलोक्य
पुनर्जगाम निद्राम् । अधिगतपतिविक्रमास्तभीतिर्न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| स्थलचरान्योक्तयः | २३१ |

| [सिंहः] | गजः |

| दिक्रमहो महोन्नतधराधौरैयधात्रीधरप्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥४४॥ यस्यावन्ध्यरुषः१ प्रतापवसतेर्नादेन धैर्यद्रुहः शुष्यन्ति स्म मदप्रवाहसरितो गण्डोऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना कर्षन्त्येव करेण केसरसटाभारं जरत्कुञ्जराः२ ॥ ४५ ॥ यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् । तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थलीभृङ्गे केसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ ४६ ॥ यूना येन विभिन्नवारणघटाकुम्भोच्छलन्मौक्तिकश्रेणीभिः परिपूरितास्तटभुवो भूमीभृतां कोटिशः । तस्यैवाद्य निवाससीम्नि कलभाः क्रीडन्ति निःसाध्वसं पारीन्द्रस्य३ जरातुरस्य तदहो जीर्णा जिगीषारमः ॥ ४७ ॥ कः कं कुत्र न घुर्घुरारवनिधुरीघोरो घुरेच्छूकरः कः कं कं कमलाकरं विमलं कर्तुं करी नोद्यतः । के के |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २३२ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

| न स्वां करेणुमपि नापि निजान्किशोरान्नात्मानमेष परिशोचति वारेणेन्द्रः । दावाग्निमग्नतनुगत्र यथोपमन्दान्दानार्थिनो मधुकरानधिरूढभावान् ॥ ७३ ॥ दन्तं दलत्यपि जलैः सहसाधिरूढे को वर्धमानगतिरांसितुमुत्सहेत । यद्दन्तिनः कटकटाहतटानिर्मोङ्गोर्मिपाति परितः पटलैरलीनाम् ॥ ७४ ॥ न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले न पङ्केराह्लादं व्रजति विसभङ्गावशकले । ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं सरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७५ ॥ गले पाशस्तीव्रश्चरणयुगले गाढनिगडो दृढः स्कन्धे बन्धः शिरसि संनिपातः खरतरः । नरस्कन्धारूढो बत मरणयोग्येऽपि विषये न जानीमोऽल्पार्थे द्विरद वद कस्मात्तव मदः ॥ ७६ ॥ निषेवन्तामेते वृषमहिषमेषाश्च हरिणा गृहाः क्षुद्राणानि कतिपयतृणैरेव सुखिनः । गजानामास्थानं मदमलिलजम्बालितमुवा तदेकं विन्ध्याद्रेर्विपिनमथवा भूपसदनम् ॥ ७७ ॥ न कुर्याः प्राखर्यं किमपि |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inस्थलचरान्योक्तयः २३३
द्विषद्गण्डस्थला। आः कालस्य कुतूहलं शृणु सखे प्राचीनपालीमलैः प्रायः स्निग्धकपोलपालिरधमः कोलोऽपि सस्पर्घते ॥ ९४ ॥ यत्प्रत्यग्रदलावलीकवलनैर्जातोऽसि शैलोपमो यच्छायासु कदर्थितोऽसि न कदाप्यर्कांशुभिः कर्कशै । घोराघातकिरातपत्रिपतने यैर्वारणाणायितं तन्मातङ्ग मदान्ध पाटयसि किं विन्ध्याटवीपादपान् ॥ ९५ ॥ ऊर्णा नैष दधाति नापि विषयो वाहस्य दोहस्य वा तृप्तिर्नास्य महोदरस्य बहुगोघासैं पलालैरपि। हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति कपर्दकैरसुमिति ग्राम्यैर्गजो हस्यते ॥ ९६ ॥ घासग्रास गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्या पाशग्रन्थिप्रणानामविरलमधुना देहि पङ्कानुलेपम् । दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तदृश्या रेवातीरोप-कण्ठव्युतकसुमरजोधूसरा विन्ध्यपादाः ॥ ९७ ॥ यूथान्यग्रे गतानि प्रबलबलभृतो बद्धवैरा मृगेन्द्रा मूलादाकृष्यमाणाः सपदि तरुहहो भूरूहा निष्पतन्ति । दृष्ट्वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
चाटूनमृषा नैषा गर्वगिरः शृणोषि न च तान्प्रत्याशया
धावसि । काले बालतृणानि खादसि परं निद्रासि
निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम
तप्तं तपः ॥ ११९ ॥ नात्र व्याधशराः पतन्ति परितो
नैवात्र दावानलो नाप्युच्चावचभीतिरस्ति कुहचिन्नो वागुरा
भङ्गुरा । पर्यालोच्य कुरङ्गकेण विहितो नक्षत्रनाथाश्रयो नो
जानाति यदत्र दास्यति दिवि खर्भानुदन्तव्रणम् ॥ १२० ॥
व्योमार्थे ज्वलितो रविः कवलितं दावानलैः काननं धूम्या-
भिर्न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः । इत्थं
लोहितसिक्तसृक्कणि यथाप्राणं मृगे धावति व्याधेनापि
शरासने करुणया नारोपितः सायकः ॥ १२१ ॥ मुक्त्वा
भव्यतृणानि नव्यसलिलान्यापीय वापीतलान्निर्गण्डं परि-
शील्य शीतलरुचोरोमन्थमभ्यस्यति । या सैवाद्य मृगी
मृगादनमुखात्त्रासा शिशुं शोचते तद्वेधा बहुधा विपद्विरचने
बीजानि नापेक्षते ॥ १२२ ॥ पात्राक्षुण्णखुरस्य बाणपतनप्रव्यक्त-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inस्थलचरान्योक्तयः, जलचरान्योक्तयः २३५
कर्दमदुर्गमे जलभृते गर्त¹शतैराकुले खिन्ने शाकटिके²
भरेऽतिविषमे दूर गते रोधसि । शब्दे नैतदह ब्रवीमि
महता कूलोच्छ्रिता तर्जनीमीक्षे विषमे विहाय धवल वोढुं
क्षम. को धुरम् ॥ १४५ ॥ दन्ता सम चल विषाणयुगलं
पुच्छाञ्चल. कर्बुरः कुक्षिश्चन्द्रकितो वपुः कुसुमिस सघृणितं
चेष्टितम् । अस्मिन्दुष्टवृषे मृषामितगुणग्रामानभिज्ञात्मनो
ग्रामीणम्य तथापि चेतसि चिर धुर्यश्रम स्फूर्जति
॥ १४६ ॥ केषांचिद्धवलाश्चिर निवसिताश्चित्ते परेषा
पुनर्नीलो वा कपिलोऽथवा वरवृषो रक्तोऽथवा मेचक ।
आमीणैरवधीरिताऽपि शिथिलस्कन्धोऽप्यनुच्चैःश्रवाः स्वान्ते
मे परतन्न्रतुन्दिलतनुर्जीगर्य्य कर्षुर ॥ १४७ ॥ न ध्वानं
कुरुषे न यासि विकटं नोच्चैर्हस्यानन दर्पाल्लोल्लिखसि क्षिति
खुरपुटैर्नावज्ञया वीक्षसे । किंतु त्व वसुधातलेकधवल.
स्कन्धाधिरूढे भरे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| ३३६ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

कूर्मः
भ्रमति गिरिराट् पृष्ठे गर्जत्यु पर्यपि सागरो दहति
विततज्वालाजालो जगन्ति विषानलः । म तु विनिहितग्री-
वाकाण्डः कटाहुकटोदर स्वपिति भगवान्कूर्मो निद्रामगलस-
लोचनः ॥ ४ ॥ पुत्रिय कति नात्र सन्ति भुवनेऽभूवन्किय-
न्त्योऽथवा मौभाग्यंकमठी तथादिकमठी स्त्रीषु प्रशंसास्पदम् ।
अंश्वे मोगिनि भङ्गुरेषु करिषु श्रष्टोत्सवे दंष्ट्रिणि क्षोणौ
साहसिकाग्रणीस्तुलयितुं जागर्ति यस्याः सुतः ॥ ५ ॥
वृक्षान्योक्तयः
अहो एषा वर जन्म सर्वप्राण्युपजीवनम् । धन्या मही-
रुहा येभ्यो निराशा यान्ति नार्थिनः ॥ १ ॥ पत्रपुष्पफल-
च्छायामूलवल्कलदारुभिः । गन्धनिर्यासमस्मास्थिन्वोकर्मै
कामान्वितन्वते ॥ २ ॥ प्रत्यग्रै ^१ पत्रनिचयैस्तरुर्यैरव
शोभितः । जहाति जीर्णास्तानेव कि वा चित्रं कुजन्मनाम् ॥ ३ ॥
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलान्यपि
परार्थाय वृक्षाः सत्पुरुषा इव ॥ ४ ॥ परोपसर्पणानन्तचि-
न्तानलशिखाशतैः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| वृक्षान्योक्तयः | २३७ |

| [स्तम्भ १] | [स्तम्भ २] |

| निर्मितं गृहं विघटितं धूमाकुलैः कोकिलैर्मायूरैश्छलितं
पुरैव रमसा कीरैरधीरैर्गतम् । एकेनापि सपल्लवेन तरुणा
दावानलोपप्लव सोढ को न विपत्सु मुञ्चति जनो मूर्खापि
यो लालित ॥ २७ ॥ एकस्त्वं गरुभून्महेन्द्र वितते
शाखाशतैराश्रित. पुष्यत्युष्पफलान्वितैरमृदितेजैव्या. सहस्रं
समा. । अश्रान्तं श्रमरुगणपान्थजनतासर्वार्यानिर्वाहणं कस्त्वा
सात्त्विकमन्तरण भुवन निर्मातु धर्मोशय ॥ २८ ॥ धत्से
मूर्धनि दु महा दिनमणेरुद्दामधामच्छटाश्छायाभि पथिका-
न्विदग्धमथितान्पुष्णासि पुष्पै फलै । धैर्यं मुञ्चसि नैव
येन भवता शाखा सुविस्तारितास्तेनाशासु वनस्यते तव
यशस्तोम समुज्जृम्भते ॥२९॥ तीव्रोज्य नितरा निदाघः ग्र
प्रोद्यत्प्रचण्डद्युतिर्मार्गो म्ाग्व एव तत्र पथिकाः सञ्चारिण
कोटिश । तेषा कश्चिदिहाश्रयस्तरुवरे देवेन संपादित
सोऽप्येक सुकृती करोतु कियता संतापनिवर्वापण म् ॥ ३० |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२३८ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
न्वितो यदि भवानत्राभविष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ५४ ॥ एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरभं ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते । माकन्दादपहत्य पङ्कजवनादुद्धूय कुन्दोदरादुद्धाम्य द्विपगण्डमण्डलादाकृष्य हृष्यन्मना ॥ ५५ ॥ वासः शैलशिलान्तरेषु सहजं सङ्गो भुजंगैः सह प्रक्षुब्धागपयोधिचीचिभिर्भुदुद्गतसेकक्रिया । जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां कस्मात्ते परतापखण्डनमहो पाण्डिल्यमप्यागतम् ॥ ५६ ॥ लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां दुर्वंशैः परुषैरसारहृदयैरग्रेन्तान्येतदराग्ने । ते ह्यन्योन्यनिघर्षणजातदहनज्वालावलीसंकुला न स्वाम्येव कुलानि केवलमिदं सर्वं दहेयुर्वनम् ॥ ५७ ॥ सौरभ्यं भुवनत्रयेऽपि विदितं मलय नु लोगान्तरं कीर्तिः किं च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवृक्षान्योक्तयः
२३९
[वामस्तम्भः]
मापूरयन्निब ॥ ८० ॥
गुजति मञ्जु मिलिन्दे मालति मा मौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥ ८१ ॥
अयि कि गुणवति मालति जीवति भवतीं विना मधुपः ।
अथ यदि जीवति जीवतु जीवितमपि तस्य जीवनाभासः ॥ ८२ ॥
मा मालति म्लायसि यद्यविद्यश्चुचुम्ब तुम्ब्रीकुसुमं षँडङ्घ्रिः ।
पदैश्चतुर्भिर्हि युतः पशुश्चेत्स षड्भिरध्यर्धपशुः कथं नो ॥ ८३ ॥
कति सन्ति लब्धुलता ललिता नवकोरकिता धरणीसुतले ।
कति बन्धुरगन्धभृतस्तरवो गुरवो निवसन्ति गिरौ मलये ॥ ८४ ॥
अयि मालति सौरभसारविनिर्जितसविकसत्कमलानिलये ।
मधुपानविधौ मधुपस्य पुनर्भवने भवतीमहमाकलये ॥ ८५ ॥
किं मालतीकुसुम ताम्यसि निष्ठुरेण केनापि यत्किल विलूनमितो लताग्रात् ।
लोकोत्तरेण विलसद्गुणगौरवेण को नामुना शिरसि नाम करिष्यति त्वाम् ॥ ८६ ॥
मँर्दीयस्त्वाधिक्यान्न भवति विमर्दक्षममिदं न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
बन्धो कूजत्पिकावलिनिदान तथा विधेहि । गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यत्प्रयाति विबुधेन्द्रकरीन्द्रवृक्षान् ॥ १११ ॥ शश्वन्निसर्गमलिना महदन्धकारं कामं लुण्ठन्ति तान्यपि मधूनि तव द्विरेफाः । युक्तं न तत्तव कषायरसप्रगोहैरेतान्वतारयसि कि कलकण्ठयूनः ॥ ११२ ॥ र रे रसाल तरुसार वचो विवेहि वासन्तिकी स्वफलपल्लवपुष्पलक्ष्मीम् । तावद्विकस्वरपिकद्विजमात्कुरु द्राङ् न व्यग्रितोऽसि कलभैः शलभैश्च यावत् ॥ ११३ ॥ यद्यञ्जनीनचिरमध्वनि घर्मखिन्नः कासारतीररुहमाश्रय नम्रमात्रम् । छाया न केवलमित श्रमिता लभन्ते कामं पचेलिमफलं विमलं जलं च ॥ ११४ ॥ सौरभ्यगर्भमरन्दकरम्बितानि पङ्केरुहाण्यपि विहाय समागतस्त्वाम् । ससारसार सहकार तथा विधेहि येनोपहासविषयो न भवेद्धिरेफः ॥ ११५ ॥ कति कति न वसन्ते वल्ल्यः शाखिनो वा किसलयसुमनोभिः शोभमाना बभूवुः । तदपि युवजनानां प्रीतये
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवृक्षान्योक्तयः २४१
तमालः
पास्यन्ति कस्य कुसुमे मधुपा मधूनि स्थास्यन्ति कस्य
शिखरेषु विहंगमालाः । इत्येव शोचति परं परितो
विसारिदावाग्निभग्नवपुरेष तरुस्तमालः ॥ १३४ ॥
कदली
तालीतरोरुपकारि फलं फलित्वा लज्जावशादुचिन
एव विनाशयोगः । एत चित्रमुपकृत्य फलै परेभ्यः
प्राणान्निजान्झटिति यत्कदली जहाति ॥ १३५ ॥
द्राक्षा
दौसेरकस्य दासीयं बदरी यदि रोचते । एतावत्तैव
किं द्राक्षा न साक्षादमृतप्रदा ॥ १३६ ॥ यद्यपि न
भवति हानिः परकीया चरति रासभे द्राक्षाम् । असम-
ञ्जसमिति मत्वा तथापि खलु खिद्यते चेतः ॥ १३७ ॥
दाडिमः
मयि जीवति बीजाढ्ये किमन्ये बीजपूरकाः । इति सञ्चिन्त्य
मनसा विदे दाडिमीफलम् ॥ १३८॥ आ पुष्पप्रसवान्मनो-
हरतया विश्वास विश्वं जनं हृष्टो दाडिम तावदेव सहसे वृद्धिं
स्वकीयामिह । यावच्चेति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तन्नातिवन्द्यो भवान् ॥१३९॥
नालिकेरः
उच्चैरेष तरुः फलं च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in| २४२ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

| बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः । तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं स्थाने तस्य तु काकलोकवसतिर्निम्बः समारोपितः ॥ १५९ ॥

बब्बुलः
पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शुकैः । उपसर्पेम भवन्तं बब्बुल वद कस्य लोभेन ॥ १६० ॥
गात्रं कण्टकसंकटं प्रविरलच्छाया न चायासहृन्निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम् । बब्बूलद्रुम मूलमेति न जनस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुह्ये $^{२}$वृत्तिर्जायसे ॥ १६१ ॥
आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतोपकम् । रे रे बब्बुल साधुसङ्गरहितस्तत्तावदास्तामहो ह्यन्येषामपि शाखिनां फलवतां गुह्ये वृत्तिर्जायसे ॥ १६२ ॥
शाखा कण्टककोटिभिः परिवृता वज्रं फलं कुत्सितं पत्रं क्षुद्रतरं न चास्ति गहना छायापि पान्थप्रिया । अन्येषामपि |
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवृक्षान्योक्तयः २४३
कार्पासः
नीरसान्यपि रोचन्ते कार्पासस्य फलानि मे । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ १८४ ॥
श्लाघ्यं कार्पासफलं यस्य गुणै रन्ध्रवन्ति पिहितानि । मुक्ताफलानि तरुणीकुचकलश-तटेषु विलसन्ति ॥ १८५ ॥
निष्पेषोऽस्थिचयस्य दु महतर प्राप्तस्तुला रोहणं ग्राम्यस्त्रीनखचुम्बनव्यतिकरस्तत्तीव्रप्रहारव्यथा।
मौतङ्गोक्षितमण्डवारिकणिकापानं च कूर्चाहतिः कार्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ १८६ ॥
शणः
भूर्जः परोपकृतये निजकवचविकर्तनं सहते । परबन्धनाय तु शण प्रेक्षध्वमिहान्तरं कीदृक् ॥ १८७ ॥
कण्टकारिका
उचितं नाम नारङ्ग्या केतक्यामपि कण्टकाः । रसगन्धो-ज्झिते किं ते कण्टका कण्टकारिके ॥ १८८ ॥
धत्तूरः
माँधुर्यमाराधयितामृतस्य तत्कण्टकित्वं पनसस्य सह्यम् । उन्मादिनो मातुलपुत्रकस्य कथं सहामो बत कण्टकित्वम् ॥ १८९ ॥
धत्तूर धूर्त तरुणेन्दुनिवासयोग्ये स्थाने पिशाचपतिना विनिवेशितोऽसि । किं कैरवाणि विकसन्ति तमः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
विकसति रात्रौ दिवा च कूष्माण्ड्याः । अलिकुलनिचये
रुचिर किं तु यशः कुमुदकमलयोरेव ॥ २११ ॥ उदित-
वति द्विजराजे कस्य न हृदये मुदं पदं धत्ते । सकुचसि
कमल यदयं हर हर वामो विधिर्भवत ॥ २१२ ॥ एते
हि गुणा पङ्कज मन्तोऽपि न ते प्रकाशमायान्ति । यल्लक्ष्मी-
वमतेस्तव मधुपैरुपजीव्यते कोशः ॥ २१३ ॥ पद्मिनि
किमिति क्रीडसि मधुपैर्जालञ्बोऽपि न हि किं ते । हर
हर विस्मृत्योक्तं क्व नु लज्जा सेवितुरक्तायाः ॥ २१४ ॥
किं कुप्यसि कमलेचन सौरभसाराय कुप्य निजमधुने ।
यस्य कृते शतपत्र प्रतिपत्रं तेऽद्य मृग्यते भ्रमरैः ॥ २१५ ॥
अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्त्वम् ।
पुष्पवतीमपि भवतीं त्यजति न वृद्ध शुचिहंसः ॥ २१६ ॥
मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनि मास्थाः ।
लोकानामेव मुदे महितोऽप्यात्मानुमार्थिता नीत ॥ २१७ ॥
न कुले वापि न शीले न वास्ति रूपेऽपि कश्चिदुत्कर्षः ।
यत्पुष्णाति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवृक्षान्योक्तयः, संकीर्णान्योक्तयः २४५
मनसो निर्माति मे न व्यथा नो दूये चिरलालिता मधु-
लिहः सर्पन्ति यन्नान्तिकम् । जल्पन्तीव दुरक्षराणि मधुप-
श्रेणीरवच्छद्मना यत्कादम्ब कुमुद्वती हसति मा तन्मे
मनस्ताम्यति ॥ २३९ ॥ सम्भूतिस्तव मानसे सरसिज त्वत्सौ-
रभैर्वासिता. सर्वास्ता१ ककुभस्तवास्ति परमो बन्धुर्विवस्वा-
निति । त्वं चेदद्य गुणानवद्य शिशिरे शीतानिलैः शीर्यसि
प्रायः प्राप्तमिदं तदत्र परमं दिष्टेऽब्ददृष्टं बलम् ॥ २४० ॥
खद्योतास्तरला भवन्ति भगवानस्तंगतो भानुमान् कोकः
शोकमुपैति मत्तमनसः केङ्कुर्वते कौशिकाः । इत्थं चेतसदस-
द्विवेविधुरो धाता तदेतादृशं न द्रष्टव्यमितीव मुद्रितवती
पद्मेक्षणं पद्मिनी ॥ २४१ ॥ पौलोमीपतिकानने विलसता
गीर्वाणभूमीरुहा येन घ्रातसमुज्झितानि कुसुमान्याजह्निरे
निर्जरैः । तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकाङ्क्षति त्वं
चेद्वभ्रसि लोभमम्बुज तदा किं त्वा प्रति ब्रूमहे ॥ २४२ ॥
लताः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४६ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
सुवर्णम्
अग्निदाहे न मे दुःखं छेदे न निकषे न वा । यत्तदेव
महद्दुःखं गुञ्जया सह तोलनम् ॥ १८ ॥
नैवै ताडनात्तापनाद्वह्निमध्ये न वै विक्रयात्क्लिश्यमानोऽहमस्मि । सुवर्णस्य मे
मुख्यदुःखं तदेकं यतो मा जना गुञ्जया तोलयन्ति ॥ १९ ॥
मौक्तिकम्
अत्यच्छेनाविशुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिन्नेन
सप्तारं मौक्तिकेनेव निवन्धनम् ॥ २० ॥
हृदये कुरु सञ्चयं गुणानां यदि रे वाञ्छसि नासिके निवासम् । इति मौक्तिक ते वदामि
नूनं गुणहीनो नहि नासिके विभाति ॥ २१ ॥
रत्नाकर परित्यक्ता वसति किमन्यदङ्गीकृतं कठिनवेध्नदुःखम् । वक्षोजकुम्भ-
परिरम्भणलोलुपैन किं किं न तेन विहितं बत मौक्तिकेने ॥ २२ ॥
सुवर्णकारः
हे हेमकार परदुःखविचारमूढ किं मां मुहुः क्षिपसि
वाग्शतानि वह्नौ । मद्दीष्यते मयि सुवर्णगुणातिरेको लाभः
परं तव मुखे खलु भस्मपातः ॥ २३ ॥
हारः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसंकीर्णान्योक्तयः २४७
भूपाना भवनेषु किंच विमलक्षेत्रेषु गूढागया साधूनामभयो
वसन्ति कति नो त्वत्तुल्यकक्षा खलाः ॥ ४४ ॥
सर्वोद्वेगकर मृगादनममु सत्यज्य हा धिक्त्वया लोकस्या-
नपकारिणं गिरिनदीतीराटवीनिर्घृतम् । अश्रान्तं तृणमेण-
शावमदयं व्याध श्तामुं वृथा देवो दुर्बलघातकोऽयमिति
सा गाथा यथार्थीकृता ॥ ४५ ॥
विषमन्त्री
भेकेने॑ कणता सरोपपरुषं यत्कृष्णसर्पानने दातु
कर्णचपेटमुज्झितभिया हस्त समुल्लासित । यच्चाधोमुख-
मक्षिणी विदधता नागेन तूष्णी स्थित तत्मर्व विषमन्त्रिणो
भगवत कस्यापि लीलायितम् ॥ ४६ ॥
मालाकार.
तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार
व्यरचि भवता या तरोरस्य पुष्टि । सा कि शक्या
जनयितुमिह प्रावृषेण्येन वाग धारासारानपि विकिरता
विश्वतो वारिदेन ॥ ४७ ॥
कायस्थः
विप्रेभ्य.
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४८ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
कुचतटीपटीपल्लवप्रकम्पनपरिस्फुरत्स्वेदनलेशपारं गतः ॥ ६६ ॥
रे रे दीप तिरस्कृताखिलतमःस्तोमारिवर्गस्य ते रात्रौ
गूढनिजाङ्गपातिशलभाघातेन किं पौरुषम् । तत्कर्माचर येन
तावदयशो भूयात्प्रभाते पुनर्न स्नेहो न च सा दशा नहि परं
ज्योतिः परं स्वास्यति ॥ ६७ ॥
तुला
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥ ६८ ॥
प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते । नयसि
गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ ६९ ॥
कुम्भः
दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः ।
यज्जीवनदानैस्त्वं तृषामर्षं नृणां हरसि ॥ ७० ॥
श्लाघ्यं नीरसंकाष्ठताडनशतं श्लाघ्यं प्रचण्डातपक्लेशं श्लाघ्यतरं
सुपक्वनिचये
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in