सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 258 of 516
Read in contextवृक्षान्योक्तयः २४३
कार्पासः
नीरसान्यपि रोचन्ते कार्पासस्य फलानि मे । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ १८४ ॥
श्लाघ्यं कार्पासफलं यस्य गुणै रन्ध्रवन्ति पिहितानि । मुक्ताफलानि तरुणीकुचकलश-तटेषु विलसन्ति ॥ १८५ ॥
निष्पेषोऽस्थिचयस्य दु महतर प्राप्तस्तुला रोहणं ग्राम्यस्त्रीनखचुम्बनव्यतिकरस्तत्तीव्रप्रहारव्यथा।
मौतङ्गोक्षितमण्डवारिकणिकापानं च कूर्चाहतिः कार्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ १८६ ॥
शणः
भूर्जः परोपकृतये निजकवचविकर्तनं सहते । परबन्धनाय तु शण प्रेक्षध्वमिहान्तरं कीदृक् ॥ १८७ ॥
कण्टकारिका
उचितं नाम नारङ्ग्या केतक्यामपि कण्टकाः । रसगन्धो-ज्झिते किं ते कण्टका कण्टकारिके ॥ १८८ ॥
धत्तूरः
माँधुर्यमाराधयितामृतस्य तत्कण्टकित्वं पनसस्य सह्यम् । उन्मादिनो मातुलपुत्रकस्य कथं सहामो बत कण्टकित्वम् ॥ १८९ ॥
धत्तूर धूर्त तरुणेन्दुनिवासयोग्ये स्थाने पिशाचपतिना विनिवेशितोऽसि । किं कैरवाणि विकसन्ति तमः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in