सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 255 of 516
Read in context२४० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
बन्धो कूजत्पिकावलिनिदान तथा विधेहि । गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यत्प्रयाति विबुधेन्द्रकरीन्द्रवृक्षान् ॥ १११ ॥ शश्वन्निसर्गमलिना महदन्धकारं कामं लुण्ठन्ति तान्यपि मधूनि तव द्विरेफाः । युक्तं न तत्तव कषायरसप्रगोहैरेतान्वतारयसि कि कलकण्ठयूनः ॥ ११२ ॥ र रे रसाल तरुसार वचो विवेहि वासन्तिकी स्वफलपल्लवपुष्पलक्ष्मीम् । तावद्विकस्वरपिकद्विजमात्कुरु द्राङ् न व्यग्रितोऽसि कलभैः शलभैश्च यावत् ॥ ११३ ॥ यद्यञ्जनीनचिरमध्वनि घर्मखिन्नः कासारतीररुहमाश्रय नम्रमात्रम् । छाया न केवलमित श्रमिता लभन्ते कामं पचेलिमफलं विमलं जलं च ॥ ११४ ॥ सौरभ्यगर्भमरन्दकरम्बितानि पङ्केरुहाण्यपि विहाय समागतस्त्वाम् । ससारसार सहकार तथा विधेहि येनोपहासविषयो न भवेद्धिरेफः ॥ ११५ ॥ कति कति न वसन्ते वल्ल्यः शाखिनो वा किसलयसुमनोभिः शोभमाना बभूवुः । तदपि युवजनानां प्रीतये
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in