सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 98 of 516
Read in contextसंहतिप्रशंसा, क्षमाप्रशंसा, विनयप्रशंसा, सत्यप्रशंसा, असत्यनिन्दा, आत्मश्लाघानिन्दा, स्वभाववर्णनम् ८३
॥ १२ ॥ उद्योगिनः करालम्बं करोति कमलाल्या ।
अनुद्योगिकरालम्बं करोति कमलाग्रजा ॥ १३ ॥ काकता-
लीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते
पुरुषार्थमपेक्षते ॥ १४ ॥ आलस्यं हि मनुष्याणां शरी-
रस्थो महान्रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसी-
दति ॥ १५ ॥ संपदा सुस्थितंमन्यो भवति स्वल्पयापि
यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ १६ ॥
न लभन्ते विनोद्योगं जन्तवः संपदां पदम् । सुराः क्षीरोद-
विक्षोभमनुभूयाममृतं पपुः ॥ १७ ॥ नात्युच्चशिखरो मेरुर्ना-
तिनीचं रसातलम् । व्यवसायद्वितीयानां नाप्यपारो महो-
दधिः ॥ १८ ॥ पूर्वजन्मजनितं पुराविदः कर्म दैवमिति
संप्रचक्षते । उद्यमेन तदुपार्जितं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in