सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 97 of 516
Read in context८२ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्]
गुणानर्चन्ति जन्तूना न जाति केवला क्वचित् । स्फाटिकं
भाजन भग्न काकिन्यापि न गृह्यते ॥ २८ ॥ नहि जन्मनि
ज्यैष्ठत्व ज्येष्ठत्वं गुण उच्यते । गुणाद्गुरुत्वमायाति दधि
दुग्धं घृत यथा ॥ २९ ॥ गुणवान्सुचिरस्थायी दैवे-
नापि न सह्यते । तिष्ठत्येको निशा चन्द्र श्रीमान्संपूर्ण-
मण्डल. ॥ ३० ॥ सर्वत्र गुणवान्देशे चकास्ति प्रथते-
तराम् । मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ ३१ ॥
गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय । लूता-
तन्तुभिरिव कि गुणैर्विमर्दासहैर्र्बहुभि. ॥ ३२ ॥ अनवसरे
गुणवानपि हृदयादवतार्यते हार. । पश्य शलाकावसरे
तृणेऽपि भूपैः प्रसार्यते स्वकरः ॥ ३३ ॥ गुणवन्त क्लिश्यन्ते
प्रायेण भवन्ति निर्गुणा सुखिन । बन्धनमायान्ति
शुका यथेष्टसंचारिण. काका ॥ ३४ ॥ गुणिनि गुणज्ञो
रमते नागुणशीलस्य गुणिनि परितोष. । अलिरेति
वनात्कमलं न दर्दुरस्तन्निवासोऽपि ॥ ३५ ॥ अवल-
म्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः । पत्रमयोऽपि
पदार्थः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in