Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 249 of 516

Read in context
Page 249
Page 249 scan

२३४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्


चाटूनमृषा नैषा गर्वगिरः शृणोषि न च तान्प्रत्याशया
धावसि । काले बालतृणानि खादसि परं निद्रासि
निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम
तप्तं तपः ॥ ११९ ॥ नात्र व्याधशराः पतन्ति परितो
नैवात्र दावानलो नाप्युच्चावचभीतिरस्ति कुहचिन्नो वागुरा
भङ्गुरा । पर्यालोच्य कुरङ्गकेण विहितो नक्षत्रनाथाश्रयो नो
जानाति यदत्र दास्यति दिवि खर्भानुदन्तव्रणम् ॥ १२० ॥
व्योमार्थे ज्वलितो रविः कवलितं दावानलैः काननं धूम्या-
भिर्न दिशः स्फुरन्ति परितः पन्थाः शिलादन्तुरः । इत्थं
लोहितसिक्तसृक्कणि यथाप्राणं मृगे धावति व्याधेनापि
शरासने करुणया नारोपितः सायकः ॥ १२१ ॥ मुक्त्वा
भव्यतृणानि नव्यसलिलान्यापीय वापीतलान्निर्गण्डं परि-
शील्य शीतलरुचोरोमन्थमभ्यस्यति । या सैवाद्य मृगी
मृगादनमुखात्त्रासा शिशुं शोचते तद्वेधा बहुधा विपद्विरचने
बीजानि नापेक्षते ॥ १२२ ॥ पात्राक्षुण्णखुरस्य बाणपतनप्रव्यक्त-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in